🪷

यज्ञोपवीतोपनिषत्

Yajnopavitopanishat

उपनिषद् · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as यज्ञोपवीतोपनिषत्

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

अक्षर का आकार

यज्ञोपवीती धृतचक्रधारी यो ब्रह्मविद्ब्रह्मविदां मनीषी हिरण्यमादाय सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्री शूद्रो बाहुभ्यां धारयेत् । तस्माद्गर्भेण जायते । ब्राह्मणस्य शरीरं जायते । श्रीविष्णुं सर्वेश्वरं भजन्ति ।

नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं तु धारयेत् ।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥

भूमिर्धेनुर्धरणी लोकधारिणी ॥

मृत्तिके न मे पापं त्वयि सर्वं प्रतिष्ठितम् ॥

तस्माद्विरेखं भवति तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा चक्रं पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत् । आत्मकृतमाचरेत् । आचार्यस्य संमुखं प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं सालोक्यसामीप्यसारूप्यसायुज्यं गच्छति । य एवं वेद । इत्युपनिषत् ॥

इति यज्ञोपवीतोपनिषत् समाप्ता

स्रोत · Source

अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#anya-upanishadah

सम्बन्धित पाठ · Related reading

और उपनिषद्पुस्तकालय