गुह्यकाल्युपनिषत्
उपनिषद् · Sanskrit · ⏱ 9 min
अन्य नाम · Also known as गुह्यकाल्युपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
अथर्ववेदमध्ये तु शाखा मुख्यतमा हि षट् ।
स्वयंभुवा याः कथिताः पुत्रायाथर्वण पुरा ॥ १ ॥
तासु गुद्योपनिषदस्तिष्ठन्ति वरवर्णिनि ।
नामानि शृणु शाखानां तत्राद्या वारतन्तवी ॥ २ ॥
मौञ्जायनी द्वितीया तु तृतीया तार्णबैन्दवी ।
चतुर्थी शौनकी प्रोक्ता पञ्चमी पैप्पलादिका ॥ ३ ॥
षष्ठी सौमन्तवी ज्ञेया सारात् सारतमा इमाः ।
गुह्योपनिषदो गूढाः सन्ति शाखासु षट्स्वपि ॥ ४ ॥
ता एकीकृत्य सर्वास्तु मयाऽस्यां विनिवेशिताः ।
संहितायां साधकानामुद्धाराय वरानने ॥ ५ ॥
तास्ते वदामि यत् प्रोक्तं ध्यानं कुर्वन्ति देवताः ।
विराट्ध्यानं हि तज्ज्ञेयं महापातकनाशनम् ॥ ६ ॥
ब्रह्माण्डाद्बहिरूर्ध्वं हि महत्तत्त्वमहङ्कृतिः ।
रूपाणि पञ्च तन्मात्राः पुरुषः प्रकृतिर्नव ॥ ७ ॥
महापातालपादान्तलम्बा तम्या जयं स्मरेत् ।
ब्रह्माण्डार्धं कपालं हि शिरस्तस्या विभावयेत् ॥ ८ ॥
देवलोको ललाटं च षट्त्रिंशल्लक्षयोजनम् ।
मेरुः सीमन्तदण्डोऽस्या ग्रहरत्नसमाकुलः ॥ ९ ॥
अन्तर्वीथी नागवीथी भ्रुवावस्याः प्रकीर्तिते ।
शिवलोकश्च वैकुण्ठलोकः कर्णावुभौ मतौ ॥ १० ॥
लोहितं तिलकं ध्यायेन्नासा मन्दाकिनी तथा ।
चक्षुषी चन्द्रसूर्यौ च पक्ष्माणि किरणास्तथा ॥ ११ ॥
गण्डौ स्यातां तपोलोकसत्यलोको यथाक्रमम् ।
जनोलोकमहर्लोको कपोलौ परिकीर्तितौ ॥ १२ ॥
स्यातां हिमाद्रिकैलासौ तस्या देव्यास्तु कुण्डले ।
स्वर्लोकश्च भुवर्लोको देव्या ओष्ठाधरौ मतौ ॥ १३ ॥
दिक्पतीनां ग्रहाणां च लोकाश्चाथ रदावली ।
गन्धर्वसिद्धसाध्यानां पितृकिन्निररक्षसाम् ॥ १४ ॥
पिशाचयक्षाप्सरसां मरीचीयायिनां तथा ।
विद्याधराणामाज्योप्मपाणां सोमैकपायिनाम् ॥ १५ ॥
सप्तर्षीणां ध्रुवस्यापि लोका ऊर्ध्वरदावली ।
मुखं च रोदसी ज्ञेयं द्यौर्लोकश्चिबुकं तथा ॥ १६ ॥
ब्रह्मलोको गलः प्रोक्तो वायवः प्राणरूपिणः ।
वनस्पतय ओपध्यो लोमानि परिचक्षते ॥ १७ ॥
विद्युद्दृष्टिरहोरात्रं निमेषोन्मेषसंज्ञकम् ।
विश्वं तु हृदयं प्रोक्तं पृथिवी पाठ उच्यते ॥ १८ ॥
तलं तलातलं चैव पातालं सुतलं तथा ।
रसातलं नागलोकाः पादाङ्गुल्यः प्रकीर्तिताः ॥ १९ ॥
वेदा वाचः स्यन्दमाना नदा नद्योऽमिता मताः ।
कलाः काष्ठा मुहूर्ताश्च ऋतवोऽयनमेव च ॥ २० ॥
पक्षा मासास्तथा चाव्दाश्चत्वारोऽपि युगाः प्रिये ।
कफोणिर्मणिबन्धश्च तदूरुकटिबन्धनाः ॥ २१ ॥
प्रपदाश्च स्फिचश्चैव सर्वाङ्गानि प्रचक्षते ।
वैश्वानरः कालमृत्युर्जिह्वात्रयमिदं स्मृतम् ॥ २२ ॥
आब्रह्मस्तम्बपर्यन्तं तनुमस्याः प्रचक्षते ।
प्रलयो भोजने कालस्तृप्तिस्तेन च नासिका ॥ २३ ॥
ज्ञेयः पार्श्वपरीवर्तो महाकल्पान्तरोद्भवः ।
विराड्रूपस्य ते ध्यानमिति संक्षेपतोऽर्पितम् ॥ २४ ॥
तस्याः स्वरूपविज्ञानं सपर्या परिकीर्तिता ।
तदेव हि श्रुतिप्रोक्तमवधारय पार्वति ॥ २५ ॥
यथोर्णनाभिः सूत्राणि सृजत्यपि गिलत्यपि ।
यथा पृथिव्यामोषध्यः संभवन्ति गिलन्त्यपि ॥ २६ ॥
पुरुषात् केशलोमानि जायन्ते च क्षरन्त्यपि ।
उत्पद्यन्ते विलीयन्ते तथा तस्यां जगत्यपि ॥ २७ ॥
ज्वलतः पावकाद्यद्वत् स्फुलिङ्गाः कोटिकोटिशः ।
निर्गत्य च विनश्यन्ति विश्वं तस्यास्तथा प्रिये ॥ २८ ॥
ऋचो यजूंषि सामानि दीक्षा यज्ञाः सदक्षिणाः ।
अध्वर्युर्यजमानश्च भुवनानि चतुर्दश ॥ २९ ॥
ब्रह्मविष्ण्वादिका देवा मनुष्याः पशवो यतः ।
प्राणापानौ व्रीहयश्च सत्यं श्रद्धा विधिस्तपः ॥ ३० ॥
समुद्रा गिरयो नद्यः सर्वे स्थावरजङ्गमाः ।
विसृज्येमानि सर्गादौ त्वं प्रकाशयसे ततः ॥ ३१ ॥
जङ्गमानि विधायान्धे विशत्यप्रतिभूतकम् ।
नवद्वारं पुरं कृत्वा गवाक्षाणीन्द्रियाण्यपि ॥ ३२ ॥
सा पश्यत्यत्ति वहति स्पृशति क्रीडतीच्छति ।
शृणोति जिघ्रति तथा रमते विरमत्यपि ॥ ३३ ॥
तया मुक्तं पुरं तद्धि मृतमित्यभिधीयते ॥ ३४ ॥
ये तपः क्षीणदोषास्ते नैव पश्यन्ति भाविताम् ।
ज्योतिर्मयीं शरीरेऽन्तर्ध्यायमानां महात्मभिः ॥ ३५ ॥
बृहच्च तद्दिव्यमचिन्त्यरूपं
सूक्ष्माच्च तत् सूक्ष्मतरं विभाति ।
दूरात् सुदूरे तदिहास्ति किञ्चित्
पश्येत्त्वहैतन्निहितं गुहायाम् ॥ ३६ ॥
न चक्षुषा गृह्यते नापि वाचा
नान्यैर्योगैर्न हि सा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वः
ततस्तु तां पश्यति निष्कलां च ॥ ३७ ॥
यथा नद्यः स्यन्दमानाः समुद्रे
गच्छन्त्यस्तं नामरूपे विहाय ।
तथा विद्वान् नामरूपाद्विमुक्त:
परात् परां जगदम्बामुपैति ॥ ३८ ॥
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ॥ ३९ ॥
सैवैतत् ॥
एषैवालम्बनं श्रेष्ठं सैषैवालम्बनं परम् ।
एषैवालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ४० ॥
इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ ४९ ॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषात्तु परा देवी सा काष्ठा सा परा गतिः ॥ ४२ ॥
यथोदकं गिरौ सृष्टं समुद्रेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तामेवानुविधावति ॥ ४३ ॥
एका गुह्या सर्वभूतान्तरात्मा
एकं रूपं बहुधा या करोति ।
तामात्मस्थां येऽनुपश्यन्ति धीराः
तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४४ ॥
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तामेव भान्तीमनुभाति सर्वं
तस्या भासा सर्वमिदं विभाति ॥ ४५ ॥
यस्याः परं नापरमस्ति किञ्चित्
यस्या नाणीयो न ज्यायोऽस्ति किञ्चित् ।
वृक्ष इव स्तब्धा दिवि तिष्ठत्येका
यदन्तः पूर्णामवगत्य पूर्णः ॥ ४६ ॥
सर्वाननशिरोग्रीवा सर्वभृतगुहाशया ।
सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा ॥ ४७ ॥
सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखा ।
सर्वतः श्रुतिमत्येषा सर्वमावृत्य तिष्ठति ॥ ४८ ॥
सर्वेन्द्रियगुणाभासा सर्वेन्द्रियविवर्जिता ।
सर्वेषां प्रभुरीशानी सर्वेषां शरणं सुहृत् ॥ ४९ ॥
नवद्वारे पुरे देवी हंसी लीलायतां बहिः ।
ध्येया सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ ५० ॥
अपाणिपादा जननी ग्रहीत्री
पश्यत्यचक्षुः सा शृणोत्यकर्णा ।
मा वेत्ति वेद्यं न च तस्यास्तु वेत्ता
नामाहुरग्र्यां महतीं महीयसी ॥ ५१ ॥
सा चैवाग्निः सा च सूर्यः सा वायुः सा च चन्द्रमाः ।
सा चैव शुक्रः सा ब्रह्म सा चापः सा प्रजापतिः ।
सा चैव स्त्री सा च पुमान् सा कुमारः कुमारिका ॥ ५२ ॥
ऋचो अक्षरे परमे व्योमन्
यस्यां देवा अधिरुद्रा निषेदुः ।
यस्तां न वेद किमृचा करिष्यति
ये तां विदुस्त इमे समासते ॥ ५३ ॥
छन्दांसि यज्ञाः क्रतवो व्रतानि
भृतं भव्यं यच्च वेदा वदन्ति ।
सर्वं देवी सृजते विश्वमेतत्
तस्याश्चान्यो मायया संनिरुद्धः ॥ ५४ ॥
मायां तु प्रकृतिं विद्यात् प्रभुं तस्या महेश्वरीम् ।
अस्या अवयवैः सूक्ष्मैर्व्याप्तं सर्वमिदं जगत् ॥ ५५ ॥
या देवानां प्रभवा चोद्भवा च
विश्वाधिपा सर्वभूतेषु गूढा ।
हिरण्यगर्भं जनयामास पूर्वं
सा नो बुद्ध्या शुभया संयुनक्तु ॥ ५६ ॥
सूक्ष्मातिसूक्ष्मं सलिलस्य मध्ये
विश्वस्य स्रष्ट्रीमनेकाननाख्याम् ।
विश्वस्य चैकां परिवेष्टयित्रीं
ज्ञात्वा गुह्यां शान्तिमत्यन्तमेति ॥ ५७ ॥
सा ह्येव काले भुवनस्य गोप्त्री
विश्वाधिपा सर्वभूतेषु गूढा ।
यस्यां मुक्ता ब्रह्मर्षयोऽपि देवाः
ज्ञात्वा तां मृत्युपाशाञ्छिनत्ति ॥ ५८ ॥
घृतात् परं मण्डमिवातिसूक्ष्मं
ज्ञात्वा कालीं सर्वभूतेषु गूढाम् ।
कल्पान्ते वै सर्वसंहारकर्त्रीं
ज्ञात्वा गुह्यां मुच्यते सर्वपापैः ॥ ५९ ॥
एषा देवी विश्वयोनिर्महात्मा
सदा जनानां हृदि सन्निविष्टा ।
हृदा मनीषा मनसाभिकॢप्ता
ये तां विदुरमृतास्ते भवन्ति ॥ ६० ॥
यदा तमस्तत्र दिवा न रात्रिः
न सन्न चासद्भगवत्येव गुह्या ।
तदक्षरं तत्सवितुर्वरेण्यं
प्रज्ञा च तस्याः प्रसृता परा सा ॥ ६१ ॥
नैनामूर्ध्वं न तिर्यक् च न मध्यं परिजग्रभत् ।
न तस्या: प्रतिमाभिश्च तस्या नाम महद्यशः ॥ ६२ ॥
न संदृशे तिष्ठति रूपमस्याः
न चक्षुषा पश्यति कश्चिदेनाम् ।
हृदा मनीषा मनसाभिकॢप्तां
य एनां विदुरमृतास्ते भवन्ति ॥ ६३ ॥
भूयश्च सृष्ट्वा त्रिदशानथेशी
सर्वाधिपत्यं कुरुते भवानी ।
सर्वा दिशश्चोर्ध्वमधश्च तिर्यक्
प्रकाशयन्ती भ्राजते गुह्यकाली ॥ ६४ ॥
नैव स्त्री न पुमानेषा नैव चेयं नपुंसका ।
यद्यच्छरीरमादत्ते तेन तेनैव युज्यते ॥ ६५ ॥
धर्मावहां पापनुदां भगेशीं
ज्ञात्वात्मस्थाममृतां विश्वमातरम् ।
तामीश्वराणां परमां महेश्वरीं
तां देवतानां परदेवतां च ।
पतिं पतीनां परमां पुरस्तात्
विद्यावतां गुह्यकालीं मनीषाम् ॥ ६६ ॥
तस्या न कार्यं करणं च विद्यते
न तत्समा चाप्यधिका च दृश्यते ।
परास्याः शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ ६७ ॥
कश्चिन्न तस्याः पतिरस्ति लोके
न चेशिता नैव तस्याश्च लिङ्गम् ।
सा कारणं कारणकारणाधिपा
नास्याश्च कचिज्जनिता न चाधिपः ॥ ६८ ॥
एका देवी सर्वभूतेषु गूढा
व्याप्नोत्येतत् सर्वभृतान्तरस्था ।
कर्माध्यक्षा सर्वभूताधिवासा
साक्षिण्येषा केवला निर्गुणा च ॥ ६९ ॥
वशिन्येका निष्क्रियाणां बहूनां
एकं बीजं बहुधा या करोति ।
नानारूपा दशवक्त्रं विधत्ते
नानारूपान् या च बाहुन् बिभर्ति ॥ ७० ॥
नित्या नित्यानां चेतना चेतनानां
एका बहूनां विदधाति कामान् ।
तत्कारणं साङ्ख्ययोगाधिगम्यं
ज्ञात्वा देवीं मुच्यते सर्वपाशैः ॥ ७१ ॥
या वै विष्णुं पालने संनियुङ्क्ते
रुद्रं देवं संहृतौ चापि गुह्या ।
तां वै देवीमात्मबुद्धिप्रकाशां
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ७२ ॥
निष्कलां निष्क्रियां शान्तां निरवद्यां निरञ्जनाम् ।
बह्वाननकरां देवीं गुह्यामेकां समाश्रये ॥ ७३ ॥
इयं हि गुह्योपनिपत् सुगूढा
या ब्रह्मा देवता विश्वयोनिः ।
एतां जपंश्चान्वहं भक्तियुक्तः
सत्यं सत्यं ह्यमृतः संबभूव ॥ ७४ ॥
वेदवेदान्तयोर्गुह्यं पुराकल्पे प्रचोदितम् ।
नाप्रशान्ताय दातव्यं नाशिष्याय च वै पुनः ॥ ७५ ॥
यस्य देव्यां परा भक्तिर्यथा देव्यां तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्तं महात्मनः ॥ ७६ ॥
महाकाल उवाच ---
गुह्योपनिपदित्येषा गोप्यात् गोप्यतरा सदा ।
चतुर्भ्यश्चापि वेदेभ्य एकीकृत्यात्र योजिता ॥ ७७ ॥
उपदिष्टा च सर्गादौ सर्वानिव दिवौकसः ।
एवंविधं च यद्ध्यानमेवंरूपं च कीर्तितम् ॥ ७८ ॥
सा सपर्या परिज्ञेया विधानमधुना शृणु ।
सोऽहमस्मीति प्रथमं सोऽहमस्मि द्वितीयकम् ॥ ७९ ॥
तदस्म्यहं तृतीयं च महावाक्यत्रयं भवेत ।
आद्यान्येतानि वाक्यानि छन्दांसि परिचक्षते ॥ ८० ॥
देवता गुह्यकाली च रजःसत्त्वतमोगुणाः ।
सर्वेषां प्रणवो बीजं हंसः शक्तिः प्रकीर्तिता ॥ ८१ ॥
मकारश्चाप्यकारश्च ह्युकारश्चेति कीलकम् ।
एभिर्वाक्यत्रयैः सर्वं कर्म प्रोतं विधानतः ॥ ८२ ॥
अनुक्षणं जपंश्चैव निश्चयः परिकीर्तितः ।
द्वितीयोपासकानां हि परिपाटीयमीरिता ॥ ८३ ॥
एवं चाप्यातुरो यस्तु मनुष्यो भक्तिभावितः ।
विमुक्तः सर्वपापेभ्यः कैवल्यायोपकल्पते ।
सर्वाभिः सिद्धिभिस्तस्य किं कार्यं कमलानने ॥ ८४ ॥
इति श्रीमहाकालसंहितायां गुह्यकाल्युपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.
Sanskrit text from Sanskrit Wikisource.