त्रिपुरोपनिषत्
उपनिषद् · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as त्रिपुरोपनिषत् · Tripuropanishat
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.
त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् ।
अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥ १ ॥
ॐ वाङ्मे मनसीति शान्तिः ॥
ॐ तिस्रः पुरस्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः संनिविष्टाः । अधिष्ठाना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥ १ ॥ नव१योनीर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च । नवानां चक्रा अधिनाथा स्योना नव भद्रा नव मुद्रा महीनाम् ॥ २ ॥ एका स आसीत्प्रथमा सा नवासीदासोनविंशादासोनत्रिंशात् । चत्वारिंशादथ तिस्रः समिधा उशतीरिव मातरो मा विशन्तु ॥ ३ ॥ ऊर्ध्वज्वलज्ज्वलनं ज्योतिरग्रे तमो वै तिरश्चीनमजरं तद्रजोऽभूत् । आनन्दनं मोदनं ज्योतिरिन्दोरेता उ वै मण्डला मण्डयन्ति ॥ ४ ॥ यास्तिस्रो रेखाः सदनानि भूस्त्रीस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः । एतत्त्रयं पूरकं पूरकाणां म२न्त्री प्रथते मदनो मदन्या ॥ ५ ॥ मदन्तिका मानिनी मङ्गला च सुभागा च सा सुन्दरी सिद्धिमत्ता । लज्जा मतिस्तुष्टिरष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥ ६ ॥ इमां विज्ञाय सु३धिया मदन्ती परिस्रुता तर्पयन्तः स्वपीठम् । नाकस्य पृष्ठे महतो वसन्ति परं धाम त्रैपुरं चाविशन्ति ॥ ७ ॥ कामो योनिः कामकला वज्रपाणिर्गुहाहसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमातादिविद्या ॥ ८ ॥ षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिकमादेशयन्तः । कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥ ९ ॥ पुरं हन्त्री मुखं विश्वमातू रवे रेखा स्वरमध्यं तदेषा । बृहत्तिथिर्दश पञ्च च नित्या सषोडशीकं पुरमध्यं बिभर्ति ॥ १० ॥ यद्वा मण्डलाद्वा स्तनबिम्बमेकं मुखं चाधस्त्रीणि गुहासदनानि । कामी कलां कामरूपां चिकित्वा नरो जायते कामरूपश्च कामः ॥ ११ ॥ परिस्रुतं झषमाजं फलं च भक्तानि योनीः सुपरिष्कृताश्च । निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥ १२ ॥ सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् । इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ १३ ॥ भगः शक्तिर्भगवाकाम ईश उभा दाताराविह सौभगानाम् । समप्रधानौ समसत्त्वौ समोजौतयोः शक्तिरजरा विश्वयोनिः ॥ १४ ॥ परिस्रुता हविषा भावितेन प्रसंकोचे गलिते वैमनस्कः । शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति ॥ १५ ॥ इयं महोपनिषत्त्रैपुर्या यामक्षयं परमो गीर्भिरीट्टे । एषर्ग्यजुः परमेतच्च सामायमथर्वेयमन्या च विद्या ॥ १६ ॥ ॐ ह्रीमों हीमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ वाङ्मे मनसीति शान्तिः ॥
इति श्रीत्रिपुरोपनिषत्समाप्ता ॥ ८५ ॥
ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.