श्यामोपनिषत्
उपनिषद् · ⚔️ माँ काली · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as श्यामोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
ॐ क्रीं अथ हैनां ब्रह्मरन्ध्रे ब्रह्मस्वरूपिणीमाप्नोति सुभगां शुभधातुकामरेफेन्दिरासमष्टिरूपिणीमेतत्त्रिगुणमादौ तदनु कूर्चबीजद्वयं व्योमषष्ठस्वरबिन्दुमेलनरूपं तदनु भुवनेशीद्वयं भवतु व्योमज्वलनेन्दिराशून्यमेलनरूपं ततो दक्षिणे कालिके चेत्यपि ततो मुखबीजसप्तकमुच्चार्य बृहद्भानुजायामुच्चरेत् । अयं स मन्त्रोत्तमः । य इमां सकृज्जपन् स तु देवेश्वरः । स तु विश्वेश्वरः । स तु नारीश्वरः । स तु सर्वगुरुः । स तु सर्वनमस्यः । स तु सर्ववेदैरधीतो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स स्वयं सदाशिवः । त्रिकोणं त्रिकोणं त्रिकोणं त्रिकोणं पुनश्चैव त्रिकोणं साष्टपत्रं सकेसरं भूपुरैकेण संयुतं तस्मिन्देवीं हृल्लेखामङ्गे विन्यस्य ध्यायेत् । अभिनवजलदनीला कुटिलदंष्ट्रावराभयखड्गमुण्डसहितहस्ता कालिका ध्येया । काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी विप्रचितेति बहिः षट्कोणगाः । उद्या उग्रप्रभा दीप्ता नीला घना वलाका मात्रा मुद्रा अमितेति नवकोणगाः । ब्राह्मी नारायणी माहेश्वरी चामुण्डा वाराही नारसिंही कौमारी चापरा-जितेत्यष्टपत्रगाः । चतुष्कोणेषु चत्वारो माधवरुद्रविनायकसौराः । दिक्षु दिक्पालाः । देवीं सर्वाङ्गेणादौ संपूज्य भगोदकेन तर्पणं पञ्चमकारेण पूजनमेतस्याः । एवं द्वित्रिक्रमेण कुर्वाणा मुनयो भवन्ति । नारिमित्रादिलक्षणमस्यवर्तते । अमुष्या मन्त्रपाठकस्य गतिरस्ति । नान्यस्येह गतिरस्ति । एतस्यास्तारामनोर्दुर्गामनोस्सुन्दरीमनोर्वा सिद्धिरिदानीम् । सर्वाः सुप्ता भूताः । असिताङ्गी जागर्ति । इमामसिताङ्ग्युपनिषदं योऽधीते अपुत्री पुत्री भवति । योऽन्यस्य वरदो दृष्ट्या जगन्मोहयेत् । गङ्गादितीर्थक्षेत्राणामग्निष्टोमादियज्ञानां फलभागीयते ।
इत्याथर्वणे सौभाग्यकाण्डे श्यामोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.
Sanskrit text from Sanskrit Wikisource.