वटुकोपनिषत्
उपनिषद् · Sanskrit · ⏱ 7 min
अन्य नाम · Also known as वटुकोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
अथ वटुकोपनिषदं व्याख्यास्यामः ।
वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिर्भविता नेतरेषाम्
यो वै वटुकः स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च विष्णुस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च रुद्रस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्चेन्द्रस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्चाग्निस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च वायुस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च सूर्यस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च सोमस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च ग्रहास्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्चोपग्रहास्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च भूस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च भुवस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च स्वस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्चान्तरिक्षं तस्मै वै नमो नमः॥
यो वै वटुकः स भगवान् यश्च द्यौस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्चापस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च तेजस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च कालस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च मृत्युस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्चामृत्युस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्चाकाशस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च विश्वं तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च शुक्लं तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च दम्भस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्वादम्भस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवात् यश्च सूक्ष्मं तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च स्थूलं तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च कृष्णस्तस्मै वै नमो नमः॥
यो वै वटुकः स भगवान् यश्चाकृष्णस्तस्मै वै नमो नमः । यो वै वटुकः स भगवान् यश्च सत्यं तस्मै वै नमो नमः । यो वै वटुकः स भगवान् यश्च सर्व तस्मै वै नमो नमः ॥
भूस्ते आदिर्मध्यं भुवः स्वस्ते शीर्षं विश्वरूपोऽसि ब्रह्मैकत्वं द्विधा त्रिधा बुद्धिस्त्वं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम् । अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्य । सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः । सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं सौम्यं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन प्रसति स्वेन तेजसा तस्मादुपसंहर्त्रे महाग्रासाय वै नमो नमः ।
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।
हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः ॥
तस्योत्तरतः शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारो य ओङ्कारः स प्रणवो यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं यत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं ब्रह्म स एको य एकः स रुद्रो यो रुद्रः स ईशानो य ईशानः स भगवान् महेश्वरो यो भगवान् महेश्वरः स भगवान् वटुकेश्वरो यो भगवान् वटुकेश्वरः ।
अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यत ओङ्कारः । अथ कस्मादुच्यते प्रणवो यस्मादुच्चार्यमाण एव ऋग्यजुस्सामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव सर्वान् लोकान् व्याप्नोति स्नेहो यथा पललपिण्डमिव शान्तरूपमोतप्रोतमनुप्राप्तो व्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी । अथ कस्मादुच्यते ऽनन्तो यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः । अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्मव्याधि-जरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यते तारम् । अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यभिमृशति तस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एवं क्लन्दते क्लामयति च तस्मादुच्यते शुक्ल । अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एवाव्यक्ते महति तमसि द्योतयति तस्मादुच्यते वैद्युतम् । अथ कस्मादुच्यते परं ब्रह्म यस्मात् परमपरं परायणं च बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म । अथ कस्मादुच्यत एको यः सर्वान् प्राणान् संभक्ष्य संभक्षणेनाजः संसृजति विसृजति तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चः प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह सद्गतिः । साकं स एको भूतश्चरति प्रजानां तस्मादुच्यत एकः । अथ कस्मादुच्यते रुद्रो यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः । अथ कस्मादुच्यत ईशानो यः सर्वान् देवानीशत ईशानीभिर्जननीभिश्च परमशक्तिभिः । अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः सुवर्दृशमीशानमिन्द्र तस्थुषः । तस्मादुच्यत ईशानः । अथ कस्मादुच्यते भगवान् महेश्वरो यस्माद्भक्ता ज्ञानेन भजन्त्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान् महेश्वरः । अथ कस्मादुच्यते भगवान् वटुकेश्वरो यस्मादन्तर्जलौषधिवीरुधानाविश्येमं विश्वं भुवनानि वा अवते तस्मादुच्यते भगवान् वटुकेश्वरः । तदेतद्रुद्रचरितम् ।
एको ह देवः प्रदिशो नु सर्वाः
पूर्वो ह जातः स उ गर्भे अन्तः ।
स एव जातः स जनिष्यमाणः
प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥
एको वटुको न द्वितीयाय तस्मै
य इमान् लोकानीशत ईशनीभिः ।
प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले
संसृज्य विश्वा भुवनानि गोप्ता ॥
यस्मिन् क्रोधं यां च तृष्णां क्षमां च
ह्यक्षमां हित्वा हेतुजालस्य मूलम् ।
बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे
शाश्वतं वै रुद्रमेकत्वमाहुः ॥
वटुको हि शाश्वतेन पुराणेन
वेषमूर्जेण तपसा नियन्ता ॥
अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं ह वेदं भस्म मन एतानि चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्मनाङ्गानि संस्पृशेत्तस्माद्ब्रह्म तदेतद्वटुकं पशुपाशविमोक्षणाय ।
यस्मिन्निदं सर्वमोतप्रोतं
तस्मादन्यन्न परं किञ्चनास्ति ।
न तस्मात् पूर्वं न परं तदस्ति
न भूतं नोत भव्यं यदासीत् ॥
अक्षराज्जायते कालः कालाद्व्यापक उच्यते ।
व्यापको हि भगवान् वटुको भोगायमानो यदा शेते रुद्रस्तदा संहरते प्रजाः । उच्छ्वासिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं भवत्यण्डाद्ब्रह्मा भवति ब्रह्मणो वायुर्वायोरोङ्कार ओङ्कारात्सावित्री सावित्र्या गायत्री गायत्र्या लोकाःभवन्ति । एतद्धि परमं तपः । आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवःस्वरों नम इति ।
य इमां वटुकोपनिषदं ब्राह्मणोऽधीतेऽश्रोत्रियः श्रोत्रियो भवति । अनुपनीत उपनीतो भवति । स हाग्निपूतो भवति । स वायुपूतो भवति । स सूर्यपूतो भवति । स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वपूतो भवति । स सर्वैर्देवैरनुज्ञातो भवति । स सर्वैर्वेदैरनुध्यातो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वविद्भवति । स सर्वायुरारोग्यवान् भवति । स कालज्ञानी भवति । स गुर्वनुग्रहभागी भवति । इत्येवं भगवद्वटुकेश्वरं यः स्तौति स वेद्यं वेदेति ॥
इत्याथर्वणरहस्ये वटुकोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.