🪷

वज्रपञ्जरोपनिषत्

Vajrapanjaropanishat

उपनिषद् · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as वज्रपञ्जरोपनिषत्

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

अक्षर का आकार

सह नाववतु --- इति शान्तिः ।

वज्रपञ्जरेण भस्मधारणं कुर्यात् । वामकरे भस्म गृहीत्वा सद्योजातमिति पञ्चब्रह्ममन्त्रः । त्रियम्बकं जातवेदसे गायत्र्या मानस्तोकैरभिमन्त्र्य मूलेन सप्तवारमभिमत्र्य श्रीविद्येयं शिरसि । ऐं वद वद वाग्वादिनि ह्स्रैः क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु । हसकलरी ओं मोक्षं कुरु कुरु । ह्सौः इति मुखे । ओं ओं नमो भगवति ज्वालामालिनि देवदेवि सर्वज्ञानं हारिकेजातवेदसि ज्वलन्ति ज्वलन्ति प्रज्वल प्रज्वल ह्रां ह्रीं ह्रूं र र र र ज्वालामालिनि हुं फट् स्वाहा इति हृदये । जलवासिन्यै नमो नाभौ । ह्रीं वह्निवासिन्यै नमो गुह्ये । ओं सह . . . . नाभ्यादिजान्वन्तम् । ओं ह्रीं श्रीं पशु हुं फट् स्वाहा जान्वादिपादपर्यन्तम् । ओं ह्रीं स्फुर स्फुर प्रस्फुर प्रस्फुर . . . . . रूप तट तट चट चट प्रचट प्रचट कह कह वम वम बन्धय बन्धय घातय घातय हुं फट् स्वाहा इत्यघोरेण शिरसि । ओं वैष्णव्यै नमो हृदये । पुनः अघोरेण पृष्ठे । पुनः सुदर्शनेन जान्वादिनाभ्यन्तम् । पुनः पाशुपतेन पादादिजान्वन्तम् । ह्सौः अ अं क्षं स्हौः . . ओं ह्रीं क्लीं क्ष्रौं श्रीं ।

उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥

श्रीं क्ष्रौं श्रीं ह्रीं ओं इति दक्षिणबाहौ । ओं क्षां ओं नमो भगवते नारसिंहाय ज्वालामालिने तीक्ष्णदंष्ट्राग्मिनेत्राय सर्वरक्षोघ्नाय सर्वज्वरविनाशाय सर्वभूतविनाशाय दह दह पच पच रक्ष रक्ष हुं फट् स्वाहा इति वामबाहौ । उत्तिष्ठ पुरुष हरितपिङ्गळ लोहिताक्ष देहि मे दापय स्वाहा । ओं ह्रीं दुं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं वा ते भगवति शमय शमय स्वाहा ।

मृत्योस्तुल्यं त्रिलोकीं ग्रसितुमतिरसान्निस्सृता किं नु जिह्वा
किं वा कृष्णाङ्घ्रिपद्मसृतिभिररुणिता विष्णुपद्याः पदव्यः ।
प्राप्ताः सन्ध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्र इत्यूह्यमानाः
देवैर्देव्यास्त्रिशूलक्षतमहिषजुषो रक्तधारा जयन्ति ॥

इति बडबानलदुर्गामृत्योस्तुल्यवनदुर्गाभिः सर्वाङ्गमुद्धूळयेत् । ततः शेषभस्मनि जलं निक्षिप्य त्रिपुण्ड्रधारणं कुर्यात् ।

एता एव महाविद्या विभूतेरभिधारणे ।
कथिताः परमेशानि सतां पूर्वतराघहाः ॥

वज्रपञ्जरनाम्नैव यः कुर्याद्भस्मधारणम् । स सर्वभयनिर्मुक्तः साक्षाच्छिवमयो भवेत् । एतानि तानि श्रीमन्त्रपवित्रे यानि भस्मनि ॥

दग्धकामाङ्गविभूतित्रैपुण्ड्रितानि कथितानि ललाटपट्टे लोपयन्ति दैवलिखितानि दुरक्षराणि ।

इति वज्रपञ्जरोपनिषत् समाप्ता

स्रोत · Source

अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#anya-upanishadah

सम्बन्धित पाठ · Related reading

और उपनिषद्पुस्तकालय