तुरीयोपनिषत्
उपनिषद् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as तुरीयोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
सामान्यवेदान्त - उपनिषदः
कलातीतश्चेति । तन्न चत्वारः । अकारश्चायुतावयवान्वितः । उकारः शतावयवान्वितः । मकारः सहस्रावयवान्वितः । अर्धमात्रप्रणवोऽनन्तावयवान्वितः । सगुणो विराट्प्रणवः । संहारो निर्गुणप्रणवः । उभयात्मक उत्पत्तिप्रणवः । यथार्थकथनोमित्युच्चार्याभिमानोत्पत्तिप्रणवः । सर्वोपसंहारेण संहारप्रणवः । उभयात्मकत्वात् विराट्प्रणवः । उत्पत्तिप्रणवो दीर्घप्लुतविराट् । प्लुतप्लुत्युपसंहारः । विराट्प्रणवः षोडशमात्रान्वितः । षट्त्रिंशत्तत्वायुतः । षोडशमात्रात्मकं कथमित्युच्यते । अकारः प्रथमः । द्वितीय उकारः । मकारस्तृतीयः । अर्धमात्रा चतुर्थः । नादः पञ्चमः । बिन्दुः षष्ठः । कला सप्तमः । शक्तिरष्टमी । शान्तिर्नवमी । समाना दशमी । आत्मनैकादश । मनोन्मना द्वादश । वैखरी त्रयोदश । मध्यमा चतुर्दश । पश्यन्ती पञ्चदश । परा षोडश । इति षोडशमात्रात्मकः प्रणवः । षोडशमात्रा जाग्रत्स्वप्नसुषुप्तितुरीयावस्था भेदैरेकैकमात्राचातुर्विध्यमेत्य । षोडशमात्राश्चतुष्षष्टिभेदमेत्य । पुनश्चतुष्षष्टिमात्रा: प्रकृतिपुरुषद्वैविध्यमापाद्याष्टाविंशत्युत्तरभेदमात्रास्वरूपमासाद्य सगुणनिर्गुणत्वमेत्य एकोपि ब्रह्म प्रणवः ॥
सर्वाधारः परं ज्योतिरेष सर्वेश्वरो विभुः ।
सर्वदेवमयः सर्वप्रपञ्चाधारगर्भितः ।
सर्वाक्षरमयः कालः सदसद्भक्तिवर्जितः ॥
इति । य एवं वेदेत्युपनिषत् ॥
इति तुरीयोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.