तुरीयातीतोपनिषत्
उपनिषद् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as तुरीयातीतोपनिषत्
Sanskrit text from Sanskrit Wikisource.
ॐ तुरीयातीतोपनिषद्वेद्यं यत्परमाक्शरम् ।
तत्तुर्यातीतचिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् ॥
तुरीयातीतसंन्यासपरिव्राजाक्शमालिका ।
अव्यक्तैकाक्शरं पूर्णा सूर्याक्श्यध्यात्मकुण्डिका ॥
हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का
स्थितिरिति पितामहो भगवन्तं पितरमादिनारायणं
परिसमेत्योवाच।
तमाह भगवन्नारायणो योऽयमवधूतमार्गस्थो लोके
दुर्लभतरो नतु बाहुल्यो यद्येको भवति स एव नित्यपूतः स एव
वैराग्यमूर्तिः स एव ज्ञानाकारः स एव वेदपुरुष इति
ज्ञानिनो मन्यन्ते ।
महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते ।
अहं च तस्मिन्नेवावस्थितः सोऽयमादौ तावत्क्रमेण
कुटीचको बहूदकत्वं प्राप्य बहूदको हंसत्वमवलम्ब्य
हंसः परमहंसो भूत्वा स्वरूपानुसन्धानेन
सर्वप्रपञ्चं विदित्वा दण्डकमण्डलुकटिसूत्र
कौपीनाच्च्हादनं स्वविध्युक्तक्रियादिकं सर्वमप्सु
संन्यस्य दिगम्बरो भूत्वा विवर्णजीर्णवल्कलाजिन
परिग्रहमपि संत्यज्य तदूर्ध्वममन्त्रवदाचरन्क्शौरा
भ्यङ्गस्नानोर्ध्वपुण्ड्रादिकं विहाय लौकिकवैदिकम
प्युपसंहृत्य सर्वत्र पुण्यापुण्यवर्जितो ज्ञानाज्ञानमपि
विहाय शीतोष्णसुखदुःखमानावमानं निर्जित्य वासनात्रय
पूर्वकं निन्दानिन्दागर्वमत्सरदम्भदर्पद्वेषकामक्रोधलोभ
मोहहर्षामर्षासूयात्मसंरक्शणादिकं दग्ध्वा स्ववपुः
कुणपाकारमिव पश्यन्नयत्नेनानियमेन लाभालाभौ समौ
कृत्वा गोवृत्त्या प्राणसन्धारणं कुर्वन्यत्प्राप्तं तेनैव
निर्लोलुपः सर्वविद्यापाण्डित्यप्रपञ्चं भस्मीकृत्य स्वरूपं
गोपयित्वा ज्येष्ठाज्येष्ठत्वानपलापकः सर्वोत्कृष्टत्व
सर्वात्मकत्वाद्वैतं कल्पयित्वा मत्तो व्यतिरिक्तः कश्चिन्ना
न्योऽस्तीति देवगुह्यादिधनमात्मन्युपसंहृत्य दुःखेन नोद्विग्नः
सुखेन नानुमोदको रागे निःस्पृहः सर्वत्र शुभाशुभयो
रनभिस्नेहः सर्वेन्द्रियोपरमः स्वपूर्वापन्नाश्रमाचारविद्या
धर्मप्राभवमननुस्मरन्त्यक्तवर्णाश्रमाचारः सर्वदा
दिवानक्तसमत्वेनास्वप्नः सर्वदासंचारशीलो
देहमात्रवशिष्टो जलस्थलकमण्डलुः सर्वदानुन्मत्तो
बालोन्मत्तपिशाचवदेकाकी संचरन्नसंभाषणपरः
स्वरूपध्यानेन निरालम्बमवलम्ब्य स्वात्मनिष्ठानुकूलेन
सर्वं विस्मृत्य तुरीयातीतावधूतवेषेणाद्वैतनिष्ठापरः
प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः स
कृतकृत्यो भवतीत्युपनिषत् ॥
ॐ तत्सत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णामेवाशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति तुरीयातीतोपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "तुरीयातीतोपनिषत्", revision 100479.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.