तुलस्युपनिषत्
उपनिषद् · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as तुलस्युपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
अथ तुलस्युपनिषदं व्याख्यास्यामः । नारद ऋषिः । अथर्वाङ्गिरश्छन्दः । अमृता तुलसी देवता । सुधा बीजम् । वसुधा शक्तिः । नारायणः कीलकम् । श्यामां श्यामवपुर्धरां ऋक्स्वरूपां यजुर्मनां [?] ब्रह्माथर्वप्राणां कल्पहस्तां पुराणपठितां अमृतोद्भवां अमृतरसमञ्जरीं अनन्तां अनन्तरसभोगदां वैष्णवीं विष्णुवल्लभां मृत्युजन्मनिबर्हणीं दर्शनात्पापनाशिनीं स्पर्शनात्पावनीं अभिवन्दनाद्रोगनाशिनीं सेवनान्मृत्युनाशिनीं वैकुण्ठार्चनाद्विपद्धन्त्रीं भक्षणात् वयुनप्रदां प्रादक्षिण्याद्दारिद्र्यनाशिनीं मूलमृल्लेपनान्महापापभञ्जिनीं प्राणतर्पणादन्तर्मलनाशिनीं य एवं वेद स वैष्णवो भवति । वृथा न छिन्द्यात् । दृष्ट्वा प्रदक्षिणं कुर्यात् । यां न स्पृशेत् । पर्वणि न विचिन्वेत् । यदि विचिन्वति स विष्णुहा भवति । श्रीतुलस्यै स्वाहा । विष्णुप्रियायै स्वाहा । अमृतायै स्वाहा । श्रीतुलस्यै विद्महे विष्णुप्रियायै धीमहि । तन्नो अमृता प्रचोदयात् ॥
अमृतेऽमृतरूपासि अमृतत्वप्रदायिनि ।
त्वं मामुद्धर संसारात् क्षीरसागरकन्यके ॥
श्रीसखि त्वं सदानन्दे मुकुन्दस्य सदा प्रिये ।
वरदाभयहस्ताभ्यां मां विलोकय दुर्लभे ॥
अवृक्षवृक्षरूपासि वृक्षत्वं मे विनाशय ।
तुलस्यतुलरूपासि तुलाकोटिनिभेऽजरे ॥
अतुले त्वतुलायां हि हरिरेकोऽस्ति नान्यथा ।
त्वमेव जगतां धात्री त्वमेव विष्णुवल्लभा ॥
त्वमेव सुरसंसेव्या त्वमेव मोक्षदायिनी ।
त्वच्छायायां वसेल्लक्ष्मीस्त्वन्मूले विष्णुरव्ययः ॥
समन्ताद्देवताः सर्वाः सिद्धचारणपन्नगाः ।
यन्मूले सर्वतीर्थानि यन्मध्ये ब्रह्मदेवताः ॥
यदग्रे वेदशास्त्राणि तुलसीं तां नमाम्यहम् ।
तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ॥
नमस्ते नारदनुते नारायणमनःप्रिये ।
ब्रह्मानन्दाश्रुसंजाते वृन्दावननिवासिनि ॥
सर्वावयवसंपूर्णे अमृतोपनिषद्रसे ।
त्वं मामुद्धर कल्याणि महापापाव्धिदुस्तरात् ॥
सर्वेषामपि पापानां प्रायश्चित्तं त्वमेव हि ।
देवानां च ऋषीणां च पितॄणां त्वं सदा प्रिये ॥
विना श्रीतुलसीं विप्रा येऽपि श्राद्धं प्रकुर्वते ।
वृथा भवति तच्छ्राद्धं पितॄणां नोपगच्छति ॥
तुलसीपत्रमुत्सृज्य यदि पूजां करोति वै ।
आसुरी सा भवेत् पूजा विष्णुप्रीतिकरी न च ॥
यज्ञं दानं जपं तीर्थं श्राद्धं वै देवतार्चनम् ।
तर्पणं मार्जनं चान्यन्न कुर्यात्तुलसीं विना ॥
तुलसीदारुमणिभिः जपः सर्वार्थसाधकः ।
एवं न वेद यः कश्चित् स विप्रः श्वपचाधमः ॥
इत्याह भगवान् ब्रह्माणं नारायणः, ब्रह्मा नारदसनकादिभ्यः, सनकादयो वेदव्यासाय, वेदव्यासः शुकाय, शुको वामदेवाय, वामदेवो मुनिभ्यः, मुनयो मनुभ्यः प्रोचुः । य एवं वेद स स्त्रीहत्यायाः प्रमुच्यते । स वीरह-त्यायाः प्रमुच्यते । स ब्रह्महत्यायाः प्रमुच्यते । स महाभयात् प्रमुच्यते । स महादुःखात् प्रमुच्यते । देहान्ते वैकुण्ठमवाप्नोति वैकुण्ठमवाप्नोति । इत्युपनिषत् ॥
इति तुलस्युपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.