तारसारोपनिषत्
उपनिषद् · Sanskrit · ⏱ 4 min
अन्य नाम · Also known as तारसारोपनिषत्
Sanskrit text from Sanskrit Wikisource.
यन्नारायणतारार्थसत्यज्ञानसुखाकृति ।
त्रिपान्नारायणाकरं तद्ब्रह्मैवास्मि केवलम् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्शेत्रं देवानां
देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र
क्वचन गcघ्च्हेत्तदेव मन्येतेति । इदं वै कुरुक्शेत्रं देवानां
देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः
प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे
येनासावमृतीभूत्वा मोक्शी भवति । तस्मादविमुक्तमेव निषेवेत ।
अविमुक्तं न विमुञ्चेत् । एवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥ १॥
अथ हैनं भारद्वाजः पप्रच्च्ह याज्ञवल्क्यं किं तारकम् ।
किं तारयतीति । स होवाच याज्ञवल्क्यः । ॐ नमो नारायणायेति
तारकं चिदात्मकमित्युपासितव्यम् । ओमित्येकाक्शरमात्मस्वरूपम् ।
नम इति द्व्यक्शरं प्रकृतिस्वरूपम् । नारायणायेति पञ्चाक्शरं
परंब्रह्मस्वरूपम् । इति य एवं वेद । सोऽमृतो भवति । ओमिति ब्रह्मा
भवति । नकारो विष्णुर्भवति । मकारो रुद्रो भवति । नकार ईश्वरो भवति ।
रकारोऽण्डं विराड् भवति । यकारः पुरुषो भवति । णकारो भगवान्भवति ।
यकारः परमात्मा भवति । एतद्वै नारायणस्याष्टाक्शरं वेद
परमपुरुषो भवति ।
अयमृग्वेदः प्रथमः पादः ॥ १॥
ॐइत्येतदक्शरं परं ब्रह्म । तदेवोपासितव्यम् । एतदेव
सूक्श्माष्टाक्शरं भवति । तदेतदष्टात्मकोऽष्टधा
भवति । अकारः प्रथमाक्शरो भवति । उकारो द्वितीयाक्शरो भवति ।
मकारस्तृतीयाक्शरो भवति । बिन्दुस्तुरीयाक्शरो भवति । नादः
पञ्चमाक्शरो भवति । कला षष्ठाक्शरो भवति । कलातीता
सप्तमाक्शरो भवति । तत्परश्चाष्टमाक्शरो भवति ।
तारकत्त्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि ।
तदेवोपासितव्यम् ॥ अत्रैते श्लोका भवन्ति ॥
अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः ।
उकाराक्शरसंभूत उपेन्द्रो हरिनायकः ॥ १॥
मकाराक्शरसंभूतः शिवस्तु हनुमान्स्मृतः ।
बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् ॥ २॥
नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः ।
कलायाः पुरुषः साक्शाल्लक्श्मणो धरणीधरः ॥ ३॥
कलातीता भगवती स्वयं सीतेति संज्ञिता ।
तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः ॥ ४॥
ओमित्येतदक्शरमिदं सर्वम् । तस्योपव्याख्यानं भूतं
भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताच्हन्दो
ऋक्कलाशक्तिसृष्ट्यात्मकमिति । य एवं वेद ।
यजुर्वेदो द्वितीयः पादः ॥ २॥
अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः
परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि
भगव इति । स होवाच याज्ञवल्क्यः ।
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो
जाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्य
उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ २॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यः
शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै नमोनमः ॥ ३॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः
शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो
भरतो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ५॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपो
लक्श्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता
भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ७॥
यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् ।
उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः
शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो
भरतः ५ कलास्वरूपो लक्श्मणः ६ कलातीता भगवती सीता
चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः
परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य
परमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि
भूर्भुवः सुवस्तस्मै नमोनमः ॥ ८॥
एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति । स वायुपूतो
भवति । स आदित्यपूतो भवति । स स्थाणुपूतो भवति । स सर्वैर्देवैर्ज्ञातो
भवति । तेनेतिहासपुराणानं रुद्राणां शतसहस्राणि जप्तानि फलानि
भवन्ति । श्रीमन्नारायणाष्टाक्शरानुस्मरणेन गायत्र्याः
शतसहस्रं जप्तं भवति । प्रणवानामयुतं जप्तं भवति ।
दशपूर्वान्दशोत्तरान्पुनाति । नारायणपदमवाप्नोति य एवं वेद ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्शुराततम् ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥
इत्युपनिषत् ॥
सामवेदस्तृतीयः पादः ॥ ३॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति तारसारोपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "तारसारोपनिषत्", revision 100770.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.