सुदर्शनोपनिषत्
उपनिषद् · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as सुदर्शनोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
यज्ञोपवीती धृतचक्रधारी यो ब्राह्मणो ब्रह्मविद्ब्रह्मविदां मनीषी हिरण्यमादाय सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्रीशूद्रैर्बाहुभ्यां धारयेत् । तस्माद्गर्भेण जायते । ब्राह्मणस्य शरीरं जायते । श्रीविष्णुं सर्वेश्वरं भजन्ति ।
नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं तु धारयेत् ।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।
भूमिधेनुर्धरणी लोकधारिणी ॥
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥
तस्माद्विरेखं भवति । तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा चक्रं पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत् । आत्मकृतमाचरेत् । आचार्यस्य संमुखं प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं सालोक्यसामीप्यसारूप्यसायुज्यं गच्छति । य एवं वेद । इत्युपनिषत्1 ।
यजुर्वेदे तृतीयकाण्डे तृतीयप्रश्ने--- "कक्षमुपौषेद्यदि दहति पुण्यसमं भवति यदि न दहति पापसममेतेन" । उष दाहे । उपकक्षं भुजः । "चरणं पवित्रं विततं पुराणम् । येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूताः । अतिपाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां दधातु" । " पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत । "
यो ह वै सुश्लोकमौले धर्माननुतिष्ठमानोऽग्निना चक्रं योऽग्निर्वै सहस्रारस्सहस्रारो नेमिर्नेमिना तप्ततनूस्सायुज्यं सलोकतामाप्नोतीति ।
चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममृतस्य विष्णोः ।
स एति नाकं दुरिता विधूय विशन्ति यद्यतयो वीतरागाः ॥
चमूषच्छ्येनश्शकुनो बिभृत्वा गोविन्दद्रप्स आयुधानि बिभ्रत्[?]।
अपामूर्मिं सचमानस्समुद्रं तुरीयं धाम महिषो विवक्ति[?]॥
शङ्खचक्रोर्ध्वपुण्ड्रादिधारणं स्मरणं हरेः ।
तदीयाराधनं चैव भक्तिर्बहुविधा स्मृता ॥
पशुपुत्रादिकं सर्वं गृहोपकरणानि च ।
अङ्कयेच्छङ्खचक्राभ्यां नाम कुर्याच्च वैष्णवम् ॥
पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः ।
तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।
सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु ॥
ये कण्ठलग्नतुलसीनलिनाक्षमाला
ये बाहुमूलपरिचिह्नितशङ्खचक्राः ।
ये बा ललाटफलके लसदूर्ध्वपुण्ड्राः
श्रीवैष्णवा भुवनमाशु पवित्रयन्ति ॥
पञ्चार्द्रतत्त्वविदुषां पञ्चसंस्कारसंस्कृतम् ।
पञ्चावस्थास्वरूपं ते विज्ञेयं सततं विभो ॥
पञ्चसंस्कारयुक्तानां वैष्णवानां विशेषतः ।
गृहार्चनविधाने न शङ्खं घण्टारवं त्यजेत् ॥ इति ॥
एतदथर्वशिरो योऽधीते य ऊर्ध्वपुण्ड्रं विधिवद्विदित्वा धारयति स वैदिको भवति । स कर्मार्हो भवति । अनेन तेजस्वी यशस्वी ब्रह्मवर्चस्वी भवति । अनेन कायिकवाचिकमानसपातकेभ्यः पूतो भवति । श्रीविष्णुसायुज्यमवाप्नोति । श्रीविष्णुसायुज्यमवाप्नोति । य एवं वेद । इत्युपनिषत् ॥
इति सुदर्शनोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.