सिद्धान्तशिखोपनिषत्
उपनिषद् · Sanskrit · ⏱ 4 min
अन्य नाम · Also known as सिद्धान्तशिखोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
ॐ अथ भारद्वाजः कुमारं पप्रच्छ । कोऽयं भवादृशानां परमशिवभक्तानां सिद्धान्तः । कुतः सर्वे न विदन्तीति । तद्गुह्यमुवाच स्कन्दः । भारद्वाज शृणु नाम क्वचिद्वदन्ति साम्बं सर्वदेवप्रकृष्टं शिवं वरेण्यं पक्वचित्ता: शिवस्य प्रसादतो ज्ञानमात्राद्विदन्ति ।
विश्वाधिकं शङ्करं ये प्रमूढा हीनं विष्णोर्ब्रह्मणो वा वदन्ति ।
न संसारात् प्रमुच्यन्ते कदाचिच्छतैः कल्पैः कोटिभिर्वाऽथ दोषैः ॥
यथा राज्ञे कुर्वन्नमात्यबुद्धिं
देही विन्देद्बाधमस्माद्विनष्टम् ।
सत्यादिरूपं शिवमेवं विदानो
विष्ण्वादिबुद्ध्या हीयतेऽज्ञानसङ्गात् ॥
महानग्निः काष्ठमार्द्रं च शुष्कं कृत्वा दहेदीश्वरोत्कृष्टबुद्धिः ।
दहेत् पापान्याशु विज्ञानदात्री न संसारे मज्जते वा कदाचित् ॥
महादेवे त्रिपुण्ड्रस्य धारणे भस्मकुण्ठने ।
पुण्यलेशविहीनस्य श्रद्धा नैव प्रजायते ॥
पापपूर्णस्य मर्त्यस्य त्रिपुण्ड्रोद्भूलने शिवे ।
रुद्राक्षधारणे द्वेषः स्वत एव प्रजायते ॥
जन्मान्यनन्तानि विस्तीर्य भूयः शिवप्रसादाद्धृतपुण्यलेश: ।
शिवे भक्तिं प्राप्य तद्भक्तसङ्गान्न संसृतौ घोरदुःखात् प्रमज्जेत् ॥
योऽज्ञानाद्वा शिवशब्दं गृणानः पापैर्घोरैर्मुच्यते वा कदाचित् ।
को वा वेत्ता महिमानं शिवस्य परात् परस्य ज्ञानगुह्यस्य गुह्यम् ॥
सद्योजाताद्ब्राह्मणाः संबभूवुर्वामदेवात् क्षत्रिया वै विशश्च ।
अघोराच्छूद्रास्तत्पुरुषाच्छिवस्य पञ्चात्मकस्य गणा ईशतोऽस्य ॥
आत्माश्रमित्वाद्गुणवंशजाता लिङ्गाङ्गसङ्गस्तत्र जन्मान्तदीक्षा ।
यथा गङ्गा शिवसङ्गात्तथैव न सूतकं वा नाप्यशुचित्वमेषाम् ॥
गच्छंस्तिष्ठन्निमिषन्नुन्मिषन् वा स्वपञ्चाग्राल्लिङ्गधारी शुचिः स्यात् ।
भुञ्जन् मूत्राद्युत्सृजन् वा कदाचिन्न तत्रोच्छिष्टं भजते शुद्धदेही ॥
शीर्षे कण्ठे वक्षसि कक्षदेशे नाभौ हस्ते सर्वदा प्राणलिङ्गम् ।
धार्यं यथासम्प्रदायं पुरस्ताद्गुरोर्विदित्वा हृदये मुख्यमुक्तम् ॥
स्नानं कृत्वा शिवतीर्थे च देहं सर्वं भस्मोद्धूलनात् पावयित्वा ।
त्रिपुण्ड्रं धार्यं भर्त्सनात् पातकौघगिरेर्भस्म प्राहुरत्यर्थमेतत् ॥
स्नानं त्रिपुण्ड्रस्य शिरोललाटवक्षःस्कन्धमणिबन्धेषु कूrpe ।
नाभिप्रदेशे पार्श्वयोर्गण्डदेशे गुदप्रदेशे गुल्फयोश्च क्रमात् स्यात् ॥
वह्नित्रयं तच्च जगत्त्रयं यद्गुणत्रयं तच्च शक्तित्रयं स्यात् ।
धृतं त्रिपुण्ड्रं यदि कोपि दैवात् तद्दृष्ट्वान्यः पातकौघाद्विमुक्तः ॥
निमीलिताक्षस्य पुरत्रयाणि
दग्धाः शंभोर्नयनेभ्योऽथ ये तु ।
जाता रुद्राक्षा जलबिन्दवोऽस्य
सद्योजातादीन् पञ्च वक्त्राणि विन्द्यात् ॥
द्वात्रिंशद्रुद्राक्षाः कण्ठमालाप्रयुक्ताः
शिखायामेको द्विचत्वारिंशदुक्ताः ।
शिरोधार्याः कर्णयोर्द्वादशाऽथ
शतत्रयं तूपवीतं च बाह्वोः ॥
द्वात्रिंशदुक्ता मणिबन्धयोश्च चतुर्विंशाः शतमष्टौ जपार्थम् । पुरा लीना: सृष्टिकालाच्छिवस्य पञ्चाक्षरे मन्त्रवर्ये समस्ताः । भूतानि पञ्च वेदा आगमाश्च शिवाल्लब्धोऽभून्मन्त्रवर्यो विधात्रा ॥
देहिनो देहमायान्ति न यावन्मन्त्रनायकः ।
तावत्पापानि गर्जन्ति सत्यं सत्यं पुनः पुनः ॥
योऽयं नकारः सोऽयमकारः स सद्योजातो भूrऋग्वेद: संपुटमुच्यते । योऽयं मकारः सोऽयमुकारः स वामदेव आपो यजुर्वेदो वक्त्रमुच्यते । योऽयं शिकारः सोऽयं मकारः स घोरः स वायुः सामवेदो गुण उच्यते । योऽयं वकारः सोऽयं नादः स तत्पुरुषः स तेजोऽथर्ववेदाऽघोरमुच्यते । योऽयं यकारः तदिदं समस्तमोमिति निर्विशेषप्रणवः स सर्वोत्तम ईशान आकाश आगमो लिङ्गमुच्यते । इत्येतत्तत्त्वं यो विजानाति स नित्यं शुद्धबुद्धपरमानन्दपरमशिवस्वरूपः ।
पुरा देवा: पशुपाशाद्विमुक्ताः शिवं पूज्यैव हरिपद्मादयोऽपि ।
ऐन्द्रनीलं पूजितं विष्णुनासील्लिङ्गं वैडूर्यं विधिना पद्मरागम् ॥
शक्रेण हैमं यक्षराजेन विश्वेदेवै रौप्यं वसुभिः कांस्यकं च ।
यद्दारुकूटं वायुना पार्थिवं तदश्विभ्यामासीत् स्फाटिकं पाशिनाथ ॥
आदित्यैस्ताम्रं मौक्तिकं देवतैस्तैरनन्ताद्यैः फणिभिश्च प्रवालम् ।
दैत्यैर्जालं राक्षसैश्च त्रिलोहं गणैः शैलं सैकतं मातृकाभिः ॥
दारूद्भवं निर्ऋतिना यमेन सुपूज्यमासीन्मारकतं च रुद्रैः ।
सुभस्मरूपं सूक्ष्मरूपं च लक्ष्म्या शैलान्येव मुनयो भेजिरेऽथ ॥
सरस्वती रत्नरूपं च दुर्गा हैमं लिङ्गं पूजयामास भक्त्या ।
जलैरुष्णै: शीतलैर्वा कदाचिदज्ञानाद्वा पतितैः पत्रपुष्पैः ।
तुष्टो यच्छेद्वाञ्छितार्थं महेशः किं दुर्लभं शिवभक्तस्य लोके ॥
अत्यल्पमपि नैवेद्यं फलं वा जलमेव वा ।
तदेव प्राशयित्वाथ ब्रह्मभूयाय कल्पते ॥
किमन्यैर्धार्यैर्भस्मनि शुद्धपुण्ड्रे स्थिते किमन्यैर्मन्त्रवर्येऽथ मन्त्रैः ।
शिवे स्थिते सर्वदेवाधिराजे भारद्वाज निर्जरैः किं तथाऽन्यैः ॥
सिद्धान्तोऽयं निश्चितोऽस्माभिरेष भारद्वाज गुह्यमेतन्न वाच्यम् ।
सदा प्रशान्ताय न नास्तिकाय परीक्ष्याथ ब्रूहि सर्वार्थवेत्रे ॥
इत्याह भगवान् स्कन्दः । तामेनां सिद्धान्तशिखां प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानोऽह्निकृतं पापं नाशयति । सार्वकालं प्रयुञ्जानः पापैरपापो भवतीति विज्ञायते । इति वेदवचनं भवति । इति वेदवचनं भवति । ॐ सत्यमित्युपनिषत् ॥
इति सिद्धान्तशिखोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.