सिद्धान्तसारोपनिषत्
उपनिषद् · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as सिद्धान्तसारोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
भद्रं कर्णेभिः - इति शान्तिः
प्रथमावरणम्
अथ भारद्वाजः कुमारं पप्रच्छ । भगवन् मे ब्रूहि परमतत्त्वकैलासरहस्यम् । तद्गुह्यमुवाच स्कन्दः । साधु पृष्टं सर्वं निवेदयामि यथाज्ञातंमया । हे भारद्वाज शृणु वाक्यमेतत् । परमकैवल्यः स एव कैलासः । ईश्वरकृपया परमपरिपक्वचित्ता जानन्ति । नान्ये जानन्ति गुह्यमिदमनिर्वाच्यममितबोधसागरममितानन्दसमुद्रमखण्डानन्दरूपन्निरवयवं निराधारं निर्विकारं निरञ्जनमनन्तं ब्रह्मानन्दसमष्टिकन्दं तैरानन्दपुरुषैश्चिद्रूपैरधिष्ठितं ब्रह्मानन्दमयानन्तनिरतिशयानन्दसागराकारमात्मसमानानन्दविभूतिपुरुषानन्तानन्दमण्डितं नित्यमङ्गलमनन्तविभवम् । ब्रह्मानन्दमयानन्तप्राकारप्रासादतोरणविमानोपवनावलीभिर्ज्वलच्छिखरैरुपलक्षितो निरुपमनित्यनिरवद्यनिरतिशयनिरवधिकब्रह्मानन्दाचलो विराजते । तदुपरि ज्वलति निरतिशयानन्ददिव्यतेजोराशिः । तदभ्यन्तरसंस्थाने शुद्धबोधानन्दलक्षणं विभाति । तदन्तराले चिन्मयवेदिकाऽऽनन्दवेदिकाऽऽनन्दवनविभूषिता । तत्र वेदकल्पतरुवनं यज्ञकल्पतरुवनं योगकल्पतरुवनम् । तदभ्यन्तre अमिततेजोराशिस्वात्मज्योतिर्ज्वलति । तत्र परममङ्गलासनं विराजते । तस्योपरि समासीनानन्तपरिपालकनन्द्यादिगणपाः सन्ति । अनन्तोत्कटजलदमण्डलं निरतिशयदिव्यतेजोमण्डलवृन्दाकारपरमानन्दशुद्धबोधस्वरूपमनन्तानन्दसौदामिनीपरमविलासं निरतिशयानन्तपरमानन्दपारावारजालम् ॥
इति प्रथमावरणम्
द्वितीयावरणम्
तन्मध्ये कल्याणाचलो विभाति । अनन्तानन्दपर्वतशिखरैरभिव्याप्तमनन्तबोधानन्दव्यूहैरभितस्ततं ब्रह्मविद्याप्रवाहैरानन्दरसनिर्भरैः क्रीडानन्दपर्वतैरनन्तैरभिव्याप्तं ब्रह्मविद्यामयैरनन्तप्राकारैरानन्दामृतमयैर्दिव्यगन्धैः स्व-भावचिन्मयैरनन्तब्रह्मवनैरतिशोभितमपरब्रह्मविद्यासाम्राज्याधिदैवतमनन्तमोक्षसाम्राज्याद्वितीयमेकं परमकल्याणमनन्तविभवममितबोधानन्दाचलोपरिस्थितं शुद्धबोधमयानन्तप्रासादैः संवृतमानन्दमयानन्तविमानावलीभिर्विराजितमत्याश्चर्यानन्तविभूतिसममनन्तशुद्धानन्दपरिघैः समावृतमनन्तदिव्यतेजाज्वालाजालैरभितोऽनिशं प्रज्वलन्तमत्याश्चर्यानन्तविभूतिसमष्ट्याकारमानन्दरसप्रवाहैरलङ्कृतममितविज्ञानतरङ्गिण्याः प्रवाहैरतिमङ्गलं ब्रह्मतेजोविशेषाकारैरनन्तब्रह्मवनैरभितस्ततं ब्रह्मविद्याकल्पतरुवनैः सुशोभितं बोधकल्पतरुवनैः परिवेष्टितमनन्तनित्यमुक्तैरभिव्याप्तं तदभ्यन्तरेऽनन्तदिव्यमङ्गलामनं विराजते । तदुपरि नित्यज्ञानानन्दरूपा अद्वैतशिवपूजकास्तिष्ठन्ति ॥
इति द्वितीयावरणम्
तृतीयावरणम्
तन्मध्ये चिदानन्दाचलो विभाति । तदुपरि ब्रह्मतेजोमयानन्तशिखराः सन्ति । तत्र ब्रह्मविद्यामयानन्तपरिघाः सन्ति । वाचामगोचरानन्तचिन्मयानन्दवनैः परिवेष्टितं ब्रह्मकल्पतरुवनैः समावृतं अमृतकल्पतरुवनैरुपशोभितं ब्रह्मतेजोमयानन्दरसप्रवाहैरतिशोभितं ब्रह्मविद्यातरङ्गिण्याः प्रवाहैः सुमङ्गलं निरतिशयानन्तदिव्यानन्दतेजोज्वालाराशिमण्डलं ज्वलति । परमानन्दमयानन्तविमानावलिभिः संकुलमनन्तचिन्मयप्रासादजालसंकुलमनन्तब्रह्मानन्दानुभवपताकाध्वजतोरणैरलङ्कृतमनन्तनित्यमुक्तैरभिव्याप्तं तदभ्यन्तरसंस्थानेऽनन्तचिन्मयासनं विराजते । तस्योपरि नित्यशुद्धबुद्धमुक्तशिवैक्यभक्तास्तिष्ठन्ति ॥
इति तृतीयावरणम्
शैव-उपनिषदः
चतुर्थावरणम्
तन्मध्येऽमितबोधानन्दाचलो विभाति । तदुपरि परमकैवल्यानन्दरूपानन्तशिखराः सन्ति । तत्र परमानन्दामृतमयैर्दिव्यानन्तप्राकारो ज्वलति । दिव्यगन्धैः स्वभावचिन्मयैरनन्तब्रह्मवनैरतिशोभितमानन्दकल्पतरुवनैरावतं मुक्तिकल्पतरुवनैः सुशोभितं पारावारानन्दरसनिर्भरैरतिशोभितं स्वात्मानन्दानुभवतरङ्गिण्याः प्रवाहैरतिमङ्गलं परमकल्याणमनन्तविभवममिततेजोराश्याकारमनन्तब्रह्मतेजोराशिसमष्ट्याकारमनन्तदिव्यतेजोज्वालाजालैरभितोऽनिशं प्रज्वलितमनन्तदिव्यापारब्रह्मविद्यासाम्राज्याधिदैवतममोघनिजमन्दकटाक्षचिदानन्दमयानेकप्रासादविशेषैः परिवेष्टितं ब्रह्मविद्यामयैरनन्तप्रकारानन्दामृतदिव्यमङ्गलविमानैः सुशोभितं चिद्रूपविलासनिभचिन्मयासनं विराजते । अधितिष्ठन्ति तेजोराशिं तदन्तर्गतदिव्यतेजोविशेषमखिलपवित्राणां परमं पवित्रं चिद्रूपपरानन्तनित्यमुक्तैरभिव्याप्तं सच्चिदानन्दरूपा: शिवात्मैक्योपासकाः ॥
इति चतुर्थावरणम्
पञ्चमावरणम्
अनन्तानन्दपर्वतैः परमकौतुकमाभाति । तदुपरि ज्वलति निरतिशयानन्ददिव्यतेजोराशिमण्डलम् । चिदानन्दमयानन्तप्राकारविशेषैः परिवेष्टितम् । तच्च परमकल्याणविलासविशेषम् । तदखण्डदिव्यतेजोमण्डलाकारं परमानन्दसौदामिनीचयोज्ज्वलम् । तच्चामितपरमतेजःपरमविहारसंस्थानविशेषं परमतेजोमण्डलविशेषं परमानन्दामृतब्रह्मविद्यामयानन्तसमुद्रं चिदानन्दतरङ्गा-कारम् । तन्मध्ये अनन्तदिव्यतेजःपर्वतसमष्ट्याकारमपरिच्छिन्नानन्तशुद्धबोधानन्दमण्डलं वाचामगोचरानन्दब्रह्मतेजोराश्याकारमनन्तशिखरोज्ज्वलमग्वण्डतेजोमण्डलविशेषं नित्यानन्दमूर्तिमद्भिः परममङ्गलैः परिधीकृतमपरिछिन्नानन्दसागराकारं ब्रह्मानन्दरसक्रीडावनैः सुशोभितमनन्तसहस्रानन्द्रप्राकारैः समुज्ज्वलितं मुक्तिकल्पतरुवनैः परिवेष्टितं विभूतिकल्पतरुवनैरभितस्ततमनन्तानन्दविमानजालसंकुलमनन्तबोधसौधविशेषैरभितोऽनिशं प्रज्वलितं क्रीडानन्तमण्डपविशेषैर्विशेषितं बोधानन्दमयानन्तपरमछत्रध्वजचामरवितानतोरणैरलङ्कृतं शुद्धानन्दविशेषसमष्टिमण्डलविशेषानन्तप्रासादोन्नतोज्ज्वलमखण्डचिद्धनानन्दविशेषं परमानन्दव्यूहैर्नित्यमुक्तैरभितस्ततमनन्तदिव्यतेजःपर्वतसमष्ट्याकारमपरिच्छिन्नानन्तशुद्धबोधानन्दमण्डलं परमानन्दलहरीवनशोभितमसङ्ख्याकानन्दसमुद्रमनन्तज्वालाजालैरलङ्कृतं चिदानन्दतरङ्गिण्याः प्रवाहैरतिमङ्गलं स्वात्मानन्दानुभवामृतकल्लोलरसप्रवाहैरलङ्कृतं स्वप्रकाशानन्तानन्दतेजोज्वालाजालैरावृतम् । तदभ्यन्तरे चिन्मयानन्दासनमुज्ज्वलम् । तदुपरि विभात्यखण्डानन्दतेजोमण्डलम् । तदभ्यन्तरसमासीनाः आनन्दसागरनित्यतृप्ताः शिवाद्वैतोपासकाः स्वात्मलिङ्गार्चका स्तिष्ठन्ति । निरतिशयदिव्यतेजोमण्डलाकारा आनन्दघनसागराः परमकैवल्यस्वरूपानन्तगणाः परिसेवन्ते ॥
इति पञ्चमावरणम्
षष्ठावरणम्
परमचिद्विलाससमष्ट्याकारं निर्मलं निरवद्यं निराश्रयमतिनिर्मलानन्तकोटिरविप्रकाशैकोज्ज्वलमनन्तोपनिषदर्थस्वरूपमखिलप्रमाणातीतं मनो-वाचामगोचरं नित्यमुक्तस्वरूपं कैवल्यानन्दरूपं परमानन्दलक्षणापरिच्छिन्नानन्तज्योतिः शाश्वतं शश्वद्विभाति । तदभ्यन्तरसंस्थानेऽमितानन्दचिद्रूपाचलमखण्डपरमानन्दविशेषं बोधानन्दमहोज्ज्वलमनन्तचित्सागरकल्लोलजालशिखराकारं नित्यमङ्गलमन्दिरमनन्तानन्दबोधसौधविशेषैरभितोऽनिशं प्रज्वलितं चिदानन्दानन्तचित्सागरैः परिधीकृतं ब्रह्मसाक्षात्कारानुभवविशेषबोधसारतरानन्तप्राकारैः समुज्ज्वलितमनन्तसहस्रकैवल्यानन्दवनोपवनैः सुशोभितमनन्तानन्दविभूतिदिव्यतेजःपर्वतसमष्ट्याकारं स्वात्मानन्दानुभवविज्ञानघनरुद्राक्षकल्पतरुवनैरतिमङ्गलमनन्तानन्दचित्सागरमथनोद्भूतरसप्रवाहैरलङ्कृतमद्वितीयं स्वयंप्रकाशमनिशं ब्रह्मानन्दामृतरसाम्भोनिधितरङ्गिण्याः प्रवाहैरतिमङ्गलं निरुपमनिरवद्यनित्यशुद्धबुद्धनिरतिशयतेजोराशिविशेषानन्तानन्दविमानजालावलिभिः समाकुलं क्रीडानन्तमण्टपविशेषैर्विशेषितं बोधानन्दमयानन्तदिव्यतेजोराशिविशेषचैतन्यप्रासादैः परिवेष्टितमनन्तपरमानन्दामृतरसाब्धिकल्लोलतरङ्गावलिभिर्दिव्यतेजोमयछत्रचामरध्वजपताकावितानतोरणादिभिरलङ्कृतं परमानन्दव्यूहैर्नित्यमुक्तैरभितस्ततं तच्चानन्तब्रह्मतेजोमयबिल्वकल्पतरुवनैराकुलं वेदान्तसारभूतसिद्धान्तानन्तस्कन्धैर्विराजितं महावाक्यार्थस्वरूपानन्तशाखासमन्वितं सच्चिदानन्दस्वरूपानन्तानन्दपत्रैस्सुमङ्गलमद्वितीयात्मचैतन्यवृन्तैः सुसंलग्नं विज्ञानघनमानन्दामृतकल्लोलानन्तपुष्पैरलङ्कृतमखण्डानन्दाह्लादानन्तप्रवाहदिव्यसुगन्धैः समाकुलं निरतिशयानन्दामृतसारसागरानन्तमकरन्दाकारं निश्शङ्कानन्दमोक्षसाम्राज्यचिन्तामणिफलानन्तैर्विराजितं वाचामगोचरमनोन्मनानन्दाम्बुधिदिव्यतेजोमयज्वालाजालदीपितात्यन्तोन्नतानन्तशिखराकारं शिवालयं शिवानन्दमयदिव्यनानालीलाविग्रहविलासविलसितानन्दाविर्भावचरित्रचित्रीकृतचित्रैरलङ्कृतं मूर्तिमद्भिः शिवधर्मानन्तोन्नतगोपुरद्वाराकारैरसंख्यैरावृतं शिवधर्मानन्दमूर्तिवृषभावलिभिःसुमङ्गलं शिवविज्ञानानन्दसागरतीर्थाकारं पुरतःस्थितानन्तदिव्यतीर्थानां निजमन्दिरं विज्ञानानन्दघनस्वरूपानन्तसोपानमण्डलमालयमध्यगतं स्वात्मज्योतिर्मयचिद्रूपवेदिकास्थानविशेषं तदुपरि चैतन्यशक्त्यालङ्कृतस्वात्मचैतन्यकैलासेश्वरलिङ्गाकारं सुपूजितं तत्सन्निधौ शिवविज्ञानानन्दघनशैवधर्ममूर्तिमासाद्य वृषभाकृतिविराजितं शिवानन्दनन्दिमेनवाणरावणाद्यनन्तनानामयानन्तानन्दमूर्तिमासाद्य गणेशकुमारनन्दिभृङ्गिचण्डिरिटिकीर्तिमुखवीरभद्रभैरवमहाकालशोभनन्दिसुनन्दनन्दिसेनबाणरावणाद्यनन्तनानागणपरूपमासाद्यानन्तगणसेवितशिवालयस्य समन्तात् स्वस्वस्थाने सुशोभितं बोधानन्दमयैरनन्तनित्यमुक्तैः परिसेवितं शुद्धबोधपरमानन्दाकारवनं सन्ततामृतपुष्पवृष्टिभिः परिवेष्टितं परमानन्दप्रवाहैरभिव्याप्तं मूर्तिमद्भिः परममङ्गलैः परमकौतुकापरिच्छिन्नानन्दसागराकारं क्रीडानन्दपर्वतैरभिशोभितं वाचामगोचरानन्दब्रह्मतेजोराशिमण्डलमखण्डतेजोमण्डलविशेषं दिव्यनानामङ्गलवाद्यैरलङ्कृतं प्रणवात्मकध्वन्याकारं विज्ञानघनस्वरूपमनन्तचिदादित्यसमष्ट्याकारं शिवाद्वैतोपासका भजन्ते ॥
इति षष्ठावरणम्
इति सिद्धान्तसारोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.