🪷

षोढोपनिषत्

Shodhopanishat

उपनिषद् · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as षोढोपनिषत्

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

अक्षर का आकार

अथाह वै श्म शवः शानं शयनं शवानां शयनं श्मशानं तदधिष्ठानो महाकालस्तत्पर्यङ्कसमासीनां विश्वव्यापकरूपिणीं कालीं कालादिसंत्रासात् कालीं चतुर्युगाधिष्ठात्रीं स्वस्मिन् भाव्य षोढां न्यसेत् । स्थानशुद्धिन्यासं विधाय षोढां न्यसेत् । अथ षोढान्यासी षट्कालित्वं गच्छति । सेयं षट्कला परा परात्परा परात्परातीता चित्परा चित्परात्परा चित्परात्परातीता । षण्णां योगे षोढा भवेत् । वैष्णवकलायुक्तां मातृकायुक्तां वैष्णवीं न्यसेदिति प्रथमः । स परारूपो भवेत् । स भूमिं जयति । स शक्तिरूपो भवेत् । अथ वै कामकलापुटितां श्रीकलां श्रीकलापुटितां कामकलां लिपिस्थाने न्यसेत् । द्वितीयारूपो भवेत् । सोऽमृतत्वं गच्छति । स जलं तरतीति वै यज्ञे गीर्णं भवति । आदिकलापुटितां श्रीकलां श्रीकलापुटितामादिकलां मातृस्थाने न्यसेत् । स सिद्धीश्वरो भवेत् । स वह्निं जयति । दिवारात्रिव्यापी भवेत् । कूर्चं चन्द्रं कूर्चं चन्द्रमन्तर्दृष्टिमद्दीपनमन्त्रं राज्ञीपुटितमेतेन पुटितां राज्ञीं न्यसेत् । स खेचरो भवेत् । स वायुपुरगामी भवेत् । स कलावान् भवेत् । चतुर्थीरूपो भवेत् । अनुलोमविलोमेन मूलमन्त्रं केवलं न्यसेत् । विद्यान्यासरूपो भवेत् । सर्वं जयति । स पञ्चमीरूपो भवेत् । स चाकाशं जयति । अष्टोत्तरशतानुलोमविलोमाकृतिक्रमेण देवतां व्यापयेत् । स ध्वनिरूपो भवेत् । सर्वं जयति । सर्वं जरति । महापातकोपपातकानि तरति । वयःस्थैर्यकरो भवेत् । अष्टसिद्धिदाता भवेत् । तद्दर्शनेन देवत्वं भवेत् । षष्ठीकलावान् भवेत् । विश्वरूपो भवेत् । यं पश्यति तं शिवं कुरुते । नमस्कारान्मूर्तिस्फोटो भवेत् । स गारूपनाशको भवेत् । स महेन्द्रजालदर्शको भवेत् । तद्दर्शनात् सिद्धीश्वरो भवेत् । पुटितिछिन्नाकल्पामुग्रायामङ्गषोढां न्यसेत् । तत्स्पर्शादष्टलोहस्पर्शो भवेत् । शक्तिकुण्डे जिह्वां नाडीं वा न्यस्य यो जपेत् स कालीरूपो भवेत् । इति शिवम् ॥

इत्याथर्वणे सौभाग्यकाण्डे षोढोपनिषत् समाप्ता

स्रोत · Source

अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#anya-upanishadah

सम्बन्धित पाठ · Related reading

और उपनिषद्पुस्तकालय