शाट्यायनीयोपनिषत्
उपनिषद् · Sanskrit · ⏱ 6 min
अन्य नाम · Also known as शाट्यायनीयोपनिषत्
Sanskrit text from Sanskrit Wikisource.
शाट्यायनीब्रह्मविद्याखण्डाकारसुखाकृति ।
यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ १ ॥
समासक्तं सदा चित्तं जन्तोर्विषयगोचरे ।
यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ २ ॥
वित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।
यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ३ ॥
नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रैति धाम ।
विष्णुक्रान्तं वासुदेवं विजान-न्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥ ४ ॥
अथाह यत्परमं ब्रह्म सनातनं ये श्रोत्रिया अकामहता अधीयुः ।
शान्तो दान्त उपरतिस्तितिक्षुहु-र्योऽनूचानो ह्यभिजज्ञौ समानः ॥ ५ ॥
त्यक्तेषणो ह्यनृणस्तं विदित्वा मौनी वसेदाश्रमे यत्र कुत्र ।
अथाश्रमं चरमं संप्रविश्य यथोपपत्तिं पञ्चमात्रां दधानः ॥ ६ ॥
त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम् ।
शिक्यं पवित्रमित्येतद्विभृयाद्यावदायुषम् ॥ ७ ॥
पञ्चैतास्तु यतेर्मात्रास्ता मात्रा ब्रह्मणे श्रुताः ।
न त्यजेद्यावदुत्क्रान्तिरन्तेऽपि निखनेत्सह ॥ ८ ॥
विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च ।
तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥ ९ ॥
त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् ।
निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥ १० ॥
अथ खलु सौम्य कुटीचको बहूदको हंसः परमहंस
इत्येते परिव्राजकाश्चतुर्विधा भवन्ति ।
सर्व एते विष्णुलिङ्गिनः
शिखिनोपवीतिनः शुद्धचित्ता आत्मानमात्मना ब्रह्म
भावयन्तः शुद्धचिद्रूपोपासनरता जपयमवन्तो
नियमवन्तः सुशीलिनः पुण्यश्लोका भवन्ति ।
तदेतदृचाभ्युक्तम् ।
कुटीचको बहूदकश्चापि हंसः
परमहंस इव वृत्त्या च भिन्नाः ।
सर्व एते विष्णुलिङ्गं दधाना
वृत्त्या व्यक्तं बहिरन्तश्च नित्यम् ।
पञ्चयज्ञा वेदशिरःप्रविष्टाः
क्रियावन्तोऽमी सङ्गता ब्रह्मविद्याम् ।
त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः
संन्यस्तपुष्पा रसमेवाश्नुवानाः ।
विष्णुक्रीडा विष्णुरतयो विमुक्ता
विष्ण्वात्मका विष्णुमेवापियन्ति ॥ ११ ॥
त्रिसन्ध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा ।
उपस्थानं पञ्चयज्ञान्कुर्यादामरणान्तिकम् ॥ १२ ॥
दशभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा ।
गायत्रीजपयज्ञश्च त्रिसन्ध्यं शिरसा सह ॥ १३ ॥
योगयज्ञः सदैकाग्रभक्त्या सेवा हरेर्गुरोः ।
अहिंसा तु तपोयज्ञो वाङ्मनःकायकर्मभिः ॥ १४ ॥
नानोपनिषदभ्यासः स्वाध्यायो यज्ञ ईरितः ।
ॐइत्यात्मानमव्यग्रो ब्रह्मण्यग्ना जुहोति यत् ॥ १५ ॥
ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः ।
ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञोपवीतिनः ॥ १६ ॥
शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥ १७ ॥
अथ खलु सौम्येत परिव्राजका यथा प्रादुर्भवन्ति
तथा भवन्ति ।
कामक्रोधलोभमोहदम्भदर्पासूया-
ममत्वाहङ्कारादींस्तितीर्य मानावमानौ निन्दास्तुती
च वर्जयित्वा वृक्ष इव तिष्ठासेत् ।
छिद्यमानो न ब्रूयात् ।
तदैवं विद्वांस इहैवामृता भवन्ति ।
तदेतदृचाभ्युक्तम् ।
बन्धुपुत्रमनुमोदयित्वा-नवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः ।
प्राचीमुदीचिं वा निर्वर्तयंश्चरेत पात्री दण्डी युगमात्रावलोकी ।
शिखी मुण्डी चोपवीती कुटुम्बी यात्रामात्रं प्रतिगृह्णन्मनुष्यात् ॥ १८ ॥
अयाचितं याचितं वोत भैक्षं मृद्दार्वलाबूफलपर्णपात्रम् ।
क्षीणं क्षौमं तृणं कन्थाजिने च पर्ण-माच्छादनं स्यादहतं वा विमुक्तः ॥ १९ ॥
ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं नाधो नाक्षं जातु शिखां न वापयेत् ।
चतुरो मासान्ध्रुवशीलतः स्या-त्स यावत्सुप्तोऽन्तरात्मा पुरुषो विश्वरूपः ।
अन्यानथाष्टौ पुनरुत्थितेऽस्मि-न्स्वकर्मलिप्सुर्विहरेद्वा वसेद्वा ॥ २० ॥
देवाग्न्यगारे तरुमूले गुहायां वसेदसङ्गोऽलक्षितशीलवृत्तः ।
अनिन्धनो ज्योतिरिवोपशान्तो न चोद्विजेदुद्विजेद्यत्र कुत्र ॥ २१ ॥
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।
किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ २२ ॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ २३ ॥
बाल्येनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् ।
ब्रह्मविद्या च बाल्यं च निर्विद्य मुनिरात्मवान् ॥ २४ ॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ २५ ॥
अथ खलु सौम्येदं परिव्राज्यं नैष्ठिकमात्मधर्मं
यो विजहाति स वीरहा भवति ।
स ब्रह्महा भवति ।
स भ्रूणहा भवति ।
स महापातकी भवति ।
य इमां वैष्णवीं निष्ठां परित्यज्यति ।
स स्तेनो भवति ।
स गुरुतल्पगो भवति ।
स मित्रध्रुग्भवति ।
स कृतघ्नो भवति ।
स सर्वस्माल्लोकात्प्रच्युतो भवति ।
तदेतदृचाभ्युक्तम् ।
स्तेनः सुरापो गुरुतल्पगामी मित्रध्रुगेते निष्कृतेर्यान्ति शुद्धिम् ।
व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्गं त्यजन्न शुद्ध्येदखिलैरात्मभासा ॥ २६ ॥
त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा यः स्वाश्रमं सेवतेऽनाश्रमं वा ।
प्रत्यपत्तिं भजते वातिमूढो नैषां गतिः कल्पकोट्यापि दृष्टा ॥ २७ ॥
त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् ।
मोक्षाश्रमात्परिभ्रष्टो न गतिस्तस्य विद्यते ॥ २८ ॥
पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।
तमारूढच्युतं विद्यादिति वेदानुशासनम् ॥ २९ ॥
अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं
निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशी भवति ।
स पुण्यश्लोको भवति ।
स लोकज्ञो भवति ।
स वेदान्तज्ञो भवति ।
स ब्रह्मज्ञो भवति ।
स सर्वज्ञो भवति ।
स स्वराड् भवति ।
स परं ब्रह्म भगवन्तमाप्नोति ।
स पितॄन्सम्बन्धिनो बान्धवान्सुहृदो मित्राणि च भवादुत्तरयति ।
तदेतदृचाभ्युक्तम् ।
शतं कुलानां प्रथमं बभूव तथा पराणां त्रिशतं समग्रम् ।
एते भवन्ति सुकृतस्य लोके येषं कुले संन्यसतीह विद्वान् ॥ ३० ॥
त्रिंशत्परास्त्रिंशदपरांस्त्रिंशच्च परतः परान् ।
उत्तरयति धर्मिष्ठः परिव्राडिति वै श्रुतिः ॥ ३१ ॥
संयस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि ।
तारिताः पितरस्तेन इति वेदानुशासनम् ॥ ३२ ॥
अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं
निष्ठां नासमाप्य प्रब्रूयात् ।
नानूचानाय नानात्मविदे नावीतरागाय नाविशुद्धाय नानुपसन्नाय
नाप्रयतमानसायेति ह स्माहुः ।
तदेतदृचाभ्युक्तम् ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि ।
असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् ॥ ३३ ॥
यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् ।
अस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ ३४ ॥
अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा ।
यथैव तेन न गुरुर्भोजनीय-स्तथैव चानं न भुनक्ति श्रुतं तत् ॥ ३५ ॥
गुरुरेव परो धर्मो गुरुरेव परा गतिः ।
एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति ।
तस्य श्रुतं तथा ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ३६ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
स ब्रह्मवित्परं प्रेयादिति वेदानुशासनम् ॥ ३७ ॥
इत्युपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति शाट्यायनीयोपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "शाट्यायनीयोपनिषत्", revision 100778.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.