सौभाग्यलक्ष्म्युपनिषत्
उपनिषद् · Sanskrit · ⏱ 5 min
अन्य नाम · Also known as सौभाग्यलक्ष्म्युपनिषत्
Sanskrit text from Sanskrit Wikisource.
सौभाग्यलक्ष्मीकैवल्यविद्यावेद्यसुखाकृति ।
त्रिपान्नारायणानन्दरामचन्द्रपदं भजे ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि
प्रतिष्ठितमाविरावीर्म एधि ॥
वेदस्य म आणीस्थः श्रुतं मे मा
प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं
वदिष्यामि सत्यं वदिष्यामि ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥ अथ भगवन्तं देवा ऊचुर्हे
भगवन्नः कथय सौभाग्यलक्ष्मीविद्याम् ।
तथेत्यवोचद्भगवानादिनारायणः सर्वे देवा
यूयं सावधानमनसो भूत्वा शृणुत
तुरीयरूपां तुरीयातीतां सर्वोत्कटां
सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां
चतुर्भुजां श्रियं हिरण्यवर्णामिति
पञ्चदशर्ग्भिर्ध्यायेत् । अथ पञ्चदश
ऋगात्मकस्य श्रीसूक्तस्यानन्दकर्दमचिक्लीतेन्दिरासुता
ऋषयः । श्रीऋष्याद्या ऋचः
चतुर्दशानमृचामानन्दाद्यृषयः ।
हिरण्यवर्णाद्याद्यत्रयस्यानुष्टुप् च्हन्दः ।
कांसोस्मीत्यस्य बृहती च्हन्दः ।
तदन्ययोर्द्वयोस्त्रिष्टुप् । पुनरष्टकस्यानुष्टुप् ।
शेषस्य प्रस्तारपङ्क्तिः । श्र्यग्निर्देवता ।
हिरण्यवर्णामिति बीजम् । कांसोऽस्मीति शक्तिः ।
हिरण्मया चन्द्रा रजतस्रजा हिरण्या हिरण्यवर्णेति
प्रणवादिनमोन्तैश्चतुर्थ्यन्तैरङ्गन्यासः ।
अथ वक्त्रत्रयैरङ्गन्यासः । मस्तकलोचनश्रुतिघ्राण
वदनकण्ठबाहुद्वयहृदयनाभिगुह्यपायूरुजानुजङ्घेषु
श्रीसूक्तैरेव क्रमशो न्यसेत् । अरुणकमलसंस्था
तद्रजःपुञ्जवर्णा करकमलधृतेष्टाऽभीतियुग्माम्बुजा च ।
मणिकटकविचित्रालङ्कृताकल्पजालैः सकलभुवनमाता
सन्ततं श्रीः श्रियै नः ॥ १॥
तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् ।
वस्वादित्यकलापद्मेषु श्रीसूक्तगतार्धार्धर्चा
तद्बहिर्यः शुचिरिति मातृकया च श्रियं यन्त्राङ्गदशकं
च विलिख्य श्रियमावाहयेत् । अङ्गैः प्रथमा वृत्तिः ।
पद्मादिभिर्द्वितीया । सोकेशैस्तृतीया । तदायुधैस्तुरीया
वृत्तिर्भवति । श्रीसूक्तैरावाहनादि । षोडशसहस्रजपः ।
सौभाग्यरमैकाक्षर्या भृगुनिचृद्गायत्री । श्रिय ऋष्यादयः ।
शमिति बीजशक्तिः । श्रीमित्यादि षडङ्गम् । भूयाद्भूयो
द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्म
द्वयकरधृतकुम्भाद्भिरासिच्यमाना । रक्तौघाबद्धमौलि
र्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि
कृतवसतिः पद्मगा श्रीः श्रियै नः ॥ १॥
तत्पीठम् । अष्टपत्रं वृत्तत्रयं द्वादशराशिखण्डं
चतुरस्रं रमापीठं भवति । कर्णिकायां ससाध्यं श्रीबीजम् ।
विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिः सन्नतिर्व्युष्टिः
सत्कृष्टिरृद्धिरिति प्रणवादिनमो तैश्चतुर्थ्यन्तैर्नवशक्तिं
यजेत् । अङ्गे प्रथमा वृतिः ।
वासुदेवाभिर्द्वितीया । बालाक्यादिभिस्तृतीया ।
इन्द्रादिभिश्चतुर्थी भवति ।
द्वादशलक्षजपः । श्रीलक्ष्मीर्वरदा विष्णुपत्नी
वसुप्रदा हिरण्यरूपा
स्वर्णमालिनी रजतस्रजा स्वर्णप्रभा स्वर्णप्राकारा
पद्मवासिनी पद्महस्ता
पद्मप्रिया मुक्तालङ्कारा चन्द्रसूर्या बिल्वप्रिया ईश्वरी
भुक्तिर्मुक्तिर्विभूतिरृद्धिः समृद्धिः कृष्टिः
पुष्टिर्धनदा धनेश्वरी
श्रद्धा भोगिनी भोगदा सावित्री धात्री
विधात्रीत्यादिप्रणवादिनमोन्ताश्चतुर्थ्यन्ता
मन्त्राः । एकाक्षरवदङ्गादिपीठम् । लक्षजपः ।
दशांशं तर्पणम् ।
दशांशं हवनम् । द्विजतृप्तिः । निष्कामानामेव
श्रीविद्यासिद्धिः ।
न कदापि सकामानामिति ॥ १॥
अथ हैनं देवा ऊचुस्तुरीयया मायया निर्दिष्टं
तत्त्वं ब्रूहीति । तथेति स होवाच ।
योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते ।
योऽप्रमत्तस्तु योगेन स योगी रमते चिरम् ॥ १॥
समापय्य निद्रां सिजीर्णेऽल्पभोजी
श्रमत्याज्यबाधे विविक्ते प्रदेशे ।
सदा शीतनिस्तृष्ण एष प्रयत्नोऽथ
वा प्राणरोधो निजाभ्यासमार्गात् ॥ २॥
वक्त्रेणापूर्य वायुं हुतवलनिलयेऽपानमाकृष्य धृत्वा
स्वाङ्गुष्ठाद्यङ्गुलीभिर्वरकरतलयोः षड्भिरेवं निरुध्य ।
श्रोत्रे नेत्रे च नासापुटयुगलमतोऽनेन मार्गेण सम्यक्
पश्यन्ति प्रत्ययाशं प्रणवबहुविधध्यानसंलीनचित्ताः ॥ ३॥
श्रवणमुखनयननासानिरोधनेनैव कर्तव्यम् ।
शुद्धसुषुम्नासरणौ स्फुटममलं श्रूयते नादः ॥ ४॥
विचित्रघोषसंयुक्तानाहते श्रूयते ध्वनिः ।
दिव्यदेहश्च तेजस्वी दिव्यगन्धोऽप्यरोगवान् ॥ ५॥
संपूर्णहृदयः शून्ये त्वारम्भे योगवान्भवेत् ।
द्वितीया विघटीकृत्य वायुर्भवति मध्यगः ॥ ६॥
दृढासनो भवेद्योगी पद्माद्यासनसंस्थितः ।
विष्णुग्रन्थेस्ततो भेदात्परमानन्दसम्भवः ॥ ७॥
अतिशून्यो विमर्दश्च भेरीशब्दस्ततो भवेत् ।
तृतीयां यत्नतो भित्त्वा निनादो मर्दलध्वनिः ॥ ८॥
महाशून्यं ततो याति सर्वसिद्धिसमाश्रयम् ।
चित्तानन्दं ततो भित्त्वा सर्वपीठगतानिलः ॥ ९॥
निष्पत्तौ वैष्णवः शब्दः क्वणतीति क्वणो भवेत् ।
एकीभूतं तदा चित्तं सनकादिमुनीडितम् ॥ १०॥
अन्तेऽनन्तं समारोप्य खण्डेऽखण्डं समर्पयन् ।
भूमानं प्रकृतिं ध्यात्वा कृतकृत्योऽमृतो भवेत् ॥ ११॥
योगेन योगं संरोध्य भावं भावेन चाञ्जसा ।
निर्विकल्पं परं तत्त्वं सदा भूत्वा परं भवेत् ॥ १२॥
अहंभावं परित्यज्य जगद्भावमनीदृशम् ।
निर्विकल्पे स्थितो विद्वान्भूयो नाप्यनुशोचति ॥ १३॥
सलिले सैन्धावं यद्वत्साम्यं भवति योगतः ।
तथात्ममनसौरेक्यं समाधिरभिधीयते ॥ १४॥
यदा संक्षीयते प्राणो मानसं च प्रलीयते ।
तदा समरसत्वं यत्समाधिरभिधीयते ॥ १५॥
यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः ।
समस्तनष्टसङ्कल्पः समाधिरभिधीयते ॥ १६॥
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ।
सर्वशून्यं निराभासं समाधिरभिधीयते ॥ १७॥
स्वयमुच्चलिते देहे देही नित्यसमाधिना ।
निश्चलं तं विजानीयात्समाधिरभिधीयते ॥ १८॥
यत्रयत्र मनो याति तत्रतत्र परं पदम् ।
तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ १९॥ इति॥ ॥ २॥
अथ हैनं देवा ऊचुर्नवचक्रविवेकमनुब्रूहीति ।
तथेति स होवाच आधारे ब्रह्मचक्रं त्रिरावृत्तं
भगमण्डलाकारम् । तत्र मूलकन्दे शक्तिः पावकाकारं
ध्यायेत् । तत्रैव कामरूपपीठं सर्वकामप्रदं भवति ।
इत्याधारचक्रम् । द्वितीयं स्वाधिष्ठानचक्रं
षड्दलम् । तन्मध्ये पश्चिमाभिमुखं लिङ्गं
प्रवालाङ्कुरसदृशं ध्यायेत् । तत्रैवोड्याणपीठं
जगदाकर्षणसिद्धिदं भवति । तृतीयं
नाभिचक्रं पञ्चावर्तं सर्पकुटिलाकारम् ।
तन्मध्ये कुण्डलिनीं बालार्ककोटिप्रभां
तनुमध्यां ध्यायेत् । सामर्थ्यशक्तिः सर्वसिद्धिप्रदा
भवति । मणिपूरचक्रं हृदयचक्रम् ।
अष्टदलमधोमुखम् । तन्मध्ये ज्योतिर्मयलिङ्गाकारं
ध्यायेत् । सैव हंसकला सर्वप्रिया सर्वलोकवश्यकरी
भवति । कण्ठचक्रं चतुरङ्गुलम् । तत्र वामे इडा
चन्द्रनाडी दक्षिणे पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्नां
श्वेतवर्णां ध्यायेत् । य एवं वेदानाहता सिद्धिदा भवति ।
तालुचक्रम् । तत्रामृतधाराप्रवाहः ।
घण्टिकालिङ्गमूलचक्ररन्ध्रे राजदन्तावलम्बिनीविवरं
दशद्वादशारम् । तत्र शून्यं ध्यायेत् । चित्तलयो भवति ।
सप्तमं भूचक्रमङ्गुष्ठमात्रम् । तत्र ज्ञाननेत्रं
दीपशिखाकारं ध्यायेत् । तदेव कपालकन्दवाक्सिद्धिदं
भवति । आज्ञाचक्रमष्टमम् । ब्रह्मरन्ध्रं निर्वाणचक्रम् ।
तत्र सूचिकागृहेतरं धूम्रशिखाकारं ध्यायेत् । तत्र
जालन्धरपीठं मोक्षप्रदं भवतीति परब्रह्मचक्रम् ।
नवममाकाशचक्रम् । तत्र षोडशदलपद्ममूर्ध्वमुखं
तन्मध्यकर्णिकात्रिकूटाकारम् । तन्मध्ये ऊर्ध्वशक्तिः ।
तां पश्यन्ध्यायेत् । तत्रैव पूर्णगिरिपीठं
सर्वेच्च्हासिद्धिसाधनं भवति । सौभाग्यलक्ष्म्युपनिषदं
नित्यमधीते योऽग्निपूतो भवति । स वायुपूतो भवति । स
सकलधनधान्यसत्पुत्रकलत्रहयभूगजपशुमहिषीदासीदास
योगज्ञानवान्भवति । न स पुनरावर्तते न स पुनरावर्तत
इत्युपनिषत् ।
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम्
आविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा
प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि
सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
वक्तारमवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति श्रीसौभाग्यलक्ष्म्युपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "सौभाग्यलक्ष्म्युपनिषत्", revision 362783.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.