सङ्कर्षणोपनिषत्
उपनिषद् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as सङ्कर्षणोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
अथ तद्विष्णोः इति शान्तिः । अथ सङ्कर्षणोपनिषदुच्यते । शेषो ह वै वासुदेवात्सङ्कर्षणो नाम जात आसीत् । सोऽकामयत प्रजाः सृजेयेति । ततः प्रद्युम्न्नसंज्ञं मन आसीत् । तस्मादहंकारनामाऽनिरुद्धः । ततो हिरण्यगर्भोऽजायत । तस्माद्दश प्रजापतयो मरीच्यादय: स्थाणुदक्षकर्दमप्रियव्रतोतानपादादयोऽप्यजायत । तेभ्यः सर्वाणि भूतानि च । तस्माच्छेषादेव सर्वाणि समुत्पद्यन्ते । तस्मिन्नेव प्रलीयन्ते । स एव बहुधा जायमानः सर्वान् परिपाति । स एव काद्रवेयो व्याकरणज्यौतिषादिशास्त्राणि निर्मिमाणो बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन् शीर्ष्णि सिद्धार्थवद्धारयमाणस्सर्वैर्मुनिभिः संप्रार्थ्यमानः सहस्रशिखरमेरोश्शिरोभिर्वारयमाणो महावायोरहंकारं निराचकार । स भगवान् युगसन्धिकाले स्वेन रूपेण युगे युगे तेनैव जायमानः स्वयमेव सौमित्रिरैक्ष्वाके[वंशे जा]यमा[नो] रक्षांसि सर्वाणि विनिघ्नन् चातुर्वर्ण्यधर्मान् प्रवर्त[यति । ] स एव भगवान् युगसन्धिकाले[शरदभ्रसं]निकाशो रौहिणेयो वासुदेवः सर्वाणिग[दा]द्यायुधशास्त्राजन्यमण्डलान्निराचिकीर्ष[ति । ] भूभारमखिलं निचखान । स एव भगवान् [शेषः] युगे तुरीयेऽपि ब्राह्मण्यां जायमा[नो] रामानुजो भूत्वा सर्वा उपनिषद उद्दिधीर्ष[ति ।] सर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः सर्वानपि वैष्णवान् धर्मान् विजृंभयन् सर्वानपि पाषण्डान्निचखान । स एष जग[दाविर्भावतिरोभावहेतुः । स एष सर्वात्मकः । स एष मुमुक्षुभिर्ध्येयः । स एष मोक्षप्रदः एतत्स्मृ[त्या] सर्वेभ्यः पाप्मे
[प्म]भ्यो मुच्यते । तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्छति । तदेतद्दिवाऽघीयानो रात्रिकृतं पापं नाशयति । नक्तमधीयानो दिवसकृतं पापं नाशयति । तदेतद्वेदानां रहस्यम् । तदेतदुपनिषदां रहस्यम् । एतदधीयानः सर्वऋतुफलं लभते । शान्तिमेति । मनश्शुद्धिमेति । सर्वतीर्थफलं लभते । य एवं वेद । देहबन्धाद्विमुच्यते । देहबन्धाद्विमुच्यते । इत्येवोपनिषत् ॥
इति सङ्कर्षणोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.