संन्यासोपनिषत्
उपनिषद् · Sanskrit · ⏱ 12 min
अन्य नाम · Also known as संन्यासोपनिषत्
Sanskrit text from Sanskrit Wikisource.
संन्यासोपनिषद्वेद्यं संन्यासिपटलाश्रयम् ।
सत्तासामान्यविभवं स्वमात्रमिति भावये ॥
ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ अथातः संन्यासोपनिषदं व्याख्यास्यामो
योऽनुक्रमेण संन्यस्यति स संन्यस्तो भवति । कोऽयं संन्यास
उच्यते कथं संन्यस्तो भवति । य आत्मानं क्रियाभिर्गुप्तं करोति
मातरं पितरं भार्यां पुत्रान्बन्धूननुमोदयित्वा ये
चास्यर्त्विजस्तान्सर्वांश्च पूर्ववत्प्राणित्वा वैश्वानरेष्टिं
निर्वपेत्सर्वस्वं दद्याद्यजमानस्य गा ऋत्विजः सर्वैः पात्रैः
समारोप्य यदाहवनीये गार्हपत्ये वान्वहार्यपचने
सभ्यावसथ्योश्च प्राणापानव्यानोदानसमानान्सर्वान्सर्वेषु
समारोपयेत् । सशिखान्केशान्विसृज्य यज्ञोपवीतं च्हित्त्वा पुत्रं
दृष्ट्वा त्वं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् ।
यद्यपुत्रो भवत्यात्मानमेवेमं ध्यात्वाऽनवेक्षमाणः
प्राचीमुदीचिं वा दिशं प्रव्रजेच्च । त्रिषु वर्णेषु
भिक्षाचर्यं चरेत् । पाणिपात्रेणानाशनं कुर्यात् ।
औषधवदहनमाचरेत् । औषधवदशनं प्राश्नीयात् ।
यथालाभमश्नीयात्प्राणसन्धारणार्थं यथा मेदोवृद्धिर्न
जायते । कृशो भूत्वा ग्राम एकरात्रं नगरे पञ्चरात्रं
चतुरोमासान्वार्षिकान्ग्रामे वा नगरे वापि वसेत् ।
विशीर्णवस्त्रं वल्कलं वा प्रतिगृह्णीयानान्यत्प्रतिगृह्णीयाद्यद्यशक्तो
भवति क्लेशतस्तप्यते तप इति । यो वा एवं क्रमेण संन्यस्यति यो वा
एवं पश्यति किमस्य यज्ञोपवीतं कास्य शिखा कथं वास्योपस्पर्शनमिति ।
तं होवाचेदमेवास्य तद्यज्ञोपवीतं यदात्मध्यानं विद्या शिखा
नीरैः सर्वत्रावस्थितैः कार्यं निर्वर्तयन्नुदरपात्रेण जलतीरे निकेतनम् ।
ब्रह्मवादिनो वदन्त्यस्तमित आदित्ये कथं वास्योपस्पर्शनमिति ।
तान्होवाच यथाहनि तथा रात्रौ नास्य नक्तं न दिवा तदप्येतदृषिणोक्तम् ।
संकृद्दिवा हैवास्मै भवति य एवंविद्वानेतेनात्मानं संधत्ते ॥
इति प्रथमोऽध्यायः ॥ १॥
ॐ चत्वारिंषत्संस्कारसंपन्नः सर्वतो
विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहंकारं
दग्ध्वा साधनचतुष्टयसंपन्न एव संन्यस्तुमर्हति ।
संन्यासं निश्चयं कृत्वा पुनर्न च करोति यः ।
स कुर्यात्कृच्च्ह्रमात्रं तु पुनः संन्यस्तुमर्हति ॥ १॥
संन्यासं पातयेद्यस्तु पतितं न्यासयेत्तु यः ।
संन्यासविघ्नकर्ता च त्रीनेतान्पतितान्विदुः ॥ २॥ इति॥
अथ षण्डः पतितोऽङ्गविकलः स्त्रैणो बधिरोऽर्भको मूकः
पाषण्डश्चक्री लिङ्गी कुष्ठी वैखानसहरद्विजौ
भृतकाध्यापकः शिपिविष्टोऽनग्निको नास्तिको वैराग्यवन्तोऽप्येते
न संन्यासार्हाः । संन्यस्ता यद्यपि महावाक्योपदेशे नाधिकारिणः ॥
आरूढपतितापत्यं कुनखी श्यावदन्तकः ।
क्षीबस्तथाङ्गविकलो नैव संन्यस्तुमर्हति ॥ ३॥
संप्रत्यवसितानां च महापातकिनां तथा ।
व्रात्यानामभिशस्तानां संन्यासं न कारयेत् ॥ ४॥
व्रतयज्ञतपोदानहोमस्वाध्यायवर्जितम् ।
सत्यशौचपरिभ्रष्टं संन्यासं न कारयेत् ॥ ५॥
एते नार्हन्ति संन्यासमातुरेण विना क्रमम् ।
ॐ भूः स्वाहेति शिखामुत्पाट्य यज्ञोपवीतं
बहिर्न निवसेत् । यशो बलं ज्ञानं वैराग्यं
मेधां प्रयच्च्हेति यज्ञोपवीतं च्हित्त्वा ॐ भूः
स्वाहेत्यप्सु वस्त्रं कटिसूयं च विसृज्य संन्यस्तं
मयेति त्रिवारमभिमन्त्रयेत् ।
संन्यासिनं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः ।
एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्च्हति ॥ ६॥
षष्टिं कुलान्यतीतानि षष्टिमागामिकानि च ।
कुलान्युद्धरते प्राज्ञः संन्यस्तमिति यो वदेत् ॥ ७॥
ये च सन्तानजा दोषा ये दोषा देहसंभवाः ।
प्रैषाग्निर्निर्दहेत्सर्वांस्तुषारिन्निव काञ्चनम् ॥ ८॥
सखा मा गोपायेति दण्डं परिग्रहेत् ।
दण्डं तु वाणवं सौम्यं सत्वचं समपर्वकम् ।
पुण्यस्थलसमुत्पन्नं नानाकल्मषशोधितम् ॥ ९॥
अदग्धमहतं कीटैः पर्वग्रन्थिविराजितम् ।
नासादघ्नं शिरस्तुल्यं भ्रुवोर्वा बिभृयाद्यतिः ॥ १०॥
दण्डात्मनोस्तु संयोगः सर्वथा तु विधीयते ।
न दण्डेन विना गच्च्हेदिषुक्षेपत्रयं बुधः ॥ ११॥
जगज्जीवनं जीवनाधारभूतं माते मामन्त्रयस्व सर्वसौम्येति
कमण्डलुं परिगृह्य योगपट्टाभिषिक्तो भूत्वा यथासुखं विहरेत् ॥
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥ १२॥
वैराग्यसंन्यासी ज्ञानसंन्यासी ज्ञानवैराग्यसंन्यासी
कर्मसंन्यासीति चातुर्विध्यमुपागतः । तद्यथेति दृष्टानुश्रविक
विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मविशेषात्संन्यस्तः
स वैराग्यसंन्यासी । शास्त्रज्ञानात्पापपुण्यलोकानुभवश्रवणा
त्प्रपञ्चोपरतो देहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा
वमनान्नमिव प्रवृत्तिं सर्वं हेयं मत्वा साधनचतुष्टयसंपन्नो
यः संन्यस्यति स एव ज्ञानसंन्यासी । क्रमेण सर्वमभ्यस्य सर्वमनुभूय
ज्ञानवैराग्याभ्यां स्वरूपानुसन्धानेन देहमात्रावशिष्टः संन्यस्य
जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी । ब्रह्मचर्यं समाप्य
गृही भूत्वा वानप्रस्थाश्रममेत्य वैराग्याभावेऽप्याश्रमक्रमानुसारेण
यः संन्यस्यति स कर्मसंन्यासी । स संन्यासः षड्विधो भवति
कुटीचकबहूदकहंसपरमहंसतुरीयातीतावधूताश्चेति । कुटीचकः
शिखायज्ञोपवीति दण्डकमण्डलुधरः कौपीनशाटीकन्थाधरः
पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमात्रसाधनपर
एकत्रान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः । बहूदकः शिखादिकन्थाधर
स्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो मधुकरवृत्त्याष्टकवलाशी ।
हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी असंक्लृप्तमाधूकरान्नाशी
कौपीनखण्डतुण्डधारी । परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेषु
करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा
भस्मोद्धृलनपरः सर्वत्यागी तुरीयातीतो गोमुखवृत्त्या फलाहारी अन्नाहारी
चेद्गृहत्रये देहमात्रावशिष्टो दिगंबरः कुणपवच्च्हरीन्वृत्तिकः ।
अवधूतस्त्वनियमः पतिताभिशस्तवर्जनपूर्वकं सर्ववर्णेष्वजगरवृत्त्याहारपरः स्वरूपानुसन्धानपरः ।
जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् । यद्बाह्यं
जडमत्यन्तं तत्स्यां कथमहं विभुः ॥ १३॥
कालेनाल्पेन विलयी देहो नाहमचेतनः ।
जडया कर्णशष्कुल्या कल्पमानक्षणस्थया ॥ १४॥
शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः ।
त्वचा क्षणविनाशिन्या प्राप्योऽप्राप्योऽयमन्यथा ॥ १५॥
चित्प्रसादोपलब्धात्मा स्पर्शो नाहमचेतनः ।
लब्धात्मा जिह्वया तुच्च्हो लोलया लोलसत्तया ॥ १६॥
स्वल्पस्यन्दो द्रव्यनिष्ठो रसो नाहमचेतनः ।
दृश्यदर्शनयोर्लीनं क्षयिक्षणविनाशिनोः ॥ १७॥
केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम् ।
नासया गन्धजडया क्षयिण्या परिकल्पितः ॥ १८॥
पेलवो नियताकारो गन्धो नाहमचेतनः ।
निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः ॥ १९॥
शुद्धचेतन एवाहं कलाकलनवर्जितः ।
चैत्यवर्जितचिन्मात्रमहमेषोऽवभासकः ॥ २०॥
सबाह्याभ्यन्तरव्यापी निष्कलोऽहं निरञ्जनः ।
निर्विकल्पचिदाभास एक आत्मास्मि सर्वगः ॥ २१॥
मयैव चेतनेनेमे सर्वे घटपटादयः ।
सूर्यान्ता अवभास्यन्ते दीपेनेवात्मतेजसा ॥ २२॥
मयैवैताः स्फुरन्तीह विचित्रेन्द्रियवृत्तयः ।
तेजसान्तःप्रकाशेन यथाग्निकणपङ्क्तयः ॥ २३॥
अनन्तानन्दसंभोगा परोपशमशालिनी ।
शुद्धेयं चिन्मयी दृष्टिर्जयत्यखिलदृष्टिषु ॥ २४॥
सर्वभावान्तरस्थाय चैत्यमुक्तचिदात्मने ।
प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः ॥ २५॥
विचित्राः शक्तयः स्वच्च्हाः समा या निर्विकारया ।
चिता क्रियन्ते समया कलाकलनमुक्तया ॥ २६॥
कालत्रयमुपेक्षित्र्या हीनायाश्चैत्यबन्धनैः ।
चितश्चैत्यमुपेक्षित्र्याः समतैवावशिष्यते ॥ २७॥
सा हि वाचामगम्यत्वादसत्तामिव शाश्वतीम् ।
नैरात्मसिद्धात्मदशामुपयातैव शिष्यते ॥ २८॥
ईहानीहामयैरन्तर्या चिदावलिता मलैः ।
सा चिन्नोत्पादितुं शक्ता पाशबद्धेव पक्षिणी ॥ २९॥
इच्च्हाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः ।
धराविवरमग्नानां कीटानां समतां गताः ॥ ३०॥
आत्मनेऽस्तु नमो मह्यमविच्च्हिन्नचिदात्मने ।
परामृष्टोऽस्मि लब्धोऽस्मि प्रोदितोऽस्म्यचिरादहम् ।
उद्धृतोऽस्मि विकल्पेभ्यो योऽस्मि सोऽस्मि नमोऽस्तु ते ॥ ३१॥
तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने ।
नमस्तुभ्यं परेशाय नमो मह्यं शिवाय च ॥ ३२॥
तिष्ठन्नपि हि नासीनो गच्च्हन्नपि न गच्च्हति ।
शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते ॥ ३३॥
सुलभश्चायमत्यन्तं सुज्ञेयश्चाप्तबन्धुवत् ।
शरीरपद्मकुहरे सर्वेषामेव षट्पदः ॥ ३४॥
न मे भोगस्थितौ वाञ्च्हा न मे भोगविसर्जने ।
यदायाति तदायातु यत्प्रयाति प्रयातु तत् ॥ ३५॥
मनसा मनसि च्च्हिन्ने निरहंकारं गते ।
भावेन गलिते भावे स्वस्थस्तिष्ठामि केवलः ॥ ३६॥
निर्भावं निरहंकारं निर्मनस्कमनीहितम् ।
केवलास्पन्दशुद्धात्मन्येव तिष्ठति मे रिपुः ॥ ३७॥
तृष्णारज्जुगणं च्हित्वा मच्च्हरीरकपञ्जरात् ।
न जाने क्व गतोड्डीय निरहंकारपक्षिणी ॥ ३८॥
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
यः समः सर्वभूतेषु जीवितं तस्य शोभते ॥ ३९॥
योऽन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया ।
साक्षिवत्पश्यतीदं हि जीवितं तस्य शोभते ॥ ४०॥
येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता ।
चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते ॥ ४१॥
ग्राह्यग्राहकसंबन्धे क्षीणे शान्तिरुदेत्यलम् ।
स्थितिमभ्यागता शान्तिर्मोक्षनामाभिधीयते ॥ ४२॥
भ्रष्टबीजोपमा भूयो जन्माङ्कुअरविवर्जिता ।
हृदि जीवद्विमुक्तानां शुद्धा भवति वासना ॥ ४३॥
पावनी परमोदारा शुद्धसत्त्वानुपातिनी ।
आत्मध्यानमयी नित्या सुषुप्तिस्थेव तिष्ठति ॥ ४४॥
चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते ।
निर्मनस्कस्वभावत्वान्न तत्र कलनामलम् ॥ ४५॥
सा सत्यता सा शिवता सावस्था पारमात्मिकी ।
सर्वज्ञता सा संतृप्तिर्नतु यत्र मनः क्षतम् ॥ ४६॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
निरस्तमननानन्दः संविन्मात्रपरोऽस्म्यहम् ॥ ४७॥
मलं संवेद्यमुत्सृज्य मनो निर्मूलयन्परम् ।
आशापाशानलं च्हित्त्वा संविन्मात्रपरोऽस्म्यहम् ॥ ४८॥
अशुभाशुभसंकल्पः संशान्तोऽस्मि निरामयः ।
नष्टेष्टानिष्टकलनः संमात्रपरोस्म्यहम् ॥ ४९॥
आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ ।
वज्रस्तंभवदात्मानमवलंब्य स्थिरोऽस्म्यहम् ॥ ५०॥
निर्मलायां निराशायां स्वसंवित्तौ स्थितोऽस्म्यहम् ।
ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः ॥ ५१॥
कदान्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः ।
कदोपशान्तमननो धरणीधरकन्दरे ॥ ५२॥
समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना ।
निरंशध्यानविश्रान्तिमूकस्य मम मस्तके ॥ ५३॥
कदा तार्णं करिष्यन्ति कुलायं वनपुत्रिकाः ।
संकल्पपादपं तृष्णालतं च्हित्त्वा मनोवनम् ॥ ५४॥
विततां भुवमासाद्य विहराभि यथासुखम् ।
पदं तदनु यातोऽस्मि केवलोऽस्मि जयाम्यहम् ॥ ५५॥
निर्वाणोऽस्मि निरीहोऽस्मि निरंशोऽस्मि निरीप्सितः ।
स्वच्च्हतोर्जितता सत्ता हृद्यता सत्यता ज्ञता ॥ ५६॥
आनन्दितोपशमता सदा प्रमुदितोदिता ।
पूर्णतोदारता सत्या कान्तिसत्ता सदैकता ॥ ५७॥
इत्येवं चिन्तयन्भिक्षुः स्वरूपस्थितिमञ्जसा ।
निर्विकल्पस्वरूपज्ञो निर्विकल्पो बभूव ह ॥ ५८॥
आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः ।
न शूद्रस्त्रीपतितोदक्या संभाषणम् ।
न यतेर्देवपूजनोत्सवदर्शनम् ।
तस्मान्न संन्यासिन एष लोकः ।
आतुरकुटीचकयोर्भूलोकभुवर्लोकौ ।
बहूदकस्य स्वर्गलोकः ।
हंसस्य तपोलोकः । परमहंसस्य सत्यलोकः ।
तुरीयातीतावधूतयोः स्वात्मन्येव कैवल्यं
स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् ।
स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्राभ्यास
उष्ट्रकुंकुमभारवद्व्यर्थः । न योगशास्त्रप्रवृत्तिः ।
न सांख्यशास्त्राभ्यासः । न मन्त्रतन्त्रव्यापारः ।
नेतरशास्त्रप्रवृत्तिर्यतेरस्ति । अस्ति चेच्च्हवालंकारव
त्कर्माचर विद्यादूरः ।
न परिव्राण्नामसंकीर्तनपरो यद्यत्कर्म करोति तत्तत्फलमनुभवति ।
एरण्डतैलफेनवत्सर्वं परित्यजेत् । न देवताप्रसादग्रहणम् ।
न बाह्यदेवाभ्यर्चनं कुर्यात् । स्वव्यतिरिक्तं सर्वं त्यक्त्वा
मधुकरवृत्त्याहारमाहरन्कृशीभूत्वा मेदोवृद्धिमकुर्वन्विहरेत् ।
माधूकरेण करपात्रेणास्यपात्रेण वा कालं नयेत् ।
आत्मसंमितमाहारमाहरेदात्मवान्यतिः ।
आहारस्य च भागौ द्वौ तृतीयमुदकस्य च ।
वायोः संचरणार्थाय चतुर्थमवशेषयेत् ॥५९॥
भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् ।
निरीक्षन्ते त्वनुद्विग्नास्तद्गृहं यत्नतो व्रजेत् ॥ ६०॥
पञ्चसप्तगृहाणां तु भिक्षामिच्च्हेत्क्रियावताम् ।
गोदोहमात्रमाकाङ्क्षेन्निष्क्रान्तो न पुनर्व्रजेत् ॥ ६१॥
नक्ताद्वरश्चोपवास उपवासादयाचितः ।
अयाचिताद्वरं भैक्ष्यं तस्मात्भैक्षेण वर्धयेत् ॥ ६२॥
नैव सव्यापसव्येन भिक्षाकाले विशेद्गृहान् ।
नातिक्रामेद्गृहं मोहाद्यत्र दोषो न विद्यते ॥ ६३॥
श्रोत्रियान्नं न भिक्षेत श्रद्धाभक्तिबहिष्कृतम् ।
व्रात्यस्यापि गृहे भिक्षेच्च्ह्रद्धाभक्तिपुरस्कृते ॥ ६४॥
माधूकरमसंक्लृप्तं प्राक्प्रणीतमयाचितम् ।
तात्कालिकं चोपपन्नं भैक्षं पञ्चविधं स्मृतम् ॥ ६५॥
मनःसंकल्परहितांस्त्रीन्गृहान्पञ्च सप्त वा ।
मधुमक्षिकवत्कृत्वा माधूकरमिति स्मृतम् ॥ ६६॥
प्रातःकाले च पूर्वेद्युर्यद्भक्तैः प्राथितं मुहुः ।
तद्भैक्षं प्राक्प्रणीतं स्यात्स्थितिं कुर्यात्तथापि वा ॥ ६७॥
भिक्षाटनसमुद्योगाद्येन केन निमन्त्रितम् ।
अयाचितं तु तद्भैक्षं भोक्तव्यं च मुमुक्षुभिः ॥ ६८॥
उपस्थानेन यत्प्रोक्तं भिक्षार्थं ब्राह्मणेन तत् ।
तात्कालिकमिति ख्यातं भोक्तव्यं यतिभिस्तदा ॥ ६९॥
सिद्धमन्नं यदानीतं ब्राह्मणेन मठं प्रति ।
उपपन्नमिति प्राहुर्मुनयो मोक्षकाङ्क्षिणः ॥ ७०॥
चरेन्माधूकरं भैक्षं यतिर्म्लेच्च्हकुलादपि ।
एकान्नं नतु भुञ्जीत बृहस्पतिसमादपि ।
याचितायाचिताभ्यां च भिक्षाभ्यां कल्पयेत्स्थितम् ॥ ७१॥
न वायुः स्पर्शदोषेण नाग्निर्दहनकर्मणा ।
नापो मूत्रपुरीषाभ्यां नान्नदोषेण मस्करी ॥ ७२॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
कालेऽपराह्णे भूयिष्ठे भिक्षाचरणमाचरेत् ॥ ७३॥
अभिशतं च पतितं पापण्डं देवपूजकम् ।
वर्जयित्वा चरेद्भैक्षं सर्ववर्णेषु चापदि ॥ ७४॥
घृतं स्वमूत्रसदृशं मधु स्यात्सुरया समम् ।
तैलं सूकरमूत्रं स्यात्सूपं लशुनसंमितम् ॥ ७५॥
माषापूषादि गोमांसं क्षीरं मूत्रसमं भवेत् ।
तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यतिः ।
घृतसूपादिसंयुक्तमन्नं नाद्यात्कदाचन ॥ ७६॥
पात्रमस्य भवेत्पाणिस्तेन नित्यं स्थितिं नयेत् ।
पाणिपात्रश्चरन्योगी नासकृद्भैक्षमाचरेत् ॥ ७७॥
आस्येन तु यदाहारं गोवन्मृगयते मुनिः ।
तदा समः स्यात्सर्वेषु सोऽमृतत्वाय कल्पते ॥ ७८॥
आज्यं रुधिरमिव त्यजेदेकत्रान्नं पललमिव
गन्धलेपनमशुद्धलेपनमिव क्षारमन्त्यजमिव
वस्त्रमुच्च्हिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव
मित्राह्लादकं मूत्रमिव स्पृहां गोमांसमिव
ज्ञातचरदेशं चण्डालवाटिकादिव स्त्रियमहिमिव
सुवर्णं कालकूटमिव सभास्थलं श्मशानस्थलमिव
राजधानीं कुंभीपाकमिव शवपिण्डवदेकत्रान्नं न
देवतार्चनम् । प्रपञ्चवृत्तिं परित्यय जीवन्मुक्तो भवेत् ॥
आसनं पात्रलोपश्च संचयः शिष्यसंचयः ।
दिवास्वापो वृथालापो यतेर्बन्धकराणि षट् ॥ ७९॥
वर्षाभ्योऽन्यत्र यत्स्थानमासनं तदुदाहृतम् ।
उत्कालाब्वादिपात्राणामेकस्यापीह संग्रहः ॥ ८०॥
यतेः संव्यवहराय पात्रलोपः स उच्यते ।
गृहीतस्य तु दण्डादेर्द्वितीयस्य परिग्रहः ॥ ८१॥
कालान्तरोपभोगार्थं संचयः परिकीर्तितः ।
शुश्रूषालाभपूजार्थं यशोर्थं वा परिग्रहः ॥ ८२॥
शिष्याणां नतु कारुण्याच्च्हिष्यसंग्रह ईरितः ।
विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते ॥ ८३॥
विद्याभ्यासे प्रमादो यः स दिवास्वाप उच्यते ।
आध्यात्मिकीं कथां मुक्त्वा भिक्षावार्तां विना तथा ॥ ८४॥
अनुग्रहं परिप्रश्नं वृथाजल्पोऽन्य उच्यते ।
एकान्नं मदमात्सर्यं गन्धपुष्पविभूषणम् ॥ ८५॥
ताम्बूलाभ्यञ्जने क्रीडा भोगाकाङ्क्षा रसायनम् ।
कत्थनं कुत्सनं स्वस्ति ज्योतिश्च क्रयविक्रयम् ॥ ८६॥
क्रियाकर्मविवादश्च गुरुवाक्यविलङ्घनम् ।
संधिश्च विग्रहो यानं मञ्चकं शुक्लवस्त्रकम् ॥ ८७॥
शुक्लोत्सर्गो दिवास्वापो भिक्षाधारस्तु तैजसम् ।
विषं चैवायुधं बीजं हिंसां तैक्ष्ण्यं च मैथुनम् ॥ ८८॥
त्यक्तं संन्यासयोगेन गृहधर्मादिकं व्रतम् ।
गोत्रादिचरणं सर्वं पितृमातृकुलं धनम् ।
प्रतिषिद्धानि चैतानि सेवमानो व्रजेदधः ॥ ८९॥
सुजीर्णोऽपि सुजीर्णासु विद्वांस्त्रीषु न विश्वसेत् ।
सुजीर्णास्वपि कन्थासु सज्जते जीर्णमम्बरम् ॥ ९०॥
स्थावरं जङ्गमं बीजं तैजसं विषमायुधम् ।
षडेतानि न गृह्णीयाद्यतिर्मूत्रपुरीषवत् ॥ ९१॥
नैवाददीत पाथेयं यतिः किंचिदनापदि ।
पक्वमापत्सु गृण्हीयाद्यावदन्नं न लभ्यते ॥ ९२॥
नीरुजश्च युवा चैव भिक्षुर्नावसथे वसेत् ।
परार्थं न प्रतिग्राह्यं न दद्याच्च कथंचन ॥ ९३॥
दैन्यभावात्तु भूतानां सौभगाय यतिश्चरेत् ।
पक्वं वा यदि वाऽपक्वं याचमानो व्रजेदधः ॥ ९४॥
अन्नपानपरो भिक्षुर्वस्त्रादीनां प्रतिग्रही ।
आविकं वानाविकं वा तथा पट्टपटानपि ॥ ९५॥
प्रतिगृह्य यतिश्चैतान्पतत्येव न संशयः ।
अद्वैतं नावमाश्रित्य जीवन्मुक्तत्वमाप्नुयात् ॥ ९६॥
वाग्दण्डे मौनमातिष्टेत्कायदण्डे त्वभोजनम् ।
मानसे तु कृते दण्डे प्राणायामो विधीयते ॥ ९७॥
कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ ९८॥
रथ्यायां बहुवस्त्राणि भिक्षा सर्वत्र लभ्यते ।
भूमिः शय्यास्ति विस्तीर्णा यतयः केन दुःखितः ॥ ९९॥
प्रपञ्चमखिलं यस्तु ज्ञानाग्नौ जुहुयाद्यतिः ।
आत्मन्यग्नीन्समारोप्य सोऽग्निहोत्री महायतिः ॥ १००॥
प्रवृत्तिर्द्विविधा प्रोक्ता मार्जारी चैव वानरी ।
ज्ञानाभ्यासवतामोतुर्वानरीभाक्त्वमेव च ॥ १०१॥
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्च्हतः ।
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् ॥ १०२॥
सर्वेषामेव पापानां सङ्घाते समुपस्थिते ।
तारं द्वादशसाहस्रमभ्यसेच्च्हेदनं हि तत् ॥ १०३॥
यस्तु द्वादशसाहस्रं प्रणवं जपतेऽन्वहम् ।
तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते॥ १०४॥
इत्युपनिषत् हरिः ॐ तत्सत् ॥ इति द्वितीयोऽध्यायः ॥ २॥
ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥
इति संन्यासोपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "संन्यासोपनिषत्", revision 403273.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.