🪷

सदानन्दोपनिषत्

Sadandopanishat

उपनिषद् · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as सदानन्दोपनिषत्

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

अक्षर का आकार

तच्छंयोरावृणीमहे — इति शान्तिः

अथैनं सदानन्दः संवर्तो जैगीषव्यश्च नीललोहितं रुद्रमुवाच । भगवन् किमपवर्गं साधयतीति । स एतेभ्यो भगवान् नीललोहितः प्रोवाच । अन्तर्बहिर्धारितं परंब्रह्माभिधेयं शाम्भवं लिङ्गम्,

आधारे दहरेऽव्यक्ते स्वर्णस्फाटिकवैद्रुमम् ।
निरन्तरानुसन्धानात् तदन्तर्धारणे विदुः ॥

चतुर्दलं द्वादशारं द्व्यश्रमव्यक्तकं शिवम् ।
दहरेऽङ्गुष्ठमात्रं तमुमाकान्तमहर्निशम् ।
अनिराकारमात्मानं धृत्वा यान्ति परं पदम् ॥

परात् परतरो ब्रह्मा तत्परात् परतो हरिः ।
तत्परात् परतोऽधीशस्तस्मात् स्यादुत्तरः शिवः ॥

जातवेदसमव्यक्तं व्यक्ताव्यक्तं परं सदा ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां शान्तिः शाश्वती नेतरेषाम् ॥

अन्तर्धारणशक्तेन ह्यशक्तेन द्विजोत्तमाः ।
संस्कृत्य गुरुणा दत्तं शैवं लिङ्गमुरःस्थले ।
धार्यं विप्रेण मुक्त्यर्थे शिवतत्त्वविदो विदुः ॥

येनाचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषमुपैति विद्वान् ।

अस्य मात्रा अकारो ब्रह्मरूप उकारो विष्णुरूपो मकारः कालकाल: अर्धमात्रा परमशिवः ओङ्कारो लिङ्गम् ।

योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज ईश्वरः ।
तस्मात्तद्धारणादेतल्लिङ्गदेहमलौकिकम् ।
मृतेऽपि तन्न दह्येत बिले चैतद्विनिक्षिपेत् ॥

न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः ॥

यो वा स्वहस्तार्चितलिङ्गमेकं परात्परं धारयते नरो वा ।
तस्यैव लभ्यः परमेश्वरोऽसौ निरञ्जनं साम्यमुपैति दिव्यम् ॥

शिवलिङ्गधरं विप्रं विपन्नं तु न दाहयेत् ।
यदि वा दाहयेत्तस्य ब्रह्महत्या तदा भवेत् ॥

यदिदं लिङ्गं सकळं सकळनिष्कळं निष्कलं च स्थूलं सूक्ष्मं च तत्परं स्थूले स्थूल सूक्ष्मे सूक्ष्मं कारणं तत्परं च ।

आत्मानभरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनादेव पाशं दहति मानवः ।
अन्तर्बहिश्च तल्लिङ्गं विधत्ते यस्तु शाश्वतम् ॥

अविद्याऽऽवरणं भित्त्वा ब्रह्मणः सायुज्यं सलोकतामाप्नोति । तदिदं लिङ्गं ब्रह्म । तदिदं ॐ सत्यम् । यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा सदानन्दोपनिषदं पठति सोऽग्निपूतो भवति । स सत्यपूतो भवति ।स्वर्णस्तेयात् पूतो भवति । ब्रह्महत्यायाः पूतो भवति । स सकलभोगभुक् देहं त्यक्त्वा शिवसायुज्यमेति । इत्युपनिषत् ॥

इति सदानन्दोपनिषत् समाप्ता

स्रोत · Source

अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#anya-upanishadah

सम्बन्धित पाठ · Related reading

और उपनिषद्पुस्तकालय