राधोपनिषत्
उपनिषद् · Sanskrit · ⏱ 6 min
अन्य नाम · Also known as राधोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
प्रथमः प्रपाठकः
ॐ अथ सुषुप्तौ रामः स्वबोधमाधायेव किं मे देवः क्वासौ कृष्णो योऽयं मम भ्रातेति तस्य का निष्ठा ब्रूहीति । सा वै ह्युवाच । राम शृणु भूर्भुवस्स्वर्महर्जनस्तपस्सत्यं तलं वितलं सुतलं रसातलं तलातलं महातलं पातालं एवं पञ्चाशत्कोटियोजनं बहुलं स्वर्णाण्डं ब्रह्माण्डमिति अनन्तकोटिब्रह्माण्डानामुपरि कारणजलोपरि महाविष्णोर्नित्यं स्थानं वैकुण्ठः । स ह पृच्छति । कथं शून्यमण्डले निरालम्बने वैकुण्ठ इति सानुयुक्ता । पद्मासनासीनः कृष्णध्यानपरायणः शेषदेवोऽस्ति । तस्यानन्तरोमकूपेष्वनन्तकोटिब्रह्माण्डानि अनन्तकोटिकारणजलानि तस्य सप्तकोटिपरिसहस्रपरिमिताः फणाः तदुपरि वैकुण्ठो विष्णुलोक इति । रुद्रलोकः शिववैकुण्ठ इति । दशकोटियोजनविस्तीर्णो रुद्रलोकः । तदुपरि विष्णुलोकः । सप्तकोटियोजनविस्तीर्णो विष्णुलोकः । तदुपरि सुदर्शनचक्रं त्रिकोटियोजनविस्तीर्णम् । तदुपरि कृष्णस्य स्थानं गोकुलाढ्यं माथुरमण्डलं महत्पदं सुधामयसमुद्रेणावेष्टितमिति । तत्राष्टदलकेसरमध्ये मणिपीठे सप्तावरणकमिति । स पृच्छति । किं रूपं किंस्थानं किं पद्मं किमन्तःकेसर: किमावरणम् । इत्युक्ते सानुयुक्ता । गोकुलाढ्ये माथुरमण्डले वृन्दावनमध्ये सहस्रदळपद्मे षोडशदलमध्ये अष्टदलकेसरे गोविन्दोऽपि श्यामपीताम्बरो द्विभुजो मयूरपिञ्छशिराः वेणुवेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो निरीह : स चेष्टते विराजत इति । पार्श्वे राधिका चेति । तस्या अंशो लक्ष्मीदुर्गाविजयादिशक्तिरिति । पश्चिमे सम्मुखे ललिता । वायव्ये श्यामला । उत्तरस्मिन् श्रीमती । ऐशान्यां हरिप्रिया । पूर्वस्मिन् विशाला । अग्नेय्यांश्रद्धा । याम्यां पद्मा । नैर्ऋत्यां भद्रा । षोडशदले अग्रे चन्द्रावती । तद्वामे चित्ररेखा । तत्पार्श्वे चित्रकरा । तत्पार्श्वे मदनसुन्दरी । तत्पार्श्वे श्रीमदा । तत्पार्श्वे शशिरेखा । तत्पार्श्वे कृष्णप्रिया । तत्पार्श्वे बृन्दा । तत्पार्श्वे मनोहरा । तत्पार्श्वे योगनन्दा । तत्पार्श्वे परानन्दा । तत्पार्श्वे प्रेमानन्दा । तत्पार्श्वे सत्यानन्दा । तत्पार्श्वे चन्द्रा । तत्पार्श्वे किशोरीवल्लभा । तत्पार्श्वे करुणाकुशला इति । एवं विविधा गोप्यः कृष्णसेवां कुर्वन्तीति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति । मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति ॥
इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां प्रथमः प्रपाठकः
द्वितीयः प्रपाठकः
ॐ साऽनुयुक्ता । तस्य बाह्येषु शतदलपद्मपत्रेषु योगपीठेपु रासक्रीडानुरक्ता गोप्यस्तिष्ठन्ति । एतच्चतुर्द्वारं लक्षसूर्यसमुज्ज्वलम् । तत्र द्रुमाकीर्णम् । तत्प्रथमावरणे पश्चिमे सम्मुखे स्वर्णमण्डपे देवकन्या । द्वितीये सुदामादि । तृतीये किङ्किण्यादि । चतुर्थे लवङ्गादि । पञ्चमे कल्पतरोर्मूले उषा तत्सहितोऽनिरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्तवर्णो विष्णुरिति द्वारपालाः । एतद्बाह्यं राधाकुण्डम् । तत्र स्नात्वा राधाङ्गं भवति । ईश्वरस्य दर्शनयोग्यं भवति । यत्र स्नात्वा नारद ईश्वरस्य नित्यस्थलसामीप्ययोग्यो भवति । राधाकृष्णयोरेकमासनम् । एका बुद्धिः । एकं मनः । एकं ज्ञानम् । एक आत्मा । एकं पदम् । एका आकृतिः । एकं ब्रह्म । तया समं हेममुरळीं वादयन् हेमस्व-
रूपामनुरागसंवलितां कल्पतरोर्मूले [आस्ते ।] सुरभिविद्या अक्षमाला श्रुतिरिव परमा सिद्धा सात्त्विकी । (1शुद्धा सात्त्विकी गुणातीता स्नेहभावरहिता । अत एव द्वयोर्न भेदः । कालमायागुणातीतत्वात् । तदेव स्पष्टयति अथेति । अथानन्तरं मङ्गले वा । अथ वा श्रीबृन्दावनमध्ये ऋग्यजुस्सामस्वरूपम् । ऋगात्मको मकारः । यजुरात्मक उकारः । श्रीरामः सामात्मकोऽपि अकारः । श्रीकृष्णः अर्धमात्रात्मकोऽपि । यशोदा इव बिन्दुः । परब्रह्म सच्चिदानन्दानंदराधाकृष्णयोः परस्परसुखाभिलाषरसास्वादन इव तत्सच्चिदानन्दामृतं कथ्यते । तल्लक्षणं यत् प्रणवं ब्रह्मविष्णुशिवात्मकं इच्छाज्ञानशक्तिनिष्ठं कायिकवाचिकमानसिकभावं सत्त्वरजस्तमस्स्वरूपं सत्यत्रेताद्वापरानुगीतम् । द्वापरस्य पश्चाद्वर्तते कलिः । एतच्चतुर्युगेषु गीयते। तद्भूर्भुवस्वर्लक्षणमोङ्कार एव । यच्चान्यदतिरिक्तं कालातीतं तदप्योङ्कार एव । सर्वM ह्येतद्ब्रह्म आत्मा सोऽहमस्मि इति धीमहि चिन्तयेमहि । "आदित्यो वा एष एतन्मण्डलं तपति" इति यत् श्वेताख्यं श्वेतद्वीपनाम स्थानं तुरीयातीतं गोकुलमथुराद्वारकाणां तुरीयमेतद्दिव्यं वृन्दावनमिति पुरैवोक्तं सर्वं संपत्संप्रदायानुगतं यत्र II)
इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां द्वितीयः प्रपाठकः
तृतीयः प्रपाठकः
अथानन्तरं भद्रश्रीलोहभाण्डीरमहातालखदिरवकुलकुमुदकाम्यमधुबृन्दावनानि द्वादशवनानि कालिन्द्याः पश्चिमे सप्तवनानि पूर्वस्मिन् पञ्चवनानि उत्तरस्मिन् गुह्यानि सन्ति । मथुरावनमधुवनमहावनखादिरवनभाण्डीरवननन्दीश्वरवननन्दवनानन्दवनखाण्डववनपलाशवनाशोकवनकेतकवनद्रुमवन-गन्धमादनवनशेषशायिवनश्यामायुवनभुज्युवनदधिवनवृषभानुवनसंकेतवनदीपवनरासवनक्रीडावनोत्सुकवनान्येतानि चतुर्विंशतिवनानि नित्यस्थलानि नानालीलयाधिष्ठाय कृष्णः क्रीडति । [ तानि वनानि ] वसन्तऋतुसेवितानि मन्दादिपवनयुक्तानि [सन्ति ] यत्र दुःखं नास्ति सुखं नास्ति जरा नास्ति मरणं नास्ति क्रोधो नास्ति तत्र पूर्णानन्दमयः श्रीकैशोरकृष्णः शिखण्डिदललम्बितत्रियुमगुञ्जावतंसमणिमयकिरीटशिराः गोरोचनातिलकः कर्णयोर्मकरकुण्डलो वन्यस्रग्वी मालतीदामभूषितशरीरः करे कङ्कणं बाहौ केयूरं पादयोः किङ्किर्णी कट्यां पीताम्ब [रं च धारयन् ] गम्भीरनाभिकमलः सुवृत्तनासायुगलो ध्वजवज्रादिचिह्नितपादपद्म महाविष्णु [ रास्ते ] ।
एवंरूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः सुधीः ॥ इति ॥
तस्याद्या प्रकृती राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्नाशेषलावण्यसुन्दरी । अस्मदादीनां जन्म तदधीनं अस्यांशाद्बहवो विष्णुरुद्रादयो भवन्ति । एवंभूतस्यागाधमहिम्नः सुखसिन्धोरुत्पन्नमिति मानसपूजया ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति ॥
इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां तृतीयः प्रपाठकः
चतुर्थ: प्रपाठकः
अथ पुरुषोत्तमो यस्यां निशायां तुरीयं साक्षाद्ब्रह्म । यत्र परमसंन्यासस्वरूपः कृष्णः कल्पपादपः । यत्र लक्ष्मीर्जाम्बवती राधिका विमला चन्द्रावलीसरस्वती ललितादिरिति । साक्षाद्ब्रह्मस्वरूपो जगन्नाथः अहंशेषांशज्योतीरूपः सुदर्शनो भक्तश्च । एवं पञ्चधा विभृतमिति । यत्र च मथुरा गोकुलं द्वारका वैकुण्ठपुरी श्वेतपुरी रामपुरी यमपुरी नरसिंहपुरी नरनारायणपुरी कुबेरपुरी गणेशपुरी शक्रपुरी एता देवतास्तिष्ठन्ति । यत्र रसातलपातालगङ्गारोहिणीकुण्डममृतकुण्डमित्यादिनानापुरी । यत्रान्नं सिद्वान्नम् । (1शूद्रादिस्पर्शदोषरहितं ब्रह्मादिसंस्कारापेक्षारहितं यत्र श्रीजगन्नाथस्य योगमित्यर्थः । "नाभ्या आसीत्" इति मन्त्रेण, "अन्नपतेऽन्नस्य" इति मन्त्रेण, "अन्नाद्याय व्यूहध्वं सोमो राजाय भागमत्समे सुखं प्रमार्यते यशसा च बलेन च" इति मन्त्रेण, "विश्वकर्मणि स्वाहा" इति मन्त्रेण, "आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम्" इति मन्त्रेण, "पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि स्वाहा" इति मन्त्रेण, "अन्नं ब्रह्म" इति श्रुत्या च कैवल्यमुक्तिरुच्यते । यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यमुक्तिः सिद्धा भूर्भुवस्स्वर्महत्तत्त्वमित्यादि यत्र भार्गवी यमुना समुद्रममृतमयं बृन्दावनानि नीलपर्वतगोवर्धनसिंहासनं प्रासादो मणिमण्टपो विमलादिषोडशचण्डिकागोप्यो यत्र समुद्रतीरे च निरन्तरं कामधेनुबृन्दं यत्र नृसिंहादयो देवता आवरणानि यत्र न जरा न मृत्युर्न कालो न भङ्गो न जयो न विवादो न हिंसा न शान्तिर्न स्वप्न एवं लीलाकामशरीरी स्वविनोदार्थं भक्तैः सहोत्कण्ठितैस्तत्र क्रीडति कृष्णः । )
एको देवो नित्यलीलानुरक्तो
भक्तव्यापी भक्तहृद्यन्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥
मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति ॥
इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां चतुर्थ: प्रपाठकः
इति राधोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.