🪷

राधोपनिषत्

Radhopanishat

उपनिषद् · Sanskrit · ⏱ 6 min

अन्य नाम · Also known as राधोपनिषत्

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

अक्षर का आकार

प्रथमः प्रपाठकः

ॐ अथ सुषुप्तौ रामः स्वबोधमाधायेव किं मे देवः क्वासौ कृष्णो योऽयं मम भ्रातेति तस्य का निष्ठा ब्रूहीति । सा वै ह्युवाच । राम शृणु भूर्भुवस्स्वर्महर्जनस्तपस्सत्यं तलं वितलं सुतलं रसातलं तलातलं महातलं पातालं एवं पञ्चाशत्कोटियोजनं बहुलं स्वर्णाण्डं ब्रह्माण्डमिति अनन्तकोटिब्रह्माण्डानामुपरि कारणजलोपरि महाविष्णोर्नित्यं स्थानं वैकुण्ठः । स ह पृच्छति । कथं शून्यमण्डले निरालम्बने वैकुण्ठ इति सानुयुक्ता । पद्मासनासीनः कृष्णध्यानपरायणः शेषदेवोऽस्ति । तस्यानन्तरोमकूपेष्वनन्तकोटिब्रह्माण्डानि अनन्तकोटिकारणजलानि तस्य सप्तकोटिपरिसहस्रपरिमिताः फणाः तदुपरि वैकुण्ठो विष्णुलोक इति । रुद्रलोकः शिववैकुण्ठ इति । दशकोटियोजनविस्तीर्णो रुद्रलोकः । तदुपरि विष्णुलोकः । सप्तकोटियोजनविस्तीर्णो विष्णुलोकः । तदुपरि सुदर्शनचक्रं त्रिकोटियोजनविस्तीर्णम् । तदुपरि कृष्णस्य स्थानं गोकुलाढ्यं माथुरमण्डलं महत्पदं सुधामयसमुद्रेणावेष्टितमिति । तत्राष्टदलकेसरमध्ये मणिपीठे सप्तावरणकमिति । स पृच्छति । किं रूपं किंस्थानं किं पद्मं किमन्तःकेसर: किमावरणम् । इत्युक्ते सानुयुक्ता । गोकुलाढ्ये माथुरमण्डले वृन्दावनमध्ये सहस्रदळपद्मे षोडशदलमध्ये अष्टदलकेसरे गोविन्दोऽपि श्यामपीताम्बरो द्विभुजो मयूरपिञ्छशिराः वेणुवेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो निरीह : स चेष्टते विराजत इति । पार्श्वे राधिका चेति । तस्या अंशो लक्ष्मीदुर्गाविजयादिशक्तिरिति । पश्चिमे सम्मुखे ललिता । वायव्ये श्यामला । उत्तरस्मिन् श्रीमती । ऐशान्यां हरिप्रिया । पूर्वस्मिन् विशाला । अग्नेय्यांश्रद्धा । याम्यां पद्मा । नैर्ऋत्यां भद्रा । षोडशदले अग्रे चन्द्रावती । तद्वामे चित्ररेखा । तत्पार्श्वे चित्रकरा । तत्पार्श्वे मदनसुन्दरी । तत्पार्श्वे श्रीमदा । तत्पार्श्वे शशिरेखा । तत्पार्श्वे कृष्णप्रिया । तत्पार्श्वे बृन्दा । तत्पार्श्वे मनोहरा । तत्पार्श्वे योगनन्दा । तत्पार्श्वे परानन्दा । तत्पार्श्वे प्रेमानन्दा । तत्पार्श्वे सत्यानन्दा । तत्पार्श्वे चन्द्रा । तत्पार्श्वे किशोरीवल्लभा । तत्पार्श्वे करुणाकुशला इति । एवं विविधा गोप्यः कृष्णसेवां कुर्वन्तीति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति । मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति ॥

इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां प्रथमः प्रपाठकः

द्वितीयः प्रपाठकः

ॐ साऽनुयुक्ता । तस्य बाह्येषु शतदलपद्मपत्रेषु योगपीठेपु रासक्रीडानुरक्ता गोप्यस्तिष्ठन्ति । एतच्चतुर्द्वारं लक्षसूर्यसमुज्ज्वलम् । तत्र द्रुमाकीर्णम् । तत्प्रथमावरणे पश्चिमे सम्मुखे स्वर्णमण्डपे देवकन्या । द्वितीये सुदामादि । तृतीये किङ्किण्यादि । चतुर्थे लवङ्गादि । पञ्चमे कल्पतरोर्मूले उषा तत्सहितोऽनिरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्तवर्णो विष्णुरिति द्वारपालाः । एतद्बाह्यं राधाकुण्डम् । तत्र स्नात्वा राधाङ्गं भवति । ईश्वरस्य दर्शनयोग्यं भवति । यत्र स्नात्वा नारद ईश्वरस्य नित्यस्थलसामीप्ययोग्यो भवति । राधाकृष्णयोरेकमासनम् । एका बुद्धिः । एकं मनः । एकं ज्ञानम् । एक आत्मा । एकं पदम् । एका आकृतिः । एकं ब्रह्म । तया समं हेममुरळीं वादयन् हेमस्व-

रूपामनुरागसंवलितां कल्पतरोर्मूले [आस्ते ।] सुरभिविद्या अक्षमाला श्रुतिरिव परमा सिद्धा सात्त्विकी । (1शुद्धा सात्त्विकी गुणातीता स्नेहभावरहिता । अत एव द्वयोर्न भेदः । कालमायागुणातीतत्वात् । तदेव स्पष्टयति अथेति । अथानन्तरं मङ्गले वा । अथ वा श्रीबृन्दावनमध्ये ऋग्यजुस्सामस्वरूपम् । ऋगात्मको मकारः । यजुरात्मक उकारः । श्रीरामः सामात्मकोऽपि अकारः । श्रीकृष्णः अर्धमात्रात्मकोऽपि । यशोदा इव बिन्दुः । परब्रह्म सच्चिदानन्दानंदराधाकृष्णयोः परस्परसुखाभिलाषरसास्वादन इव तत्सच्चिदानन्दामृतं कथ्यते । तल्लक्षणं यत् प्रणवं ब्रह्मविष्णुशिवात्मकं इच्छाज्ञानशक्तिनिष्ठं कायिकवाचिकमानसिकभावं सत्त्वरजस्तमस्स्वरूपं सत्यत्रेताद्वापरानुगीतम् । द्वापरस्य पश्चाद्वर्तते कलिः । एतच्चतुर्युगेषु गीयते। तद्भूर्भुवस्वर्लक्षणमोङ्कार एव । यच्चान्यदतिरिक्तं कालातीतं तदप्योङ्कार एव । सर्वM ह्येतद्ब्रह्म आत्मा सोऽहमस्मि इति धीमहि चिन्तयेमहि । "आदित्यो वा एष एतन्मण्डलं तपति" इति यत् श्वेताख्यं श्वेतद्वीपनाम स्थानं तुरीयातीतं गोकुलमथुराद्वारकाणां तुरीयमेतद्दिव्यं वृन्दावनमिति पुरैवोक्तं सर्वं संपत्संप्रदायानुगतं यत्र II)

इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां द्वितीयः प्रपाठकः

तृतीयः प्रपाठकः

अथानन्तरं भद्रश्रीलोहभाण्डीरमहातालखदिरवकुलकुमुदकाम्यमधुबृन्दावनानि द्वादशवनानि कालिन्द्याः पश्चिमे सप्तवनानि पूर्वस्मिन् पञ्चवनानि उत्तरस्मिन् गुह्यानि सन्ति । मथुरावनमधुवनमहावनखादिरवनभाण्डीरवननन्दीश्वरवननन्दवनानन्दवनखाण्डववनपलाशवनाशोकवनकेतकवनद्रुमवन-गन्धमादनवनशेषशायिवनश्यामायुवनभुज्युवनदधिवनवृषभानुवनसंकेतवनदीपवनरासवनक्रीडावनोत्सुकवनान्येतानि चतुर्विंशतिवनानि नित्यस्थलानि नानालीलयाधिष्ठाय कृष्णः क्रीडति । [ तानि वनानि ] वसन्तऋतुसेवितानि मन्दादिपवनयुक्तानि [सन्ति ] यत्र दुःखं नास्ति सुखं नास्ति जरा नास्ति मरणं नास्ति क्रोधो नास्ति तत्र पूर्णानन्दमयः श्रीकैशोरकृष्णः शिखण्डिदललम्बितत्रियुमगुञ्जावतंसमणिमयकिरीटशिराः गोरोचनातिलकः कर्णयोर्मकरकुण्डलो वन्यस्रग्वी मालतीदामभूषितशरीरः करे कङ्कणं बाहौ केयूरं पादयोः किङ्किर्णी कट्यां पीताम्ब [रं च धारयन् ] गम्भीरनाभिकमलः सुवृत्तनासायुगलो ध्वजवज्रादिचिह्नितपादपद्म महाविष्णु [ रास्ते ] ।

एवंरूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः सुधीः ॥ इति ॥

तस्याद्या प्रकृती राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्नाशेषलावण्यसुन्दरी । अस्मदादीनां जन्म तदधीनं अस्यांशाद्बहवो विष्णुरुद्रादयो भवन्ति । एवंभूतस्यागाधमहिम्नः सुखसिन्धोरुत्पन्नमिति मानसपूजया ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति ॥

इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां तृतीयः प्रपाठकः

चतुर्थ: प्रपाठकः

अथ पुरुषोत्तमो यस्यां निशायां तुरीयं साक्षाद्ब्रह्म । यत्र परमसंन्यासस्वरूपः कृष्णः कल्पपादपः । यत्र लक्ष्मीर्जाम्बवती राधिका विमला चन्द्रावलीसरस्वती ललितादिरिति । साक्षाद्ब्रह्मस्वरूपो जगन्नाथः अहंशेषांशज्योतीरूपः सुदर्शनो भक्तश्च । एवं पञ्चधा विभृतमिति । यत्र च मथुरा गोकुलं द्वारका वैकुण्ठपुरी श्वेतपुरी रामपुरी यमपुरी नरसिंहपुरी नरनारायणपुरी कुबेरपुरी गणेशपुरी शक्रपुरी एता देवतास्तिष्ठन्ति । यत्र रसातलपातालगङ्गारोहिणीकुण्डममृतकुण्डमित्यादिनानापुरी । यत्रान्नं सिद्वान्नम् । (1शूद्रादिस्पर्शदोषरहितं ब्रह्मादिसंस्कारापेक्षारहितं यत्र श्रीजगन्नाथस्य योगमित्यर्थः । "नाभ्या आसीत्" इति मन्त्रेण, "अन्नपतेऽन्नस्य" इति मन्त्रेण, "अन्नाद्याय व्यूहध्वं सोमो राजाय भागमत्समे सुखं प्रमार्यते यशसा च बलेन च" इति मन्त्रेण, "विश्वकर्मणि स्वाहा" इति मन्त्रेण, "आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम्" इति मन्त्रेण, "पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि स्वाहा" इति मन्त्रेण, "अन्नं ब्रह्म" इति श्रुत्या च कैवल्यमुक्तिरुच्यते । यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यमुक्तिः सिद्धा भूर्भुवस्स्वर्महत्तत्त्वमित्यादि यत्र भार्गवी यमुना समुद्रममृतमयं बृन्दावनानि नीलपर्वतगोवर्धनसिंहासनं प्रासादो मणिमण्टपो विमलादिषोडशचण्डिकागोप्यो यत्र समुद्रतीरे च निरन्तरं कामधेनुबृन्दं यत्र नृसिंहादयो देवता आवरणानि यत्र न जरा न मृत्युर्न कालो न भङ्गो न जयो न विवादो न हिंसा न शान्तिर्न स्वप्न एवं लीलाकामशरीरी स्वविनोदार्थं भक्तैः सहोत्कण्ठितैस्तत्र क्रीडति कृष्णः । )

एको देवो नित्यलीलानुरक्तो
भक्तव्यापी भक्तहृद्यन्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥

मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति ॥

इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां चतुर्थ: प्रपाठकः

इति राधोपनिषत् समाप्ता

स्रोत · Source

अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#anya-upanishadah

सम्बन्धित पाठ · Related reading

और उपनिषद्पुस्तकालय