प्रणवोपनिषत्
उपनिषद् · Sanskrit · ⏱ 6 min
अन्य नाम · Also known as प्रणवोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
ब्रह्म ह वै ब्रह्माणं पुष्करे पुष्करे ससृजे । स खलु ब्रह्मा सृष्टश्चिन्तामापेदे । केनाहमेकेनाक्षरेण सर्वांश्च कामान् सर्वांश्च लोकान् सर्वांश्च देवान् सर्वांश्च वेदान् सर्वांश्च यज्ञान् सर्वांश्च शब्दान् सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यनुभवेयमिति । स ब्रह्मचर्यमचरत् । स ओमित्येतदक्षरमपश्यत् । विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवतं तथा सर्वांश्च कामान् सर्वांश्च लोकान् सर्वांश्च देवान् सर्वांश्च वेदान् सर्वांश्च यज्ञान् सर्वांश्च शब्दान् सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यन्वभवत् । तस्य प्रथमेन वर्णेनापस्नेहश्चान्वभवत् । तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्यन्वभवत् । तस्य प्रथमया स्वरमात्रया पृथिवीमग्निमोषधिवनस्पतीनृग्वेदं भूरिति व्याहृतिर्गायत्रं छन्दस्त्रिवृतं स्तोमं प्राचीं दिशं वसन्तमृतुं वाचमध्यात्मं जिह्वां रसमितीन्द्रियाण्यन्वभवत् । तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्ममृतुं प्राणमध्यात्मं नासिके गन्धघ्राणमितीन्द्रियाण्यन्वभवत् । तस्य तृतीयया स्वरमात्रया दिवमादित्यं सामवेदं स्वरितिव्याहृतिं जागतं छन्दः सप्तदशंस्तोममुदीचीं दिशं वर्षंतु ज्योतिरध्यात्मं चक्षुषी दर्शनमितीन्द्रियाण्यन्वभवत् । तस्य वकारमात्रया यश्चन्द्रमसमथर्ववेदं नक्षत्राण्योमिति स्वमात्मानं जनदित्यंगिरसामानुष्टुभं छन्दः एकविंशं स्तोमं दक्षिणां दिशं शरदमृतुं मनोऽध्यात्मं ज्ञानं ज्ञेयमितीन्द्रियाण्यन्वभवत् । तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यगाथानाराशंसीरुपनिषदोनुशासमानानामिति वृधत्करद्रुहन्महत्तच्छमोमिति व्याहृतीः स्वरशम्यनानातन्त्रीस्वरनृत्यगीतवादित्राण्यन्वभवच्चैत्ररथं दैवतं वैद्युतं ज्योतिर्बार्हतं छन्दस्तृणवत्त्रयस्त्रिंशस्तोमौ ध्रुवामूर्ध्वां दिशं हेमन्तशिशिरावृतू श्रोत्रमध्यात्मं शब्दश्रवणमितीन्द्रियाण्यन्वभवत् । सैषैकाक्षर ऋग्ब्रह्मणस्तपसोऽग्रे प्रादुर्बभूव । ब्रह्म वेदस्याथर्वणं शुक्रमत एव मन्त्राः प्रादुर्बभूवुः । स तु खलु मन्त्राणां तपसा शुश्रूषानध्यायाध्ययनेन यदूनं च वरिष्ठं च यातयामं च करोति । तथाप्यथर्वणं तेजसा प्रत्याप्याययेन्मन्त्राश्च मामभिमुखीभवेयुर्गर्भा इव मातरमभिजिघांसुः परस्तादोङ्कारप्रयुक्तयैतयैव तदृचा प्रत्याप्याययेदेष यज्ञस्य पुरस्ताद्युज्यत एषा पश्चात् सर्वत एतया यज्ञस्तपते तदप्येतदृचोक्तं--- "या पुरस्ताद्युंजत ऋचोऽक्षरे परमे व्योमन्निति" । तदेतदक्षरं ब्राह्मणो यं काममिच्छेत् त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिप्युपविश्य सहस्रं ऋच आवर्तयेत् सिध्यन्त्यस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥
वसोद्वराणामिन्द्रनगरं तदसुराः पर्यवारयन्त । ते देवा भीता आसन । क इमानसुरान् हनिष्यतीति । तमोङ्कारं ब्रह्मणः पुत्रं ज्येष्ठं ददृशुस्ते तमब्रुवन् । भवता मुख्येनेमानसुरान् जयेमेति । स होवाच किं मे प्रतीवाहो भविष्यतीति । वरं वृणीष्वेति । वृण इति । स वरमवृणीत । "न मामनीरयित्वा ब्राह्मणा ब्रह्म वदेयुर्यदि वदेयुरब्रह्म तत्स्यात्" इति । तथेति ते देवा देवयजनस्योत्तरार्धेऽसुरैः संयत्ता आसंस्तानोङ्कारेणाग्नीधीयादेवा असुरान् पराभावयन्त । तद्यत्पराभावयन्त तस्मादोङ्कारः पूर्वमुच्चार्यते । यो ह वा एतमोङ्कारं न वेदावश्यः स्यादित्यथ य एवं वेद ब्रह्मवशः स्यादिति तस्मादोङ्कार ऋग्भवति यजुषि यजुः साम्नि साम सूत्रे सूत्रं ब्राह्मणे ब्राह्मणं लोके श्लोकः प्रणवे प्रणव इति ब्राह्मणम् ॥
ओंकारं पृच्छामः को धातुः किं प्रातिपदिकं किं नामाख्यातं किं लिङ्गं किं च वचनं का विभक्तिः कः प्रत्ययः कः स्वरः उपसर्गो निपातः किं वै व्याकरणं को विकारः को विकारी कतिमात्रः कतिवर्णः कत्यक्षरः कतिपदः कः संयोगः किं स्थानानुप्रदानकरणं शिक्षकाः किमुच्चारयन्ति किं छन्द: को वर्ण इति पूर्वे प्रश्नाः । अथोत्तरे मन्त्राः । कल्पो ब्राह्मणं ऋग् यजुः साम । कस्माद्ब्रह्मवादिन ओङ्कारमादितः कुर्वन्ति । किं दैवतं किं ज्योतिषं किं निरुक्तं किं स्थानं का प्रकृतिः किमध्यात्ममिति षट्त्रिंशत्प्रश्नाः पूर्वोत्तराणां त्रयो वर्गा द्वादश एकाशतैरोङ्कारं व्याख्यास्यामः ॥
इन्द्रः प्रजापतिमपृच्छत् भगवन्नभ्यस्तूय पृच्छामीति । पृच्छ वत्सेत्यब्रवीत् । किमयमोङ्कारः कस्य पुत्रः किं चैतच्छन्दः किं चैतद्वर्णः किं चैतद्ब्रह्मा ब्रह्म संपद्यते । तस्माद्वैतमोङ्कारं पूर्वमालोभस्वरितोदात्त एकाक्षर ओङ्कार ऋग्वेदे त्रैस्वर्योदात्त एकाक्षर ओङ्कारो यजुर्वेदे दीर्घप्लुतोदात्त एकाक्षर ओङ्कारः सामवेदे ह्रस्वोदात्त एकाक्षर: उकारोऽथर्ववेदेऽनुदात्तोदात्तद्विपद अ उ इत्यर्धचतस्रो मात्रा मकारे व्यञ्जनमित्याहु: । या सा प्रथमा मात्रा ब्रह्मदैवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्ब्राह्मं पदम् । या सा द्वितीया मात्रा विष्णुदैवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्रा ईशानदैवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् । या सार्धचतुर्थी मात्रासर्वदैवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत् पदमनामकम् । ओङ्कारस्योत्पत्तिं विप्रो यो न जानाति तत्पुनरुपनयनं तस्माद्ब्राह्मणवचनमादर्तव्यम् । यथा लातव्यो गोत्रो ब्राह्मणः । पुत्रो गायत्रं छन्दः शुक्लो वर्णः । पुंसो वत्सो रुद्रो देवता । ओङ्कारो वेदानां उत्तरोपनिषदं व्याख्यास्यामः । को धातुरित्याप्तेर्धातुरवतिमप्येके । रूपसामान्याद्यर्थसामान्यान्यन्यदीयस्तस्मादापेरोङ्कारः सर्वमाप्नोतीत्यर्थः । कृदन्तमर्थवत्प्रातिपदिकमदर्शनं प्रत्ययस्य नाम संपद्यते । निपातेषु चैनं वैय्याकरणा उक्षत्तं समामनन्ति । तदव्ययीभूतमन्वर्थवाची शब्दो न व्येति कदाचनेति ।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
को विकारी च्यवते प्रकारणमाप्नोतिराकारपकारौ विकार्यौ आदितः ओकारो विक्रियते । द्वितीयो मकार एवं द्विवर्ण एकाक्षर ओमित्योङ्कारो निर्वृत्तः । कतिमात्र इत्यादेस्तिस्रो मात्रा: अभ्याधाने हि प्लवते । मकारश्चतुर्थी किं स्थानमित्युभावोष्ठौ स्थानमाधानकरणी च द्विःस्थानं सन्ध्यक्षरमवर्णलेशः कण्ठ्यो यथोक्तशेषः पूर्वो विवृत्तकरणस्थितश्च द्वितीयः स्पृष्टकरणस्थितश्च । नायं योगे विद्युत आख्यातोपसर्गानुदात्तः स्वरितलिङ्गविभक्तिवचनानि च संच्छिन्नाध्यायिन आचार्याः पूर्वे बभूवुः । श्रवणादेवं प्रतिपद्यन्ते । न कारणं प्रयच्छन्त्यथापरपक्षीयाणां कविः पञ्चालचण्ड: परिपृच्छको बभूवांबु : पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्विति । तद्वाच्युपलक्षयेत् वर्णाक्षरपदाङ्कशो विभक्त्यामृषिनिषेवितामिति वाचं स्तुवन्ति । तस्मात् कारणं ब्रूमो वर्णानामयमिदं भविष्यतीति षडङ्गविदस्तत्तथाधीमहि । किं छन्द इति । गायत्रं हि छन्दो गायत्री वैदेवानामेकाक्षरा श्वेतवर्णा च व्याख्याता । द्वौ द्वादशकौ वर्गावेतद्वै व्याकरणं धात्वर्थवचनं शैक्षं छन्दो वचनं चाथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिkI (?) व्याख्याता मन्त्रकल्पो ब्राह्मणमृग्यजुःसामाथर्वाण्येषा व्याहृतिश्चतुर्णां वेदानामानुपूर्येण । ॐ भूर्भुवस्सुवरिति व्याहृतयः ॥
असमीक्ष्य प्रवल्हितानि श्रूयन्ते द्वापरादावृषीणामेकदेशो दोषयतीह चिन्तामापेदे । त्रिभिः सोमः पातव्यः समाप्तमिव भवति । तस्मादृग्यजुस्सामान्यपक्रान्ततेजांस्यासंस्तत्र महर्षयः परिदेवयाञ्चक्रिरे । महच्छोकभयं प्राप्ताः स्मो न चैतत्सर्वैः समभिहितं ते वयं भगवन्तमेवोपधावाम । सर्वेषामेव शर्म भवानिति । ते तथेत्युक्त्वा तूष्णीमतिष्ठन्नानुपसन्नेभ्य इत्युपोपसीदामेति नीचैर्बभूवुः । स एभ्य उपनीय प्रोवाच । मामिकामेव व्याहृतिमादितः कृणुध्वमित्येवं मामका अधीयन्ते । नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्य ऋत्विजः पराभवन्ति । यजमानो रजसापध्वस्यति श्रुतिश्चापध्वस्तापतिष्ठतीत्येवमेवोत्तरोत्तराद्योगाल्लोकं तोकं प्रशाध्वमित्येवं प्रतापो न पराभविष्यतीति । तथाह भगवन्निति प्रतिपेदिरे आप्याययंस्ते तथा वीतशोकभया बभूवुः । तस्माद्ब्रह्मवादिन ओङ्कारमादितः कुर्वन्ति ॥
किं दैवतमित्यृचामग्निर्दैवतं तदेव ज्योतिर्गायत्रं छन्दः पृथिवी स्थानं "अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ।" इत्येवमादिं कृत्वा ऋग्वेदमधीयते । यजुषां वायुर्दैवतं तदेव ज्योतिस्त्रैष्टुभं छन्दोऽन्तरिक्षं स्थानं "इषे त्वोर्जे त्वा वायवः स्थोपायवः स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे" इत्येवमादिं कृत्वा यजुर्वेदमधीयते । साम्नामादित्यो दैवतं तदेव ज्योतिर्जागतं छन्दो द्यौः स्थानं "अग्न आयाहि वीतये गृणानो हव्यदातये । निहोता सत्सि बर्हिषि ।" इत्येवमादिं कृत्वा सामवेदमधीयते । अथर्वणां चन्द्रमा दैवतं तदेव ज्योतिः सर्वाणि छन्दांस्यापः स्थानं "शन्नोदेवीरभिष्टये" इत्येवमादिं कृत्वा अथर्ववेदमधीयते । अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति । तस्मात् सर्वमापोमयं भूतं सर्वं भृग्वङ्गिरोमयं अन्तरैते त्रयो वेदा भृगूनङ्गिरसः श्रिता इत्यबिति प्रकृतिरपामोङ्कारेण चैतस्माद्व्यासः ॥
इति प्रणवोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.