प्रणवोपनिषत् (१)
उपनिषद् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as प्रणवोपनिषत् (१)
Sanskrit text from Sanskrit Wikisource.
ॐ सह नावस्तु । सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहे ।
ॐ शान्तिः शान्तिः शान्तिः ।।
पुरस्ताद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः ।
रहस्यं ब्रह्मविद्याया धृताग्निं संप्रचक्षते ।।
ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः ।
शरीरं तस्य वक्ष्यामि स्थानकालत्रयं तथा ॥
तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः ।
तिस्रो मात्रार्धमात्रा च प्रत्यक्षस्य शिवस्य तत् ॥
ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च ।
अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥
यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च ।
विष्णुश्च भगवान् देव उकारः परिकीर्तितः ॥
सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च ।
ईश्वरः परमो देवो मकारः परिकीर्तितः ॥
सूर्यमण्डलमाभाति ह्यकारश्चन्द्रमध्यगः ।
उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः ।
मकारश्चाग्निसंकाशो विधूमो विद्युतोपमः ।
तिस्रो मात्रास्तथा ज्ञेयाः सोमसूर्याग्नितेजसः ॥
शिखा च दीपसंकाशा यमिन्नु परिवर्तते ।
अर्धमात्रा तथा ज्ञेया प्रणवस्योपरि स्थिता ॥
पद्मसूत्रनिभा सूक्ष्मा शिखाभा दृश्यते परा ।
नासादिसूर्यसंकाशा सूर्यं हित्वा तथापरम् ।
द्विसप्ततिसहस्राणि नाडिभिस्त्वा तु मूर्धनि ।
वरदं सर्वभूतानां सर्वं व्याप्यैव तिष्ठति ॥
कांस्यघण्टानिनादः स्याद्यदा लिप्यति शान्तये।
ओङ्कारस्तु तथा योज्यः श्रुतये सर्वमिच्छति ॥
यस्मिन् स लीयते शब्दस्तत्परं ब्रह्म गीयते ।
सोऽमृतत्वाय कल्पते सोऽमृतत्वाय कल्पते ।। इति ।।
इति प्रणवोपनिषत्समाप्ता
Sanskrit Wikisource, page "प्रणवोपनिषत् (१)", revision 201355.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.