पारायणोपनिषत्
उपनिषद् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as पारायणोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
अथाह वै वेदानां वेदत्वमेतेन शाक्ते शक्तित्वमेति न वेदमातुर्वेदमातृत्वमेतेन तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । परोरजसे सावदोम् । महाकालाय विद्महे श्मशानवासिने धीमहि । तन्नो रुद्रः प्रचोदयात् । रुद्र एवाग्निरिति । अथ प्रकाशः ॐ भूर्भुवः स्वः ॐ ऐं क्लीं सौः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । परोरजसे सावदोम् । सौः क्लीं ऐं ह्रौं क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं दक्षिणकालिके क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं स्वाहा । ह्रां ऐं क्लीं श्रीं ॐ ॐ ॐ श्रीं क्लीं ऐं । महाकालाय विद्महे श्मशानवासिने धीमहि । तन्नो रुद्रः प्रचोदयात् । रुद्र एवाग्निरिति संघट्टनाधीशोभवेत् । तदिदंपारायणवशादानन्दपूर्णो भवेत् । ओघत्रयनामविशिष्टमाकृतिविशिष्टं नवनाथनामविशिष्टं वा नाममयीमाज्ञां दद्यात् । घटिकापारायणं चरेत् । दिनाक्षरयुगाक्षरे तद्दिननित्याहंसस्तदनु मातृकां जपेत् । कालनित्यां जपेत् । द्विशतसाहस्रशीर्षM तरसाग्निजापी भवेत् । मन्त्रपारायणी भवेत् । नामपारायणी भवेत् । चक्रपारायणी भवेत् । स सर्वM पश्यति । स sarvaM जलमयो भवेत् । वह्नौ वह्निमयो भवेत् । चराचरगतिर्भवेत् । पराशतषष्टिवाणीज्ञो भवेत् । षोढान्यासाधिकारी भवेत् । मासतः पक्षतो वारतः पारायणी भवेत् । सर्वाधिकारी भवेत् । दृष्टाकं चरेत् । तदाचरणी अमृतत्वं गच्छति । ब्रह्मत्वं गच्छति । साक्षात्सप्तमीरूपो भवेदिति प्रोतं वेद ॥
इत्याथर्वणीये सौभाग्यकाण्डे पारायणोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.