नारायणोत्तरतापिनीयोपनिषत्
उपनिषद् · Sanskrit · ⏱ 3 min
अन्य नाम · Also known as नारायणोत्तरतापिनीयोपनिषत् · Narayanottaratapiniyopanishat
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
नारायणोत्तरतापिनीयोपनिषत्
प्रथमः खण्डः
स होवाच भगवान् ब्रह्मा आनन्दं ब्रह्मणो विद्वान् सच्चिदानन्दस्वरूपो भवति ।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ।
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥
वासनाद्वासुदेवस्य वासितं हि जगत्त्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥
भूश्च नारायण: । भुवश्च नारायणः । सुवश्च नारायण: । महश्व नारायणः । जनश्च नारायणः । तपश्च नारायणः । सत्यं च नारायणः । नारायणः परं ब्रह्म । नारायण एवेदं सर्वम् । नारायणान्न किञ्चिदस्ति । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अमेरापः । अद्भयः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । नारायणः सर्वपुरुष एवेदं परब्रह्म । नारायणः सर्वभूतान्तर्याम्यात्मा । आत्मेदं सर्वं नारायणः । नारायणः स्वयं ज्योतिः । तस्मात्प्रकाशात्मा ।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ।
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ॥
पाशबद्धः स्मृतो जीवः पाशमुक्तः सनातनः ।
तुषेण बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः ॥
परब्रह्म स्वयं चात्मा साक्षान्नारायणः स्मृतः ।
नारायणमनादिं च योगनिद्रापरायणम् ॥
जाग्रत्स्वप्नसुषुप्तीषु सर्वकालव्यवस्थितम् ।
नारायणं महात्मानं महाध्यानपरायणम् ।
सर्ववेदान्तसंलक्ष्यं तद्ब्रह्मेत्यभिधीयते ॥
स होवाच भगवान् नारायण एवेदं सर्वं प्रतिष्ठितं य एवं वेद ।
इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये प्रथमः खण्डः
द्वितीयः खण्डः
स होवाच भगवान् ब्रह्मा नारायणः परवस्तु भवतीति विज्ञायते ।
सच्चिदानन्दरुपाय ज्ञानायामिततेजसे ।
परब्रह्मस्वरूपाय नारायण नमोऽस्तु ते ॥
नित्यशुद्धाय बुद्धाय नित्यायाद्वैतरूपिणे ।
आनन्दायात्मरूपाय नारायण नमोऽस्तु ते ॥
ओं नमो भगवते श्रीमन्नारायणाय महाविष्णवे अमितबलपराक्रमाय शङ्खचक्रगदाधराय लक्ष्मीसमेताय गरुडवाहनाय दशावताराय सर्वदुष्टदैत्यदानवसंहरणाय शिष्टप्रतिपालकाय परब्रह्मरूपाय महात्मने परमपुरुषाय पुण्डरीकाक्षाय पुराणपुरुषाय शुद्धबुद्धाय सच्चिदानन्दस्वरूपाय महात्मने घृणिः सूर्य आदित्य ॐ नमो नारायणाय सहस्रार हुं फट् स्वाहा ॥
नारायणाय शान्ताय शाश्वताय मुरारये ।
यज्ञेश्वराय यज्ञाय शरण्याय नमो नमः ॥
स होवाच भगवान् ब्रह्मा सर्वं विश्वमिदं नारायणः य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये द्वितीयः खण्डः
तृतीयः खण्डः
स होवाच भगवान् ब्रह्मा नारायणः परब्रह्मेति य एवं वेद । नारायणात्मा वेदं सर्वं निर्विकारं निरञ्जनवस्तु प्रतिपाद्यते । स नारायणो विराट्पुरुषो भवति । देवानां वासवो भवति । इन्द्रियाणां मनो भवति ।सर्वेषां वस्तूनां मुख्यवस्तु भवति । ॐ नमो नारायणादन्यो मन्त्रः नारायणादन्योपास्तिर्नास्ति । नान्यन्नारायणादुपासितव्यम् । सर्वं नारायण एव भवतीति विज्ञायते । योऽधीते नित्यं सर्वान् कामानवाप्नोति । स ब्रह्महत्यायाः पूतो भवति । सुरापानात् पूतो भवति । स्वर्णस्तेयात् पूतो भवति । गुरुतल्पगमनात् पूतो भवति । अगम्यागमनात् पूतो भवति । अभक्ष्यभक्षात् पूतो भवति । स उपपातकमहापातकेभ्यः पूतो भवति । सर्ववेदमधीयानो भवति । सर्वक्रतुफलं प्राप्नोति । सर्वकर्मकर्ता भवति । चतुःसमुद्रपर्यन्तभूदानफलं प्राप्नोति । द्विजोत्तमो भवति । चतुर्वर्गफलं प्राप्नोति । ब्रह्मचारी ज्ञानवान् भवति । गृही पुत्रपौत्रमहैश्वर्यवान् भवति । सन्न्यासी मोक्षवान् भवति ॥
पठनाच्छ्रवणाद्वाऽपि सर्वान् कामानवाप्नुयात् ।
नारायणप्रसादेन वैकुण्ठपदमश्नुते ॥
इति स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः ।
तावन्ति हरिनामानि कीर्तितानि न संशयः ॥
नारायण हरे कृष्ण वासुदेव जगद्गुरो ।
मुकुन्दाच्युत देवेश महाविष्णो नमोऽस्तु ते ॥
भूतानि तत्त्वसंज्ञानि कूटस्थोऽक्षरसंज्ञितः ।
उत्तमश्चापि पुरुषो नारायण इतीर्यते ॥
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये तृतीयः खण्डः
इति नारायणोत्तरतापिनीयोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.