मुक्तिकोपनिषत्
उपनिषद् · Sanskrit · ⏱ 12 min
अन्य नाम · Also known as मुक्तिकोपनिषत्
Sanskrit text from Sanskrit Wikisource.
ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् ।
मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ॥
हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे ।
सीताभरतसौमित्रिशत्रुघ्नाद्यैः समन्वितम् ॥ १॥
सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः ।
अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम् ॥ २॥
धीविक्रियासहस्राणां साक्षिणं निर्विकारिणम् ।
स्वरूपध्याननिरतं समाधिविरमे हरिम् ॥ ३॥
भक्त्या शुश्रूषया रामं स्तुवन्पप्रच्छ मारुतिः ।
राम त्वं परमात्मसि सच्चिदानन्दविग्रहः ॥ ४॥
इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः ।
त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राम मुक्तये ॥ ५॥
अनायासेन येनाहं मुच्येयं भवबन्धनात् ।
कृपया वद मे राम येन मुक्तो भवाम्यहम् ॥ ६॥
साधु पृष्टं महाबाहो वदामि शृणु तत्त्वतः ।
वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय ॥ ७॥
वेदान्ताः के रघुश्रेष्ठ वर्तन्ते कुत्र ते वद ।
हनूमञ्च्हृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा ॥ ८॥
निश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः ।
तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः ॥ ९॥
राम वेदाः कतिविधास्तेषां शाखाश्च राघव ।
तासूपनिषदाः काः स्युः कृपया वद तत्त्वतः ॥ १.१०॥
श्रीराम उवाच ।
ऋग्वेदादिविभागेन वेदाश्चत्वार ईरिताः ।
तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा ॥ ११॥
ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसङ्ख्यकाः ।
नवाधिकशतं शाखा यजुषो मारुतात्मज ॥ १२॥
सहस्रसङ्ख्यया जाताः शाखाः साम्नः परन्तप ।
अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे ॥ १३॥
एकैकस्यास्तु शाखाया एकैकोपनिषन्मता ।
तासामेकामृचं यश्च पठते भक्तितो मयि ॥ १४॥
स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् ।
राम केचिन्मुनिश्रेष्ठा मुक्तिरेकेति चक्षिरे ॥ १५॥
केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः ।
अन्येतु साङ्ख्ययोगेन भक्तियोगेन चापरे ॥ १६॥
अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः ।
सालोक्यादिविभागेन चतुर्धा मुक्तिरीरिता ॥ १७॥
सहोवाच श्रीरामः ।
कैवल्यमुक्तिरेकैव परमार्थिकरूपिणी ।
दुराचाररतो वापि मन्नामभजनात्कपे ॥ १८॥
सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् ।
काश्यां तु ब्रह्मनालेऽस्मिन्मृतो मत्तारमाप्नुयात् ॥ १९॥
पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः ।
यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः ॥ १.२०॥
जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत् ।
निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम् ॥ २१॥
सैव सालोक्यसारूप्यमुक्तिरत्यभिधीयते ।
सदाचाररतो भूत्वा द्विजो नित्यमनन्यधीः ॥ २२॥
मयि सर्वात्मको भावो मत्सामीप्यं भजत्ययम् ।
सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते ॥ २३॥
गुरूपदिष्टमार्गेण ध्यायन्मद्गुणमव्ययम् ।
मत्सायुज्यं द्विजः सम्यग्भजेद्भ्रमरकीटवत् ॥ २४॥
सैव सायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा ।
चतुर्विधा तु या मुक्तिर्मदुपासनया भवेत् ॥ २५॥
इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति ।
माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये ॥ २६॥
तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ ।
ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि ॥ २७॥
तथापि दृढता न चेद्विद्ज्ञानस्याञ्जनासुत ।
द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥ २८॥
विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ ।
तासां क्रम सशान्तिं च श्रुणु वक्ष्यामि तत्त्वतः ॥ २९॥
ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः ।
ऐतरेयं च च्हान्दोग्यं बृहदारण्यकं तथा ॥ १.३०॥
ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः ।
गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा ॥ ३१॥
मैत्रायणी कौषीतकी बृहज्जाबालतापनी ।
कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ॥ ३२॥
सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ।
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥ ३३॥
परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् ।
दक्षिणा शरभं स्कन्दं महानारायणाह्वयम् ॥ ३४॥
रहस्यं रामतपनं वासुदेवं च मुद्गलम् ।
शाण्डिल्यं पैङ्गलं भिक्षुमहच्छारीरकं शिखा ॥ ३५॥
तुरीयातीतसंन्यासपरिव्राजाक्षमालिका ।
अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥ ३६॥
सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् ।
त्रिपुरातपनं देवीत्रिपुरा कठभावना ।
हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् ॥ ३७॥
तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकम् ।
गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ॥ ३८॥
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ।
कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका ॥ ३९॥
एवमष्टोत्तरशतं भावनात्रयनाशनम् ।
ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् ॥ १.४०॥
पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् ।
वेदविद्याव्रतस्नातदेशिकस्य मुखात्स्वयम् ॥ ४१॥
गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः ।
प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते ॥ ४२॥
ततः कालवशादेव प्रारब्धे तु क्षयं गते ।
वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्रसंशयः ॥ ४३॥
सर्वोपनिषदां मध्ये सारमष्टोत्तरशतम् ।
सकृच्छ्रवणमात्रेण सर्वाघौघनिकृन्तनम् ॥ ४४॥
मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन ।
इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् ॥ ४५॥
ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् ।
राज्यं देयं धनं देयं याचतः कामपूरणम् ॥ ४५॥
इदमष्टोत्तरशतं न देयं यस्य कस्यचित् ।
नास्तिकाय कृतघ्नाय दुराचाररताय वै ॥ ४७॥
मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते ।
गुरुभक्तिविहीनाय दातव्यं न कदाचन ॥ ४८॥
सेवापराय शिष्याय हितपुत्राय मारुते ।
मद्भक्ताय सुशीलाय कुलीनाय सुमेधसे ॥ ४९॥
सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरं शतम् ।
यः पठेच्छृणुयाद्वापि स मामेति न संशयः । तदेतदृचाभ्युक्तम् ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टीऽहमस्मि ।
असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् ।
यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् ।
तस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ १॥
अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ
ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति ।
स होवाच श्रीरामः ।
ऐतरेयकौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाण
मुद्गलाक्षमालिकात्रिपुरासौभाग्यबह्वृचा
नामृग्वेदगतानां दशसंख्याकानामुपनिषदां
वाङ्मे मनसीति शान्तिः ॥ १॥
ईशावास्यबृहदारण्यजाबालहंसपरमहंससुबाल
मन्त्रिकानिरालम्बत्रिशिखीब्राह्मणमण्डलब्राह्मणाद्वयतारक
पैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्य
शाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशति
संख्याकानामुपनिषदां पूर्णमद इति शान्तिः ॥ २॥
कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भ
नारायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिका
सर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्या
योगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षर
अक्ष्यवधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म
प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यानां
कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानमुपनिषदां
सह नाववत्विति शान्तिः ॥ ३॥
केनच्हान्दोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणि
वासुदेवमहत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबालदर्शन
जाबालीनां सामवेदगतानां षोडशसंख्याकाना
मुपनिषदानामाप्यायन्त्विति शान्तिः ॥ ४॥
प्रश्नमुण्डकमाण्डुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबाल
नृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायण
रामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजक
अन्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावना
ब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव
दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकाना
मुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥ ५॥
मुमुक्षवः पुरुषाः साधनचतुष्टयसंपन्नाः
श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्य
गुणवन्तमकुटिलं सर्वभूतहितेरतं दयासमुद्रं सद्गुरुं
विधिवदुपसंगम्योपहारपाणयोऽष्टोत्तरशतोपनिषदं
विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा
प्रारब्धक्षयाद्देहत्रयभंगं प्राप्योपाधिविनिर्मुक्त
घटाकाशवत्परिपूर्णता विदेहमुक्तिः । सैव कैवल्यमुक्तिरिति ।
अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदान्तश्रवणादि कृत्वा
तेन सह कैवल्यं लभन्ते । अतः सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता ।
न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥
इति प्रथमोऽध्यायः ॥ १॥
तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ ।
केयं वा तत्सिद्धिः सिद्ध्या वा किं प्रयोजनमिति ।
सहोवाच श्रीरामः । पुरुषस्य कर्तृत्वभोक्तृत्व
सुखदुःखादिलक्षणश्चित्तधर्मः क्लेशरूपत्वाद्बन्धो
भवति । तन्निरोधनं जीवन्मुक्तिः । उपाधिविनिर्मुक्त
घटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः ।
जीवन्मुक्तिविदेहमुक्त्योरष्टोत्तरशतोपनिषदः प्रमाणम् ।
कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः प्रयोजनं
भवति । तत्पुरुषप्रयत्नसाध्यं भवति । यथा पुत्रकामेष्टिना
पुत्रं वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा
पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना
जीवन्मुक्त्यादिलाभो भवति । सर्ववासनाक्षयात्तल्लाभः ।
अत्र श्लोका भवन्ति ॥
उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं मतम् ।
अत्रोच्छस्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥ २.१॥
लोकवासनया जन्तोः शास्त्रवासनयापि च ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥ २॥
द्विविधा वासनाव्यूहः शुभश्चैवाशुभश्च तौ ।
वासनौघेन शुद्धेन तत्र चेदनुनीयसे ॥ ३॥
तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि ।
अथ चेदशुभो भावस्त्वां योजयति संकटे ॥ ४॥
प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कपे ।
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ॥ ५॥
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ।
अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ॥ ६॥
अशुभाच्चालितं याति शुभं तस्मादपीतरत् ।
पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥७॥
द्रागभ्यासवशाद्याति यदा ते वासनोदयम् ।
तदाभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन ॥ ८॥
सन्दिग्धायामपि भृशं शुभामेव समाचर ।
शुभायां वासनावृद्धौ न दोषाय मरुत्सुत ॥ ९॥
वासनाक्षयविज्ञानमनोनाशा महामते ।
समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥ २.१०॥
त्रय एवं समं यावन्नाभ्यस्ताश्च पुनः पुनः ।
तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः ॥ ११॥
एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् ।
तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीर्तिता इव ॥ १२॥
त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः ।
निःशङ्कमेव त्रुठ्यन्ति बिसच्छेदाद्गुणा इव ॥ १३॥
जन्मान्तशताभ्यस्ता मिथ्या संसारवासना ।
सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥ १४॥
तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना ।
भोगेच्छां दूरतस्त्यक्त्वा त्रयमेव समाश्रय ॥ १५॥
तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः ।
सम्यग्वासनया त्यक्तं मुक्तमित्यभिधीयते ।
मनोनिर्वासनीभावमाचराशु महाकपे ॥ १६॥
सम्यगालोचनात्सत्याद्वासना प्रविलीयते ।
वासनाविलये चेतः शममायाति दीपवत् ॥ १७॥
वासनां संपरित्यज्य मयि चिन्मात्र विग्रहे ।
यस्तिष्ठति गतो व्यग्रः सोऽहं सच्चित्सुखात्मकः ॥ १८॥
समाधिमथ कार्याणि मा करोतु करोतु वा ।
हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः ॥ १९॥
नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः ।
न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः ॥ २.२०॥
संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् ॥ २१॥
वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः ।
प्रवर्तते बहिः स्वाऽर्थे वासनामात्रकारणम् ॥ २२॥
अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः ।
नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥ २३॥
भावसंवित्प्रकटितामनुरूपा च मारुते ।
चित्तस्योत्पत्युपरमा वासनां मुनयो विदुः ॥ २४॥
दृढाभ्यस्तपदार्थैकभावनादतिचञ्चलम् ।
चित्तं संजायते जन्मजरामरणकारणम् ॥ २५॥
वासनावशतः प्राणस्पन्दस्तेन च वासना ।
क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ॥ २६॥
द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने ।
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥ २७॥
असङ्गव्यवहारत्वाद्भवभावनवर्जनात् ।
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ।
वासनासंपरित्यागाच्चितं गच्छत्यचित्तताम् ॥ २८॥
अवासनत्वात्सततं यदा न मनुते मनः ।
अमनस्ता तदोदेति परमोपशमप्रदा ॥ २९॥
अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः ।
गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥ २.३०॥
ततः पक्वकषायेण नूनं विज्ञात वस्तुना ।
शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना ॥ ३१॥
द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च ।
जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिगः ॥ ३२॥
अस्य नाशमिदानीं त्वं पावने श्रुणु सादरम् ॥ ३३।
चित्तानाशाभिधानं हि यदा ते विद्यते पुनः ।
मैत्र्यादिभिर्गुणैर्युक्तं शान्तिमेति न संशयः ।
भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥ ३४॥
सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते ।
अरूपस्तु मनोनाशो वैदेही मुक्तिगो भवेत् ॥ ३५॥
सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ॥ ३६॥
अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् ।
संकल्प एव तन्मन्ये संकल्पोपशमेन तत् ॥ ३७॥
शोषयाशु यथा शोषमेति संसारपादपः ।
उपाय एक एवास्ति मनसः स्वस्य निग्रहे ॥ ३८॥
मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ।
ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला ॥ ३९॥
तावन्निशीव वेताला वल्गन्ति हृदि वासनाः ।
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥ २.४०॥
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ।
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥ ४१॥
हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च ।
अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः ॥ ४२॥
उपविश्योपविश्यैकां चिन्तकेन मुहुर्मुहुः ।
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥ ४३॥
अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः ।
अध्यात्मविद्याधिगमः साधुसंगतिरेव च ॥ ४४॥
वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् ।
एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥ ४५॥
सतीषु युक्तिष्वेतासु हठान्नियमन्ति ये ।
चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः ॥ ४६॥
विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् ।
ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ॥ ४७॥
द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारणः ।
एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥ ४८॥
सा हि सर्वगता संवित्प्राणास्पन्देन चाल्यते ।
चित्तैकाग्र्याद्यतो ज्ञानमुक्तं समुपजायते ॥ ४९॥
तत्साधनमथो ध्यानं यथावदुपदिश्यते ।
विनाप्यविकृतिं कृत्स्नां संभवव्यत्ययक्रमात् ।
यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय ॥ २.५०॥
अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि ।
तावत्सा कुंभकावस्था योगिभिर्यानुभूयते ॥ ५१॥
बहिरस्तंगते प्राणे यावन्नापान उद्गतः ।
तावत्पूर्णां समावस्थां बहिष्ठं कुम्भकं विदुः ॥ ५२॥
ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतं विना ।
संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः ॥ ५३॥
प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् ।
असंप्रज्ञातनामायं समाधिर्योगिनां प्रियः ॥ ५४॥
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् ।
अतद्व्यावृत्तिरूपोऽसौ समाधिर्मुनिभावितः ॥ ५५॥
ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् ।
साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः ॥ ५६॥
दृढभावनया त्यक्तपूर्वापरविचारणम् ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ ५७॥
भावितं तीव्रसंवेगादात्मना यत्तदेव सः ।
भवत्याशु कपिश्रेष्ठ विगतेतरवासनः ॥ ५८॥
तादृग्रूपो हि पुरुषो वासनाविवशीकृतः ।
संपश्यति यदैवैतत्सद्वस्त्विति विमुह्यति ॥ ५९॥
वासनावेगवैचित्र्यात्स्वरूपं न जहाति तत् ।
भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ॥ २.६०॥
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।
मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी ॥ ६१॥
अज्ञानसुघनाकारा घनाहंकारशालिनी ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ।
पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् ॥ ६२॥
बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् ।
अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् ॥ ६३॥
दर्शनादर्शने हित्वा स्वयं केवलरूपतः ।
य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित्स्वयम् ॥ ६४॥
अधीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः ।
ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥ ६५॥
स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् ।
विरागकारणं तस्य किमन्यदुपदिश्यते ॥ ६६॥
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ ६७॥
बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः ।
वासनां संपरित्यज्य मोक्षार्थित्वमपि त्यज ॥ ६८॥
मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः ।
मैत्र्यादिवासनानाम्नीर्गृहाणामलवासनाः ॥ ६९॥
ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि ।
अन्तःशान्तः समस्नेहो भव चिन्मात्रवासनः ॥ २.७०॥
तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् ।
शेषस्थिरसमाधानो मयि त्वं भव मारुते ॥ ७१॥
अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसं नित्यमगन्धवच्च यत् ।
अनामगोत्रं मम रूपमीदृशं
भजस्व नित्यं पवनात्मजार्तिहन् ॥ ७२॥
दृशिस्वरूपं गगनोपमं परं
सकृद्विभातं त्वजमेकमक्षरम् ।
अलेपकं सर्वगतं यदद्वयं
तदेव चाहं सकलं विमुक्तॐ ॥ ७३॥
दृशिस्तु शुद्धोऽहमविक्रियात्मको
न मेऽस्ति कश्चिद्विषयः स्वभावतः ।
पुरस्तिरश्चोर्ध्वमधश्च सर्वतः
सुपूर्णभूमाहमितीह भावय ॥ ७४॥
अजोऽमरश्चैव तथाजरोऽमृतः
स्वयंप्रभः सर्वगतोऽहमव्ययः ।
न कारणं कार्यमतीत्य निर्मलः
सदैव तृप्तोऽहमितीह भावय ॥ ७५॥
जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ७६॥
तदेतदृचाभ्युक्तम् ॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥
ॐ सत्यमित्युपनिषत् ।
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति मुक्तिकोपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "मुक्तिकोपनिषत्", revision 333651.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.