मृत्युलाङ्गूलोपनिषत्
उपनिषद् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as मृत्युलाङ्गूलोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
अथ मृत्युलाङ्गूलं व्याख्यास्यामः । अस्य मृत्युलाङ्गूलमन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । कालाग्निरुद्रो यमश्च देवता । मृत्यूपस्थाने विनियोगः । अथातो योगजिhvaH साधुमतियोजितं स मे वाह कालं पुरुषमूर्ध्वलिङ्गं विरूपाक्षं विश्वरूपाय नमो नमः । पशुपतये नमः । य इदं शृणुयान्नित्यं मृत्युलाङ्गूलं त्रिसन्ध्यं कीर्तयति वा स ब्रह्महत्यां व्यपोहति । सुवर्णस्तेय्यस्तेयी भवति । गुरुदाराभिगाम्यगामी भवति । सर्वेभ्यः पातकेभ्य उपपातकेभ्यश्च सद्यो विमुक्तो भवति । सकृज्जप्तेनानेन गायत्र्याः षष्टिसहस्राणि फलितानि भवन्ति । अष्टौ ब्राह्मणान् ग्राहयित्वा ब्रह्मलोकमवाप्नोति । यः कश्चिन्न ददाति स श्वित्री कुष्ठी कुनखी वा भवेत् । यः कश्चिद्दीयमानं न गृह्णाति सोऽन्धो बधिरो मूको वा भवति । मृत्युमुपस्थितः षण्मासादर्वाक् । बन्धोऽयं नश्यति इत्यनेन मृत्युलाङ्गूलाख्यस्य च महामन्त्रस्य शतकृत्वो जप्तेन भगवान् धर्मराट् मम प्रीयताम् ।
ऋतं नष्टं यदा काले षण्मासेन मरिष्यति ।
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥
ऊर्ध्वलिङ्गं विरूपाक्षं विश्वरूपं नमाम्यहम् ।
सत्यं तु पञ्चमे मासे परं ब्रह्म चतुर्थके ॥
पुरुषं च तृतीये वा द्वितीये कृष्णपिङ्गलम् ॥
ऊर्ध्वलिङ्ग तु मासेन विरूपाक्षं तदर्ध ।
विश्वरूपं तृतीयेऽह्नि सद्यश्चैव नमो नमः ॥
इति मृत्युलाङ्गूलोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.