मठाम्नायोपनिषत्
उपनिषद् · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as मठाम्नायोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
ॐ ऊर्ध्वाम्नायगुरूपदेशभुवनाकारसिंहासनसिद्धाचारवन्दितं समस्तवेदवेदान्तसारनिर्माणं परात्परं निरञ्जनज्ञानार्थषट्चक्रजाग्रतीमयं परावाचा परात्परं सर्वसाक्षिधृतं चिन्मयं ज्योतिर्लिङ्गं निराकारं गळितं पूर्णप्रभाशोभितं शान्तं चन्द्रोदयनिभं भज मनस्तच्छ्रीगुरुचैतन्यं प्रणमामि ॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥
ॐ प्रथमे पश्चिमाम्नायः शारदामठः कीटवारिसंप्रदायः तीर्थाश्रमपदं द्वारकाक्षेत्रं सिद्धेश्वरो देवः भद्रकाळी देवी ब्रह्मस्वरूपाचार्यः गङ्गागोमतीतीर्थं स्वरूपब्रह्मचारी सामवेदप्रपठनं "तत्त्वमसि" इत्यादिवाक्यविचार: नित्यानित्यविवेकेनात्मनोपांस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
ॐ द्वितीये पूर्वाम्नायः गोवर्धनमठः भोगवारिसंप्रदायः वनारण्ये पुरुषोत्तमं क्षेत्रं जगन्नाथः विमला देवी भद्रपद्मपादाचार्यः महोदधितीर्थं प्रकाशब्रह्मचारी ऋग्वेदप्रपठनं तमेवैक्यं जानथ "प्रज्ञानमानन्दं ब्रह्म" इत्यादिवाक्यविचारः नित्यानित्यविवेकेनात्मनोपांस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
ॐ तृतीये उत्तराम्नायः ज्योतिर्मठः आनन्दवारिसंप्रदायः गिरिपर्वतसागरपदानि बदरिकाश्रमक्षेत्रं नारायणो देवता पूर्णगिरी देवी त्रोटकाचार्य: अलकनन्दातीर्थं आनन्दब्रह्मचारी अथर्वणवेदपठनं तमे वैक्यं जानथ "अयमात्मा ब्रह्म" इत्यादिवाक्यविचारः नित्यानित्यविवेकेनात्मनोपांस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
ॐ चतुर्थे दक्षिणाम्नायः शृङ्गेरीमठः भूरिवारिसंप्रदायः सरस्वतीभारतीपुरी चेतिपदानि रामेश्वरक्षेत्रं आदिवराहो देवता कामाक्षी देवी शृङ्गी ऋषिः पृथ्वीधराचार्यः तुङ्गभद्रातीर्थM चैतन्यब्रह्मचारी यजुर्वेदप्रपठनं तमेवैक्यं जानथ "अहं ब्रह्मास्मि" इत्यादिवाक्यविचारः नित्यानित्यविवेकेनात्मनोपांस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
ॐ पञ्चमे ऊर्ध्वाम्नायः सुमेरुमठः काशीसंप्रदायः जनकयाज्ञवल्क्यादिशुकवामदेवादिजीवन्मुक्ताः एतत्सनकसनन्दनकपिलनारदादिब्रह्मनिष्ठाः नित्यब्रह्मचारी कैलासक्षेत्रं मानससरोवरं तीर्थं निरञ्जनो देवता माया देवी ईश्वराचार्यः अनन्तब्रह्मचारी शुकदेववामदेवादिजीवन्मुक्तानां सुसंवेदप्रपठनं परोरजसेसावदों "संज्ञानमनन्तं ब्रह्म" इत्यादिवाक्यविचारः नित्यानित्यविवेकेनात्मनोपांस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
ॐ षष्ठे आत्माम्नायः परमात्मा मठः सत्यसुसंप्रदायः नाभिकुण्डलिक्षेत्रं त्रिकुटी तीर्थं हंसो देवी परमहंसो देवता अजपासोहंमहामन्त्रः ब्रह्मविष्णुमहेश्वराद्याः जीवब्रह्मचारी हंसविद उपास्तिः उपाधिभेदसंन्यासार्थं ज्ञानसंन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
ॐ सप्तमे जम्बूद्वीपः सम्यग्ज्ञानं शिखा न सूत्रं वेद्यवेदकः श्रद्धा नदी विमलातीर्थं आत्मलिङ्गशान्त्यर्थे विचारः नित्यानित्यविवेकेन आत्मनोपाMस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचिता मठाम्नायोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.