कौलोपनिषत्
उपनिषद् · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as कौलोपनिषत्
Sanskrit text from Sanskrit Wikisource.
॥ श्रीः ॥
कौलोपनिषत् ।
शन्नः कौलिकः शन्नो वारुणी शन्नः शुद्धिः शन्नो।
आग्निश्शन्नः सर्वं समभवत् । नमो ब्रह्मणे नमः पृथिव्यै नमोऽद्भ्यो
नमोऽग्नये नमो वायवे नमो गुरुभ्यः ।
त्वमेव प्रत्यक्षं सैवासि ।
त्वामेव प्रत्यक्षं तां वदिष्यामि ।
ऋतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु माम् ।
अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ।
अथातो धर्मजिज्ञासा ।
ज्ञानं बुद्धिश्च ।
ज्ञानं मोक्षैककारणम् ।
मोक्षस्सर्वात्मतासिद्धिः ।
पञ्च विषयाः प्रपञ्चः ।
तेषां ज्ञानस्वरूपाः ।
योगो मोक्षः ।
अधर्मकारणाज्ञानमेव ज्ञानम् ।
प्रपञ्च ईश्वरः ।
अनित्यं नित्यम् ।
अज्ञानं ज्ञानम् ।
अधर्म एव धर्मः ।
एष मोक्षः ।
पञ्च बन्धा ज्ञानस्वरूपाः ।
पिण्डाज्जननम् ।
तत्रैव मोक्षः ।
एतज्ज्ञानम् ।
सर्वेन्द्रियाणां नयनं प्रधानम् ।
धर्मविरुद्धाः कार्य्याः ।
धर्मविहिता न कार्य्याः ।
सर्वं शाम्भवीरूपम् ।
आम्नाया न विद्यन्ते ।
गुरुरेकः ।
सर्वैक्यताबुद्धिमन्ते ।
आमन्त्रसिद्धेः ।
मदादिस्त्याज्यः ।
प्राकट्यं न कुर्य्यात् ।
न कुर्य्यात्पशुसम्भाषणम् ।
अन्यायो न्यायः ।
न गणयेत्कमपि ।
आत्मरहस्यं न वदेत् ।
शिष्याय वदेत् ।
अन्तः शाक्तः ।
बहिः शैवः ।
लोके वैष्णवः ।
अयमेवाचारः ।
आत्मज्ञानान्मोक्षः ।
लोकान्न निन्द्यात् ।
इत्यध्यात्मम् ।
व्रतं न चरेत् ।
न तिष्ठेन्नियमेन ।
नियमान्न मोक्षः ।
कौलप्रतिष्ठां न कुर्य्यात् ।
सर्वसमो भवेत् ।
स मुक्तो भवति ।
पठेदेतानि सूत्राणि प्रातरुत्थाय देशिकः ।
आज्ञासिद्धिर्भवेत्तस्य इत्याज्ञा पारमेश्वरी ।
यश्चाचारविहीनोऽपि यो वा पूजां न कुर्वते ।
यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने ।
शन्नः कौलिकः ।
ॐ शान्तिः शान्तिः शान्तिः ।
॥ कौलोपनिषत्समाप्ता ॥
॥ इति कौलोपनिषत् ॥
स्रोतम्
http://sanskritdocuments.org/doc_upanishhat/kaula.html?lang=sa
Sanskrit Wikisource, page "कौलोपनिषत्", revision 410836.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.