🪷

कात्यायनोपनिषत्

Katyayanopanishat

उपनिषद् · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as कात्यायनोपनिषत्

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

अक्षर का आकार

अथ प्रणिपत्य कात्यायनो ब्रह्माणमन्वयुङ्क्त । अधीहि भगवः किं पवित्राणां पवित्रम् । केन वा कर्मणा सफलानि । किं दुष्करं तपो मर्त्यानाम् । केन सुकरेणामृतत्वमेति । स होवाच । साधु ते सुयोगः शृणु ।भो पवित्रं सुलभं सुकरम् । यद्विष्णुक्षेत्रम् । तत्र मृत्स्नां श्वेतां "उद्धृतासि इत्युद्धरेत् । अमृतमेव श्वेतमृत्स्ना भवति । तां शुद्धजलेन प्रणवेन घर्षयेत् । देवपितृकर्माण्यारभमाणस्तया नित्यमूर्ध्वपुण्ड्रं बिभृयान्मन्त्रैः केशवादीनाम् । तद्रहितं कर्म निष्फलं रक्षांसि गृह्णीयुः । तदेवमभ्युक्तं भवति । नासादिकेशान्तमूर्ध्वपुण्ड्रं विष्णोः स्थितस्य चरणद्वयाकृति । एकाङ्गुलं पादतरोरस्य मूलम् । तदुत्पन्ने द्वे शाखे । तदेव च मध्याकारोऽङ्गुलादन्यूनः । स श्रीः प्रतिष्ठायै । श्रीर्हरिद्रा । यतो हरिं द्रावयति तच्छ्रीचूर्णM श्रियावधृतं आदित्यवर्णM श्रीफले धारयेत् । तज्जलेन श्रीबीजेन संमृज्य तत्सूक्ष्मरेखां धारयेत् । स श्रीमान् भवति । ते द्वे शाखे हंसवर्णे गायत्रीत्रिष्टुप्छन्दसी आत्मपरमात्मदैवत्ये दर्शपूर्णमासिके इष्टापूर्तक्रिये भुक्तिमुक्तिफले । सा रेखा श्रीवर्णा । गायत्री छन्दः । आनन्दक्रियामृतत्वफला । अयमूर्ध्वपुण्ड्रविधिः । एवं विदित्वा यो धारयति स सर्वकर्मार्हो भवति । कायिकात्पूतो भवति । स विष्णुसायुज्यमवाप्नोति स विष्णुसायुज्यमवाप्नोति । य एवं वेद । इत्युपनिषत् ॥

इति कात्यायनोपनिषत् समाप्ता

स्रोत · Source

अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#anya-upanishadah

सम्बन्धित पाठ · Related reading

और उपनिषद्पुस्तकालय