🪷

कामराजकीलितोद्धारोपनिषत्

Kamarajakilitoddharopanishat

उपनिषद् · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as कामराजकीलितोद्धारोपनिषत्

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

अक्षर का आकार

कामराजकीलितोद्धारोपनिषत्

अथोवाच कामराजम् । तदुपासनात् कुशलं लभेत् । श्रियं लभेत् । गुर्वीं वाणीं लभेत । सर्वयुवतीनां प्रियो भवेत । प्रथमं कामस्ततः शक्तिस्तदनु तुरीयं द्वावेतौ परैतानि पञ्चाक्षराणि भवन्ति । ततः शुन्यं च द्वौ दिवाकरहरौ । तदनु गोत्रभृन्माया । एतानि षडक्षराणि भवन्ति । ततश्चन्द्रः प्रजापतिशक्रौ । ततो माया । एतानि चतुरक्षराणि भवन्ति । आद्यं वाग्भवं द्वितीयं कामराजं तृतीयं शक्तिबीजं शुक्लं तरुणदिवाकराभं शशिकान्तं क्रमेण स्मरेत् । कफारादित्वात्कीलिता । कोटिजपात् सिद्धिर्न जायते । यदा मन्मथकलादिर्भवति तदा निष्कीलिता भवेत् । सिद्धिदा भवेत् । सा वीर्यवती भवेत । त्रैलोक्यं वशमानयेत । पूजनाद्दौर्भाग्यनाशो भवेत् । जपात् सिद्धीश्वरो भवेत । इति शिवम् ।

अथाद्यं शाम्भवं द्वितीयं शाक्तं चेति गुरुमुखाt ज्ञातव्यम् । अन्यथा शापमाप्नुयात् । उपासना द्विविधा । शाम्भवं शाक्तं चेति । एवं लोपनाlloपा । प्रथमं शंभुचन्द्rau । तदनु दिवाकरेन्द्रौ । ततः पराbIजं वाग्भवम् । ततः कामराजं शिवचन्द्रकामशम्भुहरयः । पराbIजं शक्तिः । कामपरामध्ये देवराजमेतच्छक्तिkUटम् । एतेन पञ्चदशाक्षराणि भवन्ति । शम्भुप्रधानत्वाच्छाम्भवम् । पूर्णोऽहं शिवोऽहमद्वैतरूपोऽहं नित्यानन्दरूपोऽहं इति स्मरत् । नापि पूजायां व्रतनियमः । सर्वदा जपं चreत् । विnoदतः कामिनीमध्ये कामि नीर्दृष्ट्vA च सदानन्दरूपो भवेत् । दिव्याङ्गराgairदेहं भूषयेt सुगन्धमाल्याम्बरालङ्काराद्यैः । मांसाद्यैः शुद्dhaiH सुमधुरैर्भोजयेत् । मपञ्चkeन पूजा कार्या सदा कौलिको भवेत् । कुलाचारात् सर्वसिद्धीश्वरो भवेt । एकाकी शक्तियुक्तो भवेत् । मादनं भुक्त्वा शक्तिभुग्भवेत् । शक्तिचक्रं पूजयेत् ।

भोगेन मोक्षमाप्नुयाt । शक्तिहर्षोत्पादनाच्छक्तिः प्रीता भवति । इति शिवम् ॥ २ ॥

अथ चकुलैरर्चयेत् । रक्तपुष्पैरर्चयेत् । तदभावे जlaiस्तदभावे मानसीं भक्तिमाचreत् । इति शिवम् ॥ ३ ॥

इत्याथर्वणशाखायां कामराजकीलितोद्धारोपनिषत् समामा

स्रोत · Source

अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#anya-upanishadah

सम्बन्धित पाठ · Related reading

और उपनिषद्पुस्तकालय