जाबालोपनिषत्
उपनिषद् · Sanskrit · ⏱ 3 min
अन्य नाम · Also known as जाबालोपनिषत्
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.
जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।
वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव । इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥ अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति तस्मादविमुक्तमेव निषेवेत अविमुक्तं न विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः ॥ १ ॥
इति प्रथमः खण्डः ।
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति ॥ स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽन-न्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासीति सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नासी भवतीति ॥ कतमच्चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः संधिः स एष द्यौर्लोकस्य परस्य च संधिर्भवतीति ॥ एतद्वै संधिं संध्यां ब्रह्मविद उपासत इति सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वै तदेतदेवं वेदेति ॥ २ ॥
इति जाबालोपनिषत्सु द्वितीयः खण्डः ॥ २॥
अथ हैनं ब्रह्मचारिण ऊचुः किं जाप्येनामृतत्वं ब्रूहीति ॥ स होवाच याज्ञवल्क्यः शतरुद्रियेणेत्येतानि ह वा अमृतनामधेयान्येतैर्ह वा अमृतो भवतीति ॥ एवमेवैतद्याज्ञवल्क्यः ॥ ३ ॥
इति जाबालोपनिषत्सु तृतीयः खण्डः ॥ ३ ॥
अथ ह जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन् संन्यासमनुब्रूहीति ॥ स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत् ॥ यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ॥ अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वा उत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ॥ तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति ॥ तदु तथा न कुर्यादाग्नेयीमेव कुर्यात् ॥ अग्निर्ह वै प्राणः प्राणमेवैतया करोति पश्चात्त्रैधातवीयामेव कुर्यात् ॥ एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ॥ अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ॥ तं जानन्नग्न आरोहाथा नो वर्धय रयिम् इत्यनेन मन्त्रेणाग्निमाजिघ्रेत् ॥ एष वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ स्वाहेत्येवमेवैतदाह ॥ ग्रामादग्निमाहृत्य पूर्ववदग्निमाघ्रापयेत् ॥ यद्यिग्निं न विन्देदप्सु जुहुयात् ॥ आपो वै सर्वां देवताः । ॐ सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वा समुद्धृत्य प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रस्त्रय्येवं विन्देत् ॥ तद्ब्रह्मैतदुपासितव्यम् ॥ एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥ ४ ॥
इति जाबालोपनिषत्सु चतुर्थः खण्डः ॥ ४॥
अथ हैनमत्रिः पप्रच्छ ॥ याज्ञवल्क्य पृच्छामि त्वा याज्ञवल्क्य अयज्ञोपवीती कथं ब्राह्मण इति ॥ स होवाच याज्ञवल्क्य इदमेवास्य तद्यज्ञोपवीतं य आत्मा प्राश्याचम्यायं विधिः परिव्राजकानाम् ॥ वीराध्वाने वाडनाशके वाऽपांप्रवेशे वाऽग्निप्रवेशे वा महाप्रस्थाने वाऽथ परिब्राड् विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति ॥ यथातुरः स्यान्मनसा वाचा वा संन्यसेत् ॥ एष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्म विदित्येवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥ ५ ॥
इति जाबालोपनिषत्सु पञ्चमः खण्डः ॥ ५ ॥
तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेयरैवतकप्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तस्त्रिदण्डं कमण्डलुं शिक्यं पात्रं जलपविन्नं शिखां यज्ञोपवीतं चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥ यथा जातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्तत्वब्रह्ममार्गे सम्यक्संपन्नः शुद्धमानसः प्राणसंधारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेष्वनिकेतवास्यप्रयत्नो निर्ममः शुक्रुध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नाम स परमहंसो नामेति ॥ ६ ॥
इति जाबालोपनिषत्सु षष्ठः खण्डः ॥ ६ ॥
ॐ पूर्णमद इति शान्तिः ॥
इत्यथर्ववेदे जाबालोपनिषत्समाप्ता ॥ १४ ॥
ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.