इतिहासोपनिषत्
उपनिषद् · Sanskrit · ⏱ 11 min
अन्य नाम · Also known as इतिहासोपनिषत् · Itihasopanishat
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
ॐ वृषादर्विकुलꣳ ह वै शिबिकुलं बभूव । तस्यायमितिहासः कुलविद्या बभूव । तद्यो ह स्मेममधीते स ह स्मै राजा भवति । स किंचित्प्राप्यान्तर्हितः । सोऽब्रवीत् । यो मामितिहासं ग्राहयेत् । वरमस्मै दद्यामिति । ततो ब्राह्मणः संयोगं संयुयुजे । तमादित्यात् पुरुषो भास्करवर्णो निष्क्रम्य स एनं ग्राहयाञ्चकार । तमपृच्छत् । कोऽसीति वा वृषादर्विरिति । तस्माद्य इममितिहासमधीते । आदित्यलोके स कामचारो भवति । तस्माद्य इममितिहासमुपनीतो माणवको गृह्णीयात् । गृहीत्वाऽथ ब्राह्मणाञ्छ्रावयेत् । मेधावी भवेत् । वर्षशतं च जीवेत् । षडङ्गं च वेदमवाप्नुयात् । तस्माद्य इममितिहासं पठन् पितृभ्य उदकाञ्जलिं दद्यात् । अपूपकूला नद्यः सर्पिष्पायसकर्दमा उपतिष्ठेरन् । तस्माद्य इममितिहासं पठन् पितृभ्यः श्राद्धं दद्यात् । तद्यथा स्थूलया गयाश्राद्धं कृतं भवेत् । स्वधा सह पितॄणाम् । एवमस्य पितॄणामनन्ता तृप्तिर्भवति । य एवं वेद । सोऽयमितिहासः धन्यः पुण्यः पुत्रीयः पशव्य आयुष्यः स्वर्ग्यः । सार्वकालिकसर्वभयप्रमोक्षणः । नाधिभ्यो भयं भवति । न चोरेभ्यः । न रक्षोभ्यः । नाध्वनि प्रमीयते । नाप्सु प्रमीयते । नाग्नौ प्रमीयते । नाप्सु न शस्त्रेण वध्यते । नानपत्यः प्रमीयते । सायं प्रयुञ्जानो दिवसकृतं पापं नाशयति । प्रात: प्रयुञ्जानो रात्रिकृतं पापं नाशयति । सायंप्रातः प्रयुञ्जानः पापोऽपापो भवति । पापभाजो हि श्रोतॄणामनसूयावतां पापाꣳश्चापक्रामन्ति । एकशतं चान्ये साधव आगमाः । एतावती परिभाषा । अत ऊर्ध्वं विद्यात् ।
जिह्वा रसं विजानाति हृदयं वेदयत् प्रियम् ।
चक्षुर्दिष्टः साक्षिभागो मनसा साधु पश्यति ॥
मनसा वाचं नयति चक्षुषा मीयते जगत् ।
भूतस्य कर्णौ श्रोतारावन्नं प्राणेन संमितम् ॥
अन्नं प्राणो वृषादर्विः पर्जन्यो दत्तवान्महत् ।
अग्निश्च हव्यवाहनस्तदिदं गाव इद्धविः ॥
वित्तं बन्धुः प्रजातन्तुः कर्मरूपं बृहत्सखा ।
प्रज्ञा प्रतिष्ठा तन्तूनामिष्टापूर्तेः परायणम् ॥
सत्यं वदन्त्यनृतमुद्वहन्ति क्षीरं पिबन्ति मधु ते पिबन्ति ।
सोमं पिबन्त्यमृतेन सार्धं मृत्योः परस्तादमृता भवन्ति ॥
ये ब्राह्मणा ब्रह्मचर्यं चरन्त्यथो खल्वाहुर्वेदसंमितोऽयमितिहासः ॥
धर्मं चरति नाधर्मं सत्यं वदति नानृतम् ।
दीर्घं पश्यति मा ह्रस्वं परं पश्यति माऽपरम् ॥
ऋचो ह यो वेद स वेद देवान् यजूंषि यो वेद स वेद यज्ञम् ।
सामानि यो वेद स वेद सर्वं यो मानसं वेद स वेद ब्रह्म ॥
यः क्रौद्धव्येन क्रुद्धस्तिष्ठति सोऽतिवाचं च दीक्षयति । योऽतिवाचं नयति स वै सर्वं द्विजः खलु मानसं वेदेति नः श्रुतम् ॥
तपोऽवधिः परमा ब्राह्मणस्य श्रद्धा माता पितरंसत्यमाहुः ।
योग आत्मा चरणमस्य बन्धुर्दमः प्रतिष्ठा विदुषो न भूमिम् ॥
दुःखं जन्म जरा दुःखं दुःखं मृत्युः पुनः पुनः ।
संसारमण्डलं दुःखं पच्यन्ते यत्र जन्तवः ॥
यो ब्राह्मणः पापकृत् मन्त्रकृच्च स जीवति ।
ब्रह्मण्यो ब्रह्मकृच्छश्वत् ब्रह्मलोके महीयते ॥
तृणानि हीच्छन्ति कुशत्वमेव वृक्षा यूपत्वं पशवश्च गोत्वम् ।
सर्वाः प्रजा ब्राह्मणत्वं नरेन्द्र न ब्राह्मणत्वात् परमस्ति किञ्चित् ॥
शताहावशतशरः शतशक्रऋजीषिणाम् । शतं ब्रह्म तपस्विनां कूपोऽरण्यस्य तिष्ठति ॥
ऋतेनापिहिता गुहा श्रुतेनापिहिता गुहा ।
स्मृतेनापिहिता गुहा शमेनापिहिता गुहा ॥
दमेनापिहिता गुहा सत्येनापिहिता गुहा ।
आत्मनापिहिता गुहा ब्रह्मणापिहिता गुहा ॥
ब्रह्मन्निधिं मनसा वेदयन्तः पश्यन्तो गुह्यमपरं परं च ।
अnaध्वगा अध्वसु पारयिष्णvaH ब्राह्मणास्तु सदृशाः सूर्येण ॥
यः च्छ्राद्धानि कुरुतेऽसंगतानि न देवयानेन पथा स याति ।
परिमुक्तं पिप्पलं बन्धनादिव स्वर्गाल्लोकाच्च्यवतेऽश्राद्धमित्रः ॥
यो यज्ञस्य प्रसाधनः तन्तुर्देवेSvAहुतः । तमाहुतमशीमहि । नावेदविन्मनुतेदं बृहन्तम् । सर्वानुभुमात्मानꣳसंपराये । एष नित्यो महिमा ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेन ॥
अग्निहोत्रं बलीवृद्धाः काले चातिथिरागतः ।
बालाश्च कुलवृद्धाश्च निर्दहन्त्यवमानिताः ॥
संभोजनी नाम पिशाचभिक्षा नैषा पितॄन् गच्छति नोत देवान् ।
इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ॥
शूद्रायां सृजते रेतः श्राद्धं भुक्त्वाऽथ यो द्विजः ।
स शूद्रयोनिसञ्छिन्नं रेतसा सिञ्चते पितॄन् ॥
यः काममोहितः शूद्र्यां पुत्रमुत्पाद्यते द्विजः ।
यावदुत्पाद्यते भूमौ तावत्तिष्ठेत् सुदारुणे ॥
अश्रोत्रियं ब्राह्मणं भोजयानस्य षोडश श्राद्धानि पितरो न भुञ्जते ।
ततो निराशाः पितरो भवन्ति सेन्द्राः स्म देवाः प्रहरन्ति वज्रम् ॥
यावतः खलु पिण्डान् स प्राश्नन्ति हविषो नृचः ।
तावत: शूलान् ग्रसति प्राप्य वैवस्वतं यमम् ॥
छिन्दन्ति दातृहस्तं च जिह्वाग्रमितरस्य च ।
मन्त्रपूतं तु यच्छ्राद्धममन्त्राय प्रयच्छति ॥
नियुक्तस्तु यतिः श्राद्धं देवे वा मांसमुत्सृजेत् ।
यावन्ति पशुरोमाणि तावन्नरकमृच्छति ॥
यथेरिणे बीजमुप्तं नरेन्द्र नास्य वप्ता लभते बीजभागम् ।
एवं श्राद्धमप्रतिष्ठितं विनश्यति ॥
श्राद्धं दत्त्वा च भुक्त्वा च सङ्गमं न समाचरेत् ।
पितरस्तस्य तन्मासं भवन्ते रेतभोजनाः ॥
श्राद्धं दत्त्वा च भुक्त्वा च सपङ्क्तिः सहभोजनम् ।
षण्मासान् पितरोऽश्नन्ति कर्तुरुच्छिष्टभोजनम् ॥
श्राद्धं भुक्त्वा पुनः श्राद्धं भुञ्जीयाल्लोभमोहितः ।
नष्टं भवति तच्छ्राद्धं रौरवं नरकं व्रजेत् ॥
श्राद्धं दत्त्वा च भुक्त्वा च भारमुद्वहते द्विजः ।
पितरस्तस्य तन्मासं भवन्ते भारपीडिताः ॥
श्राद्धं दत्त्वा च भुक्त्वा च अध्वानं योऽधिगच्छति ।
पितरस्तस्य तन्मासं भवन्ते पांसुभोजनाः ॥
अनग्निकस्य वेदोऽग्निर्वेदहीनोऽप्यनग्निकः ।
साग्निकोऽप्यनधीतः स्यात् स एषोऽनग्निकः स्मृतः ॥
सामान्यवेदान्त-उपनिषदः
स्त्रीशूद्रबालिशादिभ्य उच्छिष्टं न प्रदापयेत् ।
यदि दद्यात् प्रमादेन न तद्गच्छति तान् पितॄन् ॥
आहिताग्निः सदा पात्रं सदा पात्रं तु वेदवित् ।
पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥
पुनर्भोजनमध्वानं भाराध्ययनसङ्गमम् ।
दानं प्रतिग्रहं होमं श्राद्धभुक्चाष्ट वर्जयेत् ॥
दन्तधावनताम्बूलं नखकेशनिकृन्तनम् ।
कर्ता चैव तु पूर्वेद्युर्भोक्ता चैव परेऽहनि ॥
दन्तधावनताम्बूलं क्षौराभ्यङ्गनभोजनम् ।
रत्यौषधपरान्नं च श्राद्धकर्ता विवर्जयेत् ॥
श्राद्धकर्ता परश्राद्धं यस्तु भुञ्जीत लोलुपः ।
नष्टं भवति तच्छ्राद्धं रौरवं नरकं व्रजेत् ॥
निमन्त्रितेऽध्वानगते पुनर्भुक्त्वा तु वायसम् ।
करोति कर्म यत् गृध्रः ग्रामसूकरसङ्गमात् ॥
प्रतिग्रहेषु दारिद्र्यं दानं निष्फलमेव च ।
होमे तु कुष्ठरोगी स्यात् स्वाध्यायैर्मृत्युमाप्नुयात् ॥
यस्यानृचस्तु भुङ्क्ते तस्य विद्धि ब्रह्मैव वित्तं पुरुषस्य केवलम् । धर्मः स्वधायां चरते ददाति च सत्यं रसः स्वादुतमो रसानाम् । सत्यं श्रैष्ठ्यं व्याहृतीनां तथैव प्रज्ञानं सप्तमं जीवनानाम् ॥
ब्राह्मणातिक्रमो नास्ति मूर्खो मन्त्रं विवर्जयेत् ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥
यः शतं च सहस्राणां सहस्रं श्राद्ध आचरेत् ।
एकस्मान्मन्त्रवित् पूतः सर्वमर्हति ब्राह्मणः ॥
ब्राह्मणानां सहस्रेषु भुक्त्वा तु नव सप्त च ।
भवन्ति ज्ञायिके भूत्वा ध्यायिके च न संशयेत् ॥
कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते ।
कुलं तारयते तेषां दशपूर्वां दशापराम् ॥
ब्राह्मणो द्विपदां वरः । चतुष्पदां गौरुत्तमा । लोहानां काञ्चनं वरम् । तिलेषु तैलं दधिनीव सर्पिः । यदापस्स्रोतस्सरण्योरिवाग्निः । एवमात्मात्मनि जायते ॥
सत्येनैनं मनसा साधु पश्यति सत्येनैनं मनसा वाचं नयति ॥
प्राङ्मुखाश्च सुरा हव्यं पितरश्चाप्युदङ्मुखाः ।
प्रतिगृह्णन्ति संबाधमग्निना ब्राह्मणेन च ॥
वेदाध्यायीति यो विप्रः सततं ब्राह्मणः स्थितः ।
साचार: साग्निहोत्री च सोऽग्निर्वै कव्यवाहनः ॥
विकिरं प्रकिरं दद्याद्विकिरं ह वै प्रकिरं भुञ्जीत । तृप्तिरूपाणि दर्शयन् ॥
परिश्रिते त्वेव दद्याद्ध्लीका हि पितरः स्मृताः ।
क्रव्यादाः पितरस्सर्वे तिलज्योतिर्धृतप्रियाः ॥
देशकालपात्रमन्त्राष्टशौचप्साः कृष्णपक्षक्षयोत्सवाः ॥
उच्छिष्टं शिवनिर्माल्यं वमनं मृतकर्पटम् ।
श्राद्धे सप्त पवित्राणि दौहित्रः कुतपस्तिलाः ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्सराः ॥
दिवसस्याष्टमे भागे यदा मन्दायते रविः ।
स कालः कुतंपो नाम पितॄणां दत्तमक्षयम् ॥
आरभ्य कुतपे श्राद्धं कुर्यादारोहणं बुधः ।
विधिज्ञा विधिमास्थाय रौहिणीं नैव लङ्घयेत् ॥
रौहिणीं लङ्घयेद्यस्तु ज्ञानादज्ञानतोऽपि वा ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥
यातुधानाश्च रक्षांसि पिशाचा असुरास्तथा ।
एते हरन्ति वै श्राद्धं दैवं यत्र निवर्तयेत् ॥
राक्षसं भवति श्राद्धं दैवं यत्र निवर्तयेत् ।
तत्र रक्षांसि पैशाचा न च विद्वेष्टि यो जनः ॥
पुरो देवाः प्रपद्यन्ते पश्चाद्दैवं विसर्जयेत् ।
पक्षैस्तु कुक्कुटो हन्ति निकर्षेण तु सूकरः ।
आगतं गतया श्वानं चक्षुषा वृषळीपतिः ॥
यस्य देशं न जानाति नामगोत्रे त्रिपूरुषम् ।
कन्यादानं पितृश्राद्धं नमस्कारं च वर्जयेत् ॥
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः ॥
अष्टवर्षा भवेत् कन्या नववर्षा तु रोहिणी ।
दशवर्षा भवेत् गौरी ह्यत ऊर्ध्वं रजस्वला ॥
पितृगेहेषु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषळी नाम तत्पतिर्वृषळीपतिः ॥
वृषळीपतिभुक्तानि श्राद्धानि च हवींषि च ।
पितरो न प्रतिगृह्णन्ति दाता स्वर्गं न गच्छति ॥
महिषीत्युच्यते भार्या भगेनोपार्जितं धनम् ।
तद्द्रव्यमुपजीवन् यः स वै माहिषिकः स्मृतः ॥
समर्घं धनमुद्धृत्य महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥
अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषळीपतिम् ।
अन्ते वार्धुषिकं दृष्टा निराशाः पितरो गताः ॥
श्वित्री कुष्ठी तथा चैव कुनखी श्यावदन्तकः ।
रोगी हीनातिरिक्ताङ्गः काणः पंगुः पुनर्भवः ॥
अवकीर्णी कुण्डगोळावायुधी परदारगः ।
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ॥
मित्रध्रुक् पिशुनश्चैव विक्रयी वेदनिन्दकः ।
मातापितृगुरुत्यागी कुण्डाशी वृषळात्मजः ॥
परपूर्वापरस्तेन शूद्रजः श्राद्धकर्मणि ।
रजस्त्रीसंगमी चैव परोपद्रवकारिणः ॥
देवब्राह्मणघाती च तेषां द्रव्यापहारिणः ।
एते गुणा न वक्तव्या: श्राद्धकर्मबहिष्कृताः ॥
भ्रातन्वा भोजयेच्छ्राद्धं पुत्रं वाऽपि गुणान्वितम् ।
आत्मा च वाऽपि भुञ्जीत न विप्रं वेदवर्जितम् ॥
तेभ्यः श्राद्धं तु दत्तं चेत्तच्छ्राद्धं निष्फलं भवेत् ।
निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः ॥
मदमोहेन यः शूद्र्यां पुत्रमुत्पाद्यते द्विजः ।
यावत्तिष्ठेत् स वै भूमौ तावत्तिष्ठेत् सुदारुणे ॥
क्षीरं वा दधि वा तैलं तक्रमाज्यं मधूनि च ।
एतेषां विक्रयी विप्रो रौरवं नरकं व्रजेत् ॥
यावदुष्णं भवत्यन्नं तावद्भुञ्जीत वाग्यतः ।
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥
हविर्गुणा न वक्तव्याः पितरो यावदर्पिताः ।
तृप्तैस्तु पितृभिः पश्चाद्वक्तव्यं शोभनं हविः ॥
य इमां देवीमिह वेद सर्वं
सर्वेषु भूतेषु प्रतिष्ठितानाम् ।
सती नैनं पश्यन्ति हृदयं न शोकाः
न पुत्रदाराः पशुचोदमाहितम् ॥
अपां रसो मधुनस्सर्पिषश्च क्षीरस्य चान्नस्य च संस्थितस्य ।
एते रसानां सरसेन श्राद्धं प्राप्नुवन्ति वाग्यतानां संयुतानाम् ॥
उदेहि सूर्यं वरं वृणीष्वेति राजोवाच पञ्चेमानि रत्नानि गौर्मेऽजस्रं दुह्यति । हविर्मेऽजस्रं विलूहति । त्विषिर्मेऽजस्रं पिनष्टि । रथो मे सर्वान् समुद्रान् संयाति । आदित्यवर्णे इमे मणिकुण्डले इति । अथो ह्येवमेवैषामेकं वृणीष्वेति । ब्राह्मण उवाच । यावत्संपृच्छसीति भार्यां समपृच्छत् । हविर्गृहाणेति भार्योवाच । पुत्रं समपृच्छत् । रथं गृहाणेति पुत्र उवाच । कन्यां समपृच्छत् । मणिकुण्डले इति कन्योवाच । दासीं समपृच्छत । दृषदं गृहाणेति दास्युवाच । अनुपेत्योवाच हविर्भार्या रथं पुत्रः कन्या मणिकुण्डले दासी दृषदमिच्छति । गामहं शिबिसप्तमे इति । सर्वाण्येवमेवैनं ददामीति होवाच वृषादर्विस्तदिदमितिहासो ब्रह्मादित्यः पुरोगाय । पुरोगः काश्यपाय । काश्यपो भरद्वाजाय । भरद्वाजः बहुभिः अनेकमहाराजाय । ततः प्रच्य . . . . धनपतेर्द्विजः ब्राह्मणकुले जातस्म . . . . भवति ॥
सप्तजन्मकृतात्पापान्मुच्यते यस्तु पर्वभिः ।
कन्यागते यदा सूर्ये तिष्ठन्ति पितरो गृहे ॥
दिने दिने गयातुल्यं भरण्यां गयपञ्चके ।
दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः ॥
द्वादश्यां शतमित्याहुरमावास्यां सहस्रकम् ।
अश्वयुक्छुक्लपक्षस्य द्वितीयामयुतं फलम् ॥
अन्नेन वाऽथवा येन शाकमूलफलेन वा ।
तस्मात् सर्वप्रयत्नेन कुर्याच्छ्राद्धं महालयम् ॥
शून्या प्रेतपुरी तत्र यावद्वृश्चिकदर्शनात् ।
वृश्विका दर्शनं यान्ति निराशाः पितरो गताः ॥
ततः स्वभवनं यान्ति शापं दत्वा सुदारुणम् ।
अहोवन्नवाच्यमिति केचित् पितरो वदन्ति ॥
अपुत्राश्चैवापशवो लोके सन्ति च निन्दिताः ।
रौरवे नरके घोरे यावदाभूतसंप्लवात् ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाऽश्वमेधं वा लीलं वा वृषमुत्सृजेत् ॥
श्वेतः खुरविषाणाभ्यां मुखे पुच्छे च पाण्डुरम् ।
रोहितो यस्तु वर्णेन स लीलो वृष उच्यते ॥
गौरीं वा वरयेत् कन्यां चरेद्वा श्रवणे . . . . न्ति जपति ॥
अथ संहितायां फलमवाप्नोतीत्याह भगवान् ब्रह्मा । अष्टौ ब्राह्मणान् सम्यक् ग्राहयेन्मेधावी भवेत् । वर्षशतं च जीवेत । षडङ्गं च वेदमवाप्नुयात् ॥
वृद्धो वसूनि पुरोवाच पुत्रेभ्यः परमं निधिम् ।
एतद्वो धनमार्याणां मन्त्राश्चैव व्रतानि च ॥
नमो नमश्च मन्त्राश्च व्रतानि च नमो नमः ।
एतत् सकलं ब्रह्मप्रणवस्तुतिः काण्वशाखे पारयेति ॥
इति इतिहासोपनिषत् संपूर्णा
श्राद्धकाले विशेषेण पितॄणां दत्तमक्षयम् ।
मनोजव आयमानो आया . . . . तरत्परम् ॥
दिवं सुपर्णं गत्वा या सोमं व . . . . महत् ।
सुपर्णोऽसि गरुत्मान् दिवं गच्छ सुवः पत ॥
यस्तिलज्योतिस्त्रिंशत् वृषादर्विसुवः पत ॥
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.