हयग्रीवोपनिषत्
उपनिषद् · Sanskrit · ⏱ 3 min
अन्य नाम · Also known as हयग्रीवोपनिषत्
Sanskrit text from Sanskrit Wikisource.
स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् ।
सोऽयं हयास्यो भगवान्हृदि मे भातु सर्वदा ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥ नारदो ब्रह्माणमुपसमेत्योवाचाधीहि भगवन्
ब्रह्मविद्यां वरिष्ठां यया चिरात्सर्वपापं व्यपोह्य
ब्रह्मविद्यां लब्ध्वैश्वर्यवान्भवति ।
ब्रह्मोवाच
हयग्रीवदैवत्यान्मन्त्रान्यो वेद स श्रुतिस्मृतीतिहासपुराणानि वेद ।
स सर्वैश्वर्यवान्भवति ।
त एते मन्त्राः ।
विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे ।
तुभ्यं नमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः ॥ १ ॥
ऋग्यजुःसामरूपाय वेदाहरणकर्मणे ।
प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा स्वाहा नमः ॥ २ ॥
उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर ।
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय स्वाहा स्वाहा नमः ॥ ३ ॥
ब्रह्मात्रिरविसवितृभार्गवा ऋषयः ।
गायत्रीत्रिष्टुबनुष्टुप् छन्दांसि ।
श्रीमान् हयग्रीवः परमात्मा देवतेति ।
ल्हौमिति बीजम् ।
सोऽहमिति शक्तिः ।
ल्हूमिति कीलकम् ।
भोगमोक्षयोर्विनियोगः ।
अकारोकारमकारैरङ्गन्यासः ।
ध्यानम् ।
शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतुर्भुजम् ।
संपूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ॥
ॐ श्रीमिति द्वे अक्षरे ।
ल्हौमित्येकाक्षरम् ।
ॐ नमो भगवत इति सप्ताक्षराणि ।
हयग्रीवायेति पञ्चाक्षराणि ।
विष्णव इति त्र्यक्षराणि ।
मह्यं मेधां प्रज्ञामिति
षडक्षराणि, प्रयच्छ स्वाहेति पञ्चाक्षराणि ।
हयग्रीवस्य तुरीयो भवति ॥ ४ ॥
ॐ श्रीमिति द्वे अक्षरे ।
ल्हौमित्येकाक्षरम् ।
ऐमैमैमिति त्रीण्यक्षराणि ।
क्लीं क्लीमिति द्वे अक्षरे ।
सौः सौरिति द्वे अक्षरे ।
ह्रीमित्येकाक्षरम् ।
ॐ नमो भगवत इति सप्ताक्षराणि ।
मह्यं मेधां प्रज्ञामिति षडक्षराणि ।
प्रयच्छ स्वाहेति पञ्चाक्षराणि ।
पञ्चमो मनुर्भवति ॥ ५ ॥
हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि ।
ब्रह्मा महेश्वराय महेश्वरः संकर्षणाय संकर्षणो नारदाय
नारदो व्यासाय व्यासो लोकेभ्यः प्रायच्छदिति
हकारोंसकारोमकारों त्रयमेकस्वरूपं भवति ।
ल्हौ बीजाक्षरं भवति ।
बीजाक्षरेण ल्हौं रूपेण तज्जापकानां संपत्सारस्वतौ भवतः ।
तत्स्वरूपज्ञानां वैदेही मुक्तिश्च भवति ।
दिक्पालानां राज्ञां नागानां किन्नराणामधिपतिर्भवति ।
हयग्रीवैकाक्षरजपशीलाज्ञया सूर्यादयः स्वतः स्वस्वकर्मणि प्रवर्तन्ते ।
सर्वेषां बीजानां हयग्रीवैकाक्षरबीजमनुत्तमं मन्त्रराजात्मकं
भवति ।
ल्हौं हयग्रीवस्वरूपो भवति ।
अमृतं कुरुकुरु स्वाहा ।
तज्जापकानां वाक्सिद्धिः श्रीसिद्धिरष्टाङ्गयोगसिद्धिश्च भवति ।
अगम्यागमनात्पूतो भवति ।
पतितसंभाषणात्पूतो भवति ।
ब्रह्महत्यादिपातकैर्मुक्तो भवति ।
गृहं गृहपतिरिव देही देहान्ते परमात्मानं प्रविशति ।
प्रज्ञानमानन्दं ब्रह्म
तत्त्वमसि अयमात्मा ब्रह्म अहं ब्रह्मास्मीति महावाक्यैः
प्रतिपादितमर्थं त एते मन्त्राः प्रतिपादयन्ति ।
स्वरव्यञ्जनभेदेन द्विधा एते ।
अथानुमन्त्राञ्जपति ।
यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ १ ॥
गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ २ ॥
ओष्ठापिधाना नकुली दन्तैः परिवृता पविः ।
सर्वस्यै वाच ईशाना चारु मामिह वादयेति च वाग्रसः ॥ ३ ॥
ससर्परीरमतिं बाधमान बृहन्मिमाय जमदग्निदत्त ।
आसूर्यस्य दुरिता तनान श्रवो देवेष्वमृतमजुर्यम् ॥ ४ ॥
य इमां ब्रह्मविद्यामेकादश्यां पठेद्धयग्रीवप्रभावेन महापुरुषो भवति ।
स जीवन्मुक्तो भवति ।
ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः
श्रुतं माच्योढ्वं ममामुष्य ओमित्युपनिषत् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
अथ हयग्रीवोपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "हयग्रीवोपनिषत्", revision 100779.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.