गायत्र्युपनिषत्
उपनिषद् · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as गायत्र्युपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
ॐ भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हास्या एतत्स यावदेतेषु लोकेषु तावद्ध जयति । योऽस्या एतदेवं पदं वेद ऋचो यजूंषि सामानीत्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेदु हास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति । योऽस्या एतदेवं पदं वेद प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एक गायत्र्यै पदमेतदु हास्या एतत्स यावदिदं प्राणिति तावद्ध जयति । योऽस्या एतदेवं पदं वेदाथास्या एतदेव तुरीयं दर्शितं पदं परोरजाय एष तपतीति यद्वै चतुर्थं तत्तुरीयं दर्शितं पदमिति ददर्श इव ह्येष परोरजा इति सर्वमु ह्येष रज उपर्युपरि तपत्येवं ह वा एष श्रिया यशसा तपति । योऽस्या एतदेवं पदं वेद सैषा गायत्री एतस्मिंस्तुरीयं दर्शितं पदे परोरजसि प्रतिष्ठिता तद्वै सत्सत्ये प्रतिष्ठितं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातां अहमद्राक्षमहमश्रौषमिति । य एव ब्रूयादहमद्राक्षमिति तस्या एव श्रद्धव्या य एतद्वै तत् सत्यं बले प्रतिष्ठितं तस्मादाहुर्बलं सत्यादौ ज्ञेयं एवं वैषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गायंस्ते प्राणा वै गायास्तान् प्राणांस्तते उद्यद्गायंस्तते तस्माद्गायत्री नाम स यामेवामूं मत्वा हैषैवमास यस्मा इत्याह तस्य प्रमाणं त्रायते तां हैके सावित्रीमनुष्टुभमन्वाहुरनुष्टुभैतद्वाचमनुब्रूम इति न तथा कुर्याद्गायत्रीमेवानुब्रूयाद्यदि ह वापि बह्विव प्रतिगृह्णाति । इहैव तद्गायत्र्या एकंचन पदं प्रति य इमांस्त्रीन् लोकान पूर्णान् प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं पदमाप्नुयात् अथ यावतीयं त्रयी विद्या यस्तावत् प्रतिगृह्णीयात् सोऽस्या एतद्द्वितीयमाप्नुयात् । अथ यावदिदं प्राणिति यस्तावत् प्रतिगृह्णीयात् ।तस्या उपस्थाना गायत्र्यैकपदी द्विपदी त्रिपदी चतुष्पद्यपदा सा न हि पद्यते । यस्ते तुरीयाय पदाय दर्शिताय परोरजसे सावदोमिति समधीयीत वा न हैवास्मै सकामः समृध्यते । यस्मा एवमुपतिष्ठते ह मदः प्रापमिति वा एतद्ध वै तज्जनको वैदेहो विरिलमाश्रितराश्विमुवाच । यत्तु होतर्गायत्रीं कथं हलीभूतो वहसीति । मुखं ह्यस्याः ससंभ्रमं विदांचकारेति होवाच । तस्या अग्निरेव मुखं यदिह वापि वह्निमानग्नावभ्यादधाति सर्वमेतत्सन्दहत्येवंविद्यद्यपवह्नीव पापं करोति सर्वमवैतत्सम्यग्विशुद्धो यतोऽजरोऽमृतः स भवतीति ॥
इति गायत्र्युपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.