दत्तात्रेय उपनिषद्
उपनिषद् · Sanskrit · ⏱ 5 min
अन्य नाम · Also known as दत्तात्रेय उपनिषद्
Sanskrit text from Sanskrit Wikisource.
दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।
त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥ सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं
तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द सात्त्विकं मामकं
धामोपास्वेत्याह ।
सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते
संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं
विष्णुं नारायणं दत्तात्रेअयं ध्यात्वा सद्वदति ।
दमिति हंसः ।
दामिति दीर्घं तद्बीजं नाम बीजस्थम् ।
दामित्येकाक्षरं भवति ।
तदेतत्तारकं भवति ।
तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
वटबीजस्थमिव
दत्तबीजस्थं सर्वं जगत् ।
एतदैवाक्षरं व्याख्यातम् ।
व्याख्यास्ये
षडक्षरम् ।
ओमिति द्वितीयम् ।
ह्रीमिति तृतीयम् ।
क्लीमिति चतुर्थम् ।
ग्लौमिति पञ्चमम् ।
द्रामिति षट्कम् ।
षडक्षरोऽयं भवति ।
योगानुभवो भवति ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो
देवता ।
द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः ।
दत्तात्रेयायेति सत्यानन्दचिदात्मकम् ।
नम इति पूर्णानन्दकविग्रहम् ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
दत्तात्रेयायेति
कीलकम् ।
तदेव बीजम् ।
नमः शक्तिर्भवति ।
ओमिति प्रथमम् ।
आमिति
द्वितीयम् ।
ह्रीमिति तृतीयम् ।
क्रोमिति चतुर्थम् ।
एहीति तदेव वदेत् ।
दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः ।
जगती छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
ओमिति बीजम् ।
स्वाहेति शक्तिः ।
संबुद्धिरिति कीलकम् ।
द्रमिति हृदये ।
ह्रीं क्लीमिति शीर्षे ।
एहीति शिखायाम् ।
दत्तेति कवचे ।
आत्रेयेति चक्षुषि ।
स्वाहेत्यस्त्रे ।
तन्मयो भवति ।
य एवं वेद ।
षोडशाक्षरं व्याख्यास्ये ।
प्राणं देयम् ।
मानं देयम् ।
चक्षुर्देयम् ।
श्रोत्रं देयम् ।
षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति ।
अतिसेवापरभक्तगुणवच्छिष्याय वदेत् ।
ओमिति प्रथमं भवति ।
ऐमिति द्वितीयम् ।
क्रोमिति तृतीयम् ।
क्लीमिति चतुर्थम् ।
क्लूमिति पञ्चमम् ।
ह्रामिति षष्ठम् ।
ह्रीमिति
सप्तमम् ।
ह्रूमित्यष्टमम् ।
सौरिति नवमम् ।
दत्तात्रेयायेति चतुर्दशम् ।
स्वाहेति षोडशम् ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
ॐ बीजम् ।
स्वाहा शक्तिः ।
चतुर्थ्यन्तं कीलकम् ।
ओमिति हृदये ।
क्लां क्लीं क्लूमिति शिखायाम् ।
सौरिति
कवचे ।
चतुर्थ्यन्तं चक्षुषि ।
स्वाहेत्यस्त्रे ।
यो
नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति ।
सौरित्यन्ते श्रीवैष्णव इत्युच्यते ।
तज्जापी विष्णुरूपी
भवति ।
अनुष्टुप् छन्दो व्याख्यास्ये ।
सर्वत्र
संबुद्धिरिमानीत्युच्यन्ते ।
दत्तात्रेय हरे कृष्ण
उन्मत्तानन्ददायक ।
दिगंबर मुने बालपिशाच
ज्ञानसागर ॥ १ ॥ इत्युपनिषत् ।
अनुष्टुप् छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता दत्तात्रेयेति हृदये ।
हरे कृष्णेति शीर्षे ।
उन्मत्तानन्देति शिखायाम् ।
दायकमुन इति कवचे ।
दिगंबरेति चक्षुषि ।
पिशाचज्ञानसागरेत्यस्त्रे ।
आनुष्टुभोऽयं
मयाधीतः ।
अब्रह्मजन्मदोषाश्च प्रणश्यन्ति ।
सर्वोपकारी मोक्षी भवति ।
य एवं वेदेत्युपनिषत् ॥ १ ॥
इति प्रथमः खण्डः ॥ १ ॥
ओमिति व्याहरेत् ।
ॐ नमो भगवते दत्तात्रेयाय
स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय
महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त-
पिशाचवेषायेति महायोगिनेऽवधूतायेति
अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफल-
प्रदाय ओमिति व्याहरेत् ।
भवबन्धमोचनायेति
ह्रीमिति व्याहरेत् ।
सकलविभूति दायेति क्रोमिति व्याहरेत् ।
साध्याकर्षणायेति सौरिति व्याहरेत् ।
सर्वमनः-
क्षोभणायेति श्रीमिति व्याहरेत् ।
महोमिति व्याहरेत् ।
चिरञ्जीविने वषडिति व्याहरेत् ।
वशीकुरुवशीकुरु
वौषडिति व्याहरेत् ।
आकर्षयाकर्षय हुमिति
व्याहरेत् ।
विद्वेषयविद्वेषय फडिति व्याहरेत् ।
उच्चाटयोच्चाटय ठठेति व्याहरेत् ।
स्तम्भय-
स्तम्भय खखेति व्याहरेत् ।
मारयमारय नमः
संपन्नाय नमः संपन्नाय स्वाहा पोषयपोषय
परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि
ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं
हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं
पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र-
सर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः
शिवायेत्युपनिषत् ॥ २ ॥
इति द्वितीयः खण्डः ॥ २ ॥
य एवं वेद ।
अनुष्टुप् छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
ओमिति बीजम् ।
स्वाहेति शक्तिः ।
द्रामिति कीलकम् ।
अष्टमूर्त्यष्टमन्त्रा भवन्ति ।
यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः
पूतो भवति ।
गायत्र्या शतसहस्रं जप्तं भवति ।
महारुद्रशतसहस्रजापी भवति ।
प्रणवायुतकोटिजप्तो भवति ।
शतपूर्वाञ्छतापरान्पुनाति ।
स पङ्क्तिपावनो भवति ।
ब्रह्महत्यादिपातकैर्मुक्तो भवति ।
गोहत्यादिपातकैर्मुक्तो भवति ।
तुलापुरुषादिदानैः प्रपापानतः पूतो भवति ।
अशेषपापान्मुक्तो भवति ।
भक्ष्याभक्ष्यपापैर्मुक्तो भवति ।
सर्वमन्त्रयोगपारीणो भवति ।
स एव ब्राह्मणो भवति ।
तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् ।
सोऽनन्तफलमश्नुते ।
स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति दत्तात्रेयोपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "दत्तात्रेय उपनिषद्", revision 37912.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.