दर्शनोपनिषत्
उपनिषद् · Sanskrit · ⏱ 26 min
अन्य नाम · Also known as दर्शनोपनिषत्
Sanskrit text from Sanskrit Wikisource.
आप्यायन्तु- इति शान्तिः
प्रथम खण्डः
जीवन्मुक्तिसाधनम् अष्टाङ्गयोगः
दत्तात्रेयो महायोगी भगवान् भूतभावनः ।
चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः ।। १ ।।
तस्य शिष्यो मुनिवरः सांकृतिर्नाम भक्तिमान् ।
पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः ।। २ ।।
भगवन् ब्रूउहि मे योगं साष्टाङ्गं सप्रपञ्चकम् ।
येन विज्ञानमात्रेण जीवन्मुक्तो भवाम्यहम् ।। ३ ।।
सांकृते शृणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् ।
विवरणम्
यमाद्यष्टाङ्गयोगेद्धब्रह्ममात्रप्रबोधतः ।
योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे ।।
इह खलु समावेदप्रविभक्तेयं दर्शनोपनिषत्
निर्विशेषब्रह्मज्ञानसहकृतयमाद्यष्टाङ्गयोगप्रकटनव्यग्रा
निष्प्रतियोगिकब्रह्ममात्रपर्यवसन्ना विजृम्भते । अस्याः स्वल्पग्रन्थतो
विवरणमारभ्यते ।
सांकृतिदत्तात्रेयप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था ।
आख्यायिकामवतारयति- दत्तात्रेय इति ।। १-२ ।। किमिति ? भगवन्
इत्यादि ।। ३ ।। सांकृतिना एवं पृष्टो भगवानाह- सांकृत इति ।।
प्. १५३) अष्टाङ्गोद्देशः
यमश्च नियमश्चैव तथैवासनमेव च ।। ४ ।।
प्राणायामस्तथा ब्रह्मन् प्रत्याहारस्ततः परम् ।
धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने ।। ५ ।।
अष्टाङ्गानि कानीयत आह- यमश्चेति ।। ४-५ ।।
दशविधयमः
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ।। ६ ।।
दशधा भिन्नयमावयवमाह- अहिंसेति ।। ६ ।।
अहिंसा
वेदोक्तेन प्रकारेण विना सत्यं तपोधन ।
कायेन मनसा वाचा हिंसा हिंसा न चान्यथा ।। ७ ।।
आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति या मतिः ।
सा चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः ।। ८ ।।
उपायोपेयभेदेन अहिंसादिदशयमलक्षणमाह- वेदेति ।
वेदोक्तयज्ञीयपश्चादिहिंसा अहिंसैवेत्यर्थः ।। ७ ।। यद्वा-
आत्मेत्यादि ।। ८ ।।
सत्यम्
चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर ।
तस्यैवोक्तिर्भवेत् सत्यं विप्र तन्नान्यथा भवेत् ।। ९ ।।
प्. १५४) सर्वं सत्यं वरं ब्रह्म न चान्यादिति या मतिः ।
तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः ।। १० ।।
उपायोपेयसत्यलक्षणं तु- चक्षुरित्यादि ।। ९-२५ ।।
अस्तेयम्
अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च ।
मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः ।। ११ ।।
आत्मन्यनात्मभावेन व्यवहारविवर्जितम् ।
यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामुने ।। १२ ।।
ब्रह्मचर्यम्
कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् ।
ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते ।। १३ ।।
ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परंतप ।
दया
स्वात्मवत् सर्वभूतेषु कायेन मनसा गिरा ।। १४ ।।
अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः ।
आर्जवम्
पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि संततम् ।। १५ ।।
एकरूपं मुने यत्तदार्जवं प्रोच्यते मया ।
प्. १५५) क्षमा
कायेन मनसा वाचा शत्रुभिः परिपीडिते ।। १६ ।।
बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुंगव ।
धृतिः
वेदावेद विनिर्मोक्षः संसारस्य न चान्यथा ।। १७ ।।
इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः ।
अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः ।। १८ ।।
मिताहारः
अल्पमृष्टाशनाभ्यां च चतुर्थांशावशेषकम् ।
तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ।। १९ ।।
शौचम्
स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने ।
यत्तच्छौचं भवेद्बाह्यं मानसं मननं विदुः ।। २० ।।
अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः ।
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।। २१ ।।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ।
ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः ।। २२ ।।
स मूढः काञ्चनं त्यक्त्वा लोष्टं गृह्णाति सुव्रत ।
प्. १५६) ब्रह्मात्मवेदनविधिः
ज्ञानमृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।। २३ ।।
न चास्ति किंचित् कर्तव्यमस्ति चेन्न स तत्त्ववित् ।
लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् ।। २४ ।।
तस्मात् सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः ।
आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् ।। २५ ।।
इति प्रथमः खण्डः
द्वितीयः खण्डः
दशविधनियमः
तपः संतोषमास्तिक्यं दानमीश्वरपूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ।। १ ।।
एते च नियमाः प्रोक्तास्तान् वक्ष्यामि क्रमाछृणु ।
दशधा भिन्ननियमावयवानाह- तप इति ।। १ ।।
तपः
वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः ।। २ ।।
शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ।
को वा मोक्षः कथं केन संसारं प्रतिपन्नवान् ।। ३ ।।
इत्यालोचनमर्थज्ञास्तपः शंसन्ति पण्डिताः ।
उपायोपेयभेदेन तप आदिनियमलक्षणमाह- वेदेति ।। २-१०
।।
प्. १५७) संतोषः
यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् ।। ४ ।।
तत् संतोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ।
ब्रह्मावलोकपर्यन्ताद्विरक्त्या यल्लभेत् प्रियम् ।। ५ ।।
सर्वत्र विगतस्नेहः संतोषं परमं विदुः ।
आस्तिक्यम्
श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ।। ६ ।।
दानम्
न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने ।
अन्यद्वा यत् प्रदीयन्ते तद्दानं प्रोच्यते मया ।। ७ ।।
ईश्वरपूजनम्
रागाद्यपेतं हृदयं वागदुष्टानृतादिना ।
हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ।। ८ ।।
सिद्धान्तश्रवणम्
सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् ।
प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधः ।। ९ ।।
प्. १५८) ह्रीः
वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् ।
तस्मिन् भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता ।। १० ।।
मतिः
वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ।
गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः ।। ११ ।।
वेदविरुद्धमार्गः गुरुणा उपदिष्टोऽपि तत्र सम्बन्धवर्जितः सन्
वेदोक्तानुष्ठानमेव कुर्यादित्यर्थः ।। ११- १६ ।।
जपः
वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः ।
कल्पसूत्रे यथा वेदे धर्मशास्त्रे पुराणके ।। १२ ।।
इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया ।
जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा ।। १३ ।।
वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः ।
मानसो मननध्यानभेदात् द्वैविध्यमाश्रितः ।। १४ ।।
उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते ।
मानसश्च तथोपांशोः सहस्रगुणमुच्यते ।। १५ ।।
प्. १५९) उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् ।
नीचैः श्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् ।। १६ ।।
इति द्वितीयः खण्डः
तृतीयः खण्डः
आसनानि नव
स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा ।
भद्रं मुक्तासनं चैव मयूरासनमेव च ।। १ ।।
सुखासनसमाख्यं च नवमं मुनिपुंगव ।
यमनियमलक्षणमुक्त्वा आसनलक्षणमाह- स्वस्तिकमिति ।।
१-१४ ।।
स्वस्तिकम्
जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे ।। २ ।।
समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् ।
गोमुखम्
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।। ३ ।।
दक्षिणेऽपि तथा सव्यं गोमुखं तत् प्रचक्षते ।
पद्मम्
अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु ।। ४ ।।
ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् ।
पद्मासनं भवेत् प्राञ सर्वरोगभयापहम् ।। ५ ।।
प्. १६०) वीरासनम्
गुल्फौ च वृषणस्याधः सीविन्याः पार्श्वयोः क्षिपेत् ।
दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरत् ।। ६-१ ।।
हस्तौ जानौ समास्थाप्य स्वाङ्गुलींश्च प्रसार्य च ।
व्यक्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ।। ६-२ ।।
सिंहासनं भवेदेतत् पूजितं योगिभिः सदा ।। ६-३ ।।
भद्रासनम्
गुल्फौ तु वृषणस्याधः सीविन्याः पार्श्वयोः क्षिपेत् ।
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।। ७ ।।
भद्रासनं भवेदेतद्विषरोगविनाशनम् ।
मुक्तासनम्
निपीड्य सीविनीं सूक्ष्मां दक्षिणेतरगुल्फतः ।। ८ ।।
वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ।
मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि ।। ९ ।।
गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने ।
प्. १६१) मयूरासनम्
कूर्पराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः ।। १० ।।
भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः ।
समुन्नतशिरःपादो दण्डवद्व्योम्नि संस्थितः ।। ११ ।।
मयूरासनमेतत् स्यात् सर्वपापप्रणासनम् ।
सुखासनम्
येन केन प्रकारेण सुखं धैर्यं च जायते ।। १२ ।।
तत् सुखासनमित्युक्तमशक्तस्तत् समाश्रयेत् ।
आसनजयफलम्
आसनं विजितं येन जितं तेन जगत्त्रयम् ।। १३ ।।
अनेन विधिना युक्तः प्राणायामं सदा कुरु ।।
इति तृतीयः खण्डः
चतुर्थः खण्डः
देहप्रमाणम्
शरीरं तावदेव स्यात् षण्णवत्यङ्गुलात्मकम् ।
देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ।। १ ।।
त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते ।
गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः ।। २ ।।
प्. १६२) देहमध्यं विजानीहि मनुजानां तु सांकृते ।
कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् ।। ३ ।।
चतुरङ्गुलमायामविस्तारं मुनिपुंगव ।
कुक्कुटाण्डवदाकारं भूषितं तु त्वगादिभिः ।। ४ ।।
तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुंगव ।
प्राणायामस्य नाडीपुञ्जदेहप्राणनिर्वर्त्यत्वेन
देहतत्कार्येयत्तापरिज्ञानं विना प्राणायामसिद्धिः न स्यादिति
देहनाडीप्राणेयत्तां प्रपञ्चयति- शरीरमिति । शिखिस्थानम्
अग्निस्थानम् ।। १-१० ।।
नाडीपरिगणनम्
कन्दमध्यस्थिता नाडी सुषुम्नेति प्रकीर्तिता ।। ५ ।।
तिष्ठन्ति परितस्तस्य नाडयो मुनिपुंगव ।
द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश ।। ६ ।।
सुषुम्ना पिङ्गला तद्वदिडा चैव सरस्वती ।
पूषा च वरुणा चैव हस्तिजिह्वा यशस्विनी ।। ७ ।।
अलम्बुसा कुहूश्चैव विश्वोदारा पयस्विनी ।
शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश ।। ८ ।।
आसां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा ।
ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः ।। ९ ।।
पृष्ठमध्यस्थितेनास्थ्ना विणादण्डेन सुव्रत ।
सह मस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता ।। १० ।।
प्. १६३) कुण्डल्याः स्थानं स्वरूपं च
नाभिकन्दादधः स्थानं कुण्डल्या द्व्यङ्गुलं मुने ।
अष्टप्रकृतिरूपा स कुण्डली मुनिसत्तमः ।। ११ ।।
यथावद्वायुचेष्टां च जलान्नादीनि नित्यशः ।
परितः कन्दपार्श्वेषु निरुध्यैव सदा स्थिता ।। १२ ।।
स्वमुखेन सदावेष्ट्य ब्रह्मरन्ध्रमुखं मुने ।
कुण्डलिनीस्थानं तत्स्वरूपं चाह- नाभीति ।
पृथिव्यप्तेजोवायवाकाशमनोबुद्ध्यहंकाररूपिण्यः अष्टौ
प्रकृतयः ।। ११- १२ ।।
नाडीस्थानानि
सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्थिता ।। १३ ।।
सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः स्थिते ।
गान्धारा हस्तिजिह्वा च इडायाः पृष्ठपूर्वयोः ।। १४ ।।
पूषा यशस्विनी चैव पिङ्गलापृष्ठपूर्वयोः ।
कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरा स्थिता ।। १५ ।।
यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता ।
पूषायाश्च सरस्वत्या मध्ये प्रोक्ता यशस्विनी ।। १६ ।।
गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी ।
अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा ।। १७ ।।
पूर्वभागे सुषुम्नाया राकायाः संस्थिता कुहूः ।
अधश्चोर्ध्वं स्थिता नाडी याम्यनासान्तमिष्यते ।। १८ ।।
प्. १६४) इडा तु सव्यनासान्तं संस्थिता मुनिपुंगव ।
यशस्विनी च वामस्य पादाङ्गुष्ठान्तमिष्यते ।। १९ ।।
पूषा वामाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः ।
पयस्विनी च याम्यस्य कर्णान्तं प्रोच्यते बुधैः ।। २० ।।
सरस्वती तथा चोर्ध्वं गता जिह्वा तथा मुने ।
हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते ।। २१ ।।
शङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते ।
गान्धारा सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः ।। २२ ।।
विश्वोदराभिधा नाडी कन्धमध्ये व्यवस्थिता ।
सुषुम्नानाडीपरितः प्रधाननाड्यः तिष्ठन्तीत्याह-
सुषुम्नाया इति ।। १३-२२ ।।
नाडीषु वायुसंचारः
प्राणोऽपानस्तथा व्यानः समानोदान एव च ।। २३ ।।
नागः कूर्मश्च कृकरो देवदत्तो धनंजयः ।
एते नाडीषु सर्वासु चरन्ति दश वायवः ।। २४ ।।
तेषु प्राणादयः पञ्च मुख्याः पञ्चसु सुव्रत ।
प्राणसंज्ञस्तथापानः पूज्यः प्राणस्तयोर्मुने ।। २५ ।।
आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि ।
प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम ।। २६ ।।
प्. १६५) अपानो वर्तते नित्यं गुदमध्योरुजानुषु ।
उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत ।। २७ ।।
व्यानः श्रोत्राक्षिमध्ये च ककुद्भ्यां गुल्फयोरपि ।
प्राणस्थाने गले चैव वर्तते मुनिपुंगव ।। २८ ।।
उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि ।
समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः ।। २९ ।।
नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः ।
एवमुक्तासु नाडीषु प्राणादयश्चरन्तीत्याह- प्राण इति ।। २३##-
वायुव्यापाराः
निःश्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते ।। ३० ।।
अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् ।
समानः सर्वसामीप्यं करोति मुनिपुंगव ।। ३१ ।।
उदान ऊर्ध्वगमनं करोत्येव न संशयः ।
व्यानो विवादकृत् प्रोक्तो मुने वेदान्तवेदिभिः ।। ३२ ।।
उद्गारादिगुणः प्रोक्तो नागाख्यस्य महामुने ।
धनंजयस्य शोभादि कर्म प्रोक्तं हि सांकृते ।। ३३ ।।
निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च ।
देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ।। ३४ ।।
प्राणादिदशवायुव्यापारानाह- निःश्वासेति ।। ३०-३४ ।।
प्. १६६) नाडीदेवताः
सुषुम्नायाः शिवो देव इडया देवता हरिः ।
पिङ्गलाया विरिच्चः स्यात् सरस्वत्या विराण्मुने ।। ३५ ।।
पूषाधिदेवता प्रोक्तो वरुणा वायुदेवता ।
हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् ।। ३६ ।।
यशस्विन्या मुनिश्रेष्ठ भगवान् भास्करस्तथा ।
अलम्बुसाया अबात्मा वरुणः परिकीर्तितः ।। ३७ ।।
कुहो क्षुद्देवता प्रोक्ता गान्धारी चन्द्रदेवता ।
शङ्खिन्याश्चन्द्रमास्तद्वत् पयस्विन्याः प्रजापतिः ।। ३८ ।।
विश्वोदराभिधायास्तु भगवान् पावकः पतिः ।
सुषुम्नादिचतुर्दशनाडीदेवताभेदमाह- सुषुम्नाया इति ।।
३५-३८ ।।
नाडीषु चन्द्रसूर्यसंचारः
इडायां चन्द्रमा नित्यं चरत्येव महामुने ।। ३९ ।।
पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर ।
सदेडापिङ्गलयोश्चन्द्रसूर्यौ चरत इत्याह- इडायामिति ।। ३९ ।।
नाडीषु संवत्सरात्मकप्राणसूर्यसंचारः
पिङ्गलाया इडायां तु वायोः संक्रमणं तु यत् ।। ४० ।।
तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः ।
इडायाः पिङ्गलायां तु प्राणसंक्रमणं मुने ।। ४१ ।।
प्. १६७) दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः ।
इडापिङ्गलयोः संधिं यदा प्राणः समागतः ।। ४२ ।।
अमावस्या तदा प्रोक्ता देहे देहभृतां वर ।
मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम ।। ४३ ।।
तदाद्यं विषुवं प्रोक्तं तापसैस्तापसोत्तम ।
प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा ।। ४४ ।।
तदन्त्यं विषुवं प्रोक्तं तापसैस्तत्त्वचिन्तकैः ।
निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् ।। ४५ ।।
इडया कुण्डलीस्थानं यदा प्राणः समागतः ।
सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर ।। ४६ ।।
यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः ।
तदा तदा भवेत् सूर्यग्रहणं मुनिपुङ्गव ।। ४७ ।।
संवत्सरात्मकप्राणसूर्यस्य नाडीराशिसंचारतो
दिनपक्षमासायनादिग्रहणादिः भवतीत्याह- पिङ्गलाया इति ।। ४०##-
अन्तस्तीर्थप्राशस्त्यम्
श्रीपर्वतं शिरःस्थाने केदारं तु ललाटके ।
वाराणसीं महाप्राज्ञ भ्रूवोर्घ्राणस्य मध्यमे ।। ४८ ।।
कुरुक्षेत्रं कुचस्थाने प्रयागं हृत्सरोरुहे ।
चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् ।। ४९ ।।
प्. १६८) आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् ।
करस्थं स महारत्नं त्यक्त्वा काचं विमार्गते ।। ५० ।।
भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु ।
अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता ।। ५१ ।।
तीर्थानि तोयपूर्णानि देवान् काष्ठादिनिर्मितान् ।
योगिनो न प्रपद्यन्ते स्वात्मप्रत्ययकारणात् ।। ५२ ।।
बहिस्तीर्थात् परं तीर्थमन्तस्तीर्थं महामुने ।
आत्मतीर्थं महातीर्थमन्यत्तीर्थं निरर्थकम् ।। ५३ ।।
चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति ।
शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि ।। ५४ ।।
विषुवायनकालेषु ग्रहणे चान्तरे सदा ।
वारणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः ।। ५५ ।।
ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् ।
भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव ।। ५६ ।।
मस्तकाद्याधारान्तं श्रीशैलादिपुण्यस्थलं भवतीत्याह-
श्रीपर्वतमिति ।। ४८-४९ ।। एवं भावनामयमात्मतीर्थं तदेव
मुमुक्षुभिः सेव्यम् इति स्तौति- आत्मतीर्थमिति । काचं- काचमणिम्
।। ५० ।। देहादिनिर्वर्त्यसर्वकर्मसु तीर्थबुद्धिः गरीयसीत्यर्थः । तत्र
दृष्टान्तस्तु- अन्यथेति ।। ५१ ।। अत एवं तीर्थानीति ।। ५२ ।। तदेव
आत्मतीर्थम् ।। ५३ ।। बाह्यतीर्थस्नानेन कोऽपि न शुध्यतीति
सदृष्टान्तमाह- चित्तमिति ।। ५४ ।। न तथा भावतीर्थस्नानेनेत्याह##-
प्. १६९) भ्रूमध्यादिस्थानेषु स्वात्मलक्ष्यानुसंधानतः
शुद्धात्मैव भवतीत्यर्थः ।। ५५ ।।
एवात्मतीर्थस्नानानधिकारो[री] तीर्थपादचरणोदकस्पर्शतः
शुद्धो भवतीत्याह- ज्ञानेति ।। ५६ ।।
आत्मनि शिवदृष्टिः
तीर्थे दाने जपे यज्ञे काष्ठे पाषाणके सदा ।
शिवं पश्यति मूढात्मा शिवे देहे प्रतिष्ठिते ।। ५७ ।।
अन्तःस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते ।
हस्तस्थं पिण्डमुत्सृज्य लिहेत् कूर्परमात्मनः ।। ५८ ।।
शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः ।
अज्ञानां भावनार्थाय प्रतिमाः परिकल्पिताः ।। ५९ ।।
स्वाज्ञाः स्वातिरिक्तात्मानं द्रष्टुमिच्छन्ति, स्वज्ञाः
स्वामात्मानं पश्यन्तीत्याह- तीर्थ इति ।। ५७-५८ ।। अत एव शिवमिति ।
अयोगिजनानुकम्पया प्रतिमापि विकल्पितेत्याह- अज्ञानामिति ।। ५९ ।।
ब्रह्मदर्शनेन ब्रह्मभावः
अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम् ।
प्रज्ञानघनमानन्दं यः पश्यति स पश्यति ।। ६० ।।
नाडीपुञ्जं सदासारं नरभावं महामुने ।
समुत्सृज्यात्मनात्मानमहमित्यवधारय ।। ६१ ।।
अशरीरं शरीरेषु महान्तं विभुमीश्वरम् ।
आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति ।। ६२ ।।
प्. १७०) विभेदजनकेऽज्ञाने नष्टे ज्ञानबलात्मुने ।
आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति ।। ६३ ।।
निर्विशेषं ब्रह्म यः पश्यति स तदेव भवतीत्याह-
अपूर्वमिति । यस्मात् पूर्वं कारणं परं कार्यं वा न विद्यते तत्
कार्यकारणकलनाशून्यं ब्रह्म स्वमात्रमिति यः पश्यति स
तन्मात्रमवशिष्यत इत्यर्थः ।। ६० ।। यावच्चित्तशुद्धिः तावत्
नरभावनया योगं युञ्जीत, ततः शुद्धावुदितायां नरभावं
विहाय ब्रह्मभावेन वर्तस्वेत्याह- नाडीति ।। ६१ ।। यः
कोऽप्येवमात्मानं जानाति स कृतकृत्यो भवतीत्याह- अशरीरमिति ।।
६२ ।। स्वज्ञानजभेददृष्ट्यपाये निर्भेदं ब्रह्म प्रसीदतीत्याह-
विभेदेति । वस्तुतः कालत्रयेऽप्यसंभवभेदः किं करिष्यति ? स्वस्य
लब्धात्मकत्वान्निर्भेदं ब्रह्मावशिष्यते इत्यर्थः ।। ६३ ।।
इति चतुर्थःखण्डः
पञ्चमः खण्डः
नाडीशोधनम्
सम्यक्कथय मे ब्रह्मन् नाडीशुद्धिं समासतः ।
यया शुद्ध्या सदा ध्यायन् जीवन्मुक्तो भवाम्यहम् ।। १ ।।
सांकृते शृणु वक्ष्यामि नाडीशुद्धिं समासतः ।
विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः ।। २ ।।
यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः ।
स्वात्ममन्यवस्थितः सम्यक् ज्ञानिभिश्च सुशिक्षितः ।। ३ ।।
प्. १७१) पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा ।
मनोरमे शुचौ देशे मठं कृत्वा समाहितः ।। ४ ।।
आरभ्य चासनं पश्चात् प्राङ्मुखोदङ्मुखोऽपि वा ।
समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ।। ५ ।।
नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् ।
स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ।। ६ ।।
इडया प्राणमाकृष्य पूरयित्वोदरस्थितम् ।
ततोऽग्निं देहमध्यस्थं ध्यायन् ज्वालावलीयुतम् ।। ७ ।।
बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् ।
पश्चाविरेचयेत् सम्यक् प्राणं पिङ्गलया बुधः ।। ८ ।।
पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् ।
पुनर्विरेचयेद्धीमानिडयैव शनैः शनैः ।। ९ ।।
त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च ।
षट्कृत्वो विचरेन्नित्यं रहस्येवं त्रिसंधिषु ।। १० ।।
नरभावभावितनाडीशुद्धिबुभुत्सया पृच्छतीत्याह-
सम्यगिति ।। १ ।। प्रश्नोत्तरं भगवानाह- सांकृत इति ।।
कस्तत्प्रकारः इत्यत्र- विध्युक्तेति ।। २-५ ।।
स्रवदमृतचन्द्रबिम्बं नासाग्रे अवलोकयन् योगं समारभेदित्यर्थः
।। ६-७ ।। रामिति अग्निबीजं ।। ८-९ ।। प्रतिदिनं त्रिचतुर्वारम् ।। १०-१४
।।
प्. १७२) नाडीशुद्धिचिह्नानि
नाडीशुद्धिमवाप्नोति पृथक्चिह्नोपलक्षितः ।
शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ।। ११ ।।
नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् ।
यावदेतानि संपश्येत् तावदेवं समाचरेत् ।। १२ ।।
स्वात्मशुद्धिः
अथवैतत् परित्यज्य स्वात्मशुद्धिं समाचरेत् ।
आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः ।। १३ ।।
अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो विभात्ययम् ।
अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतोयतः ।
स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः ।। १४ ।।
इति पञ्चमः खण्डः
षष्ठः खण्डः
प्राणायामलक्षणम्
प्राणायामक्रमं वक्ष्ये सांकृते शृणु सादरम् ।
प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ।। १ ।।
वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः ।
स एष प्रणवः प्रोक्तः प्राणायामश्च तन्मयः ।। २ ।।
प्. १७३) इडया वायुमाकृष्य पूरयित्वोदरस्थितम् ।
शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ।। ३ ।।
पूरितं धारयेत् पश्चाच्चतुःषष्ट्या तु मात्रया ।
उकारमूर्तिमत्रापि संस्मरन् प्रणवं जपेत् ।। ४ ।।
यावद्वा शक्यते तावद्धारयेज्जपतत्परः ।
पूरितं रेचयेत् पश्चान्मकारेणानिलं बुधः ।। ५ ।।
शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः ।
प्राणायामो भवेदेष ततश्चैवं समभ्यसेत् ।। ६ ।।
पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा ।
अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः ।। ७ ।।
धारयेत् पूरितं विद्वान् प्रणवं संजपन् वशी ।
उकारमूर्तिं स ध्यायन् चतुःषष्ट्या तु मात्रया ।। ८ ।।
मकारं तु स्मरन् पश्चाद्रेचयेदिडयानिलम् ।
एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् ।। ९ ।।
एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर ।
एवमभ्यासतो नित्यं षण्मासाद् ज्ञानवान् भवेत् ।। १० ।।
वत्सराद्ब्रह्मविद्वान् स्यात् तस्मान्नित्यं समभ्यसेत् ।
योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ।। ११ ।।
प्राणसंयमनेनैव ज्ञानमुक्तो भविष्यति ।
विशेषतः प्राणायामेति ।। १-११ ।।
प्. १७४) पूरकादिलक्षणम्
बाह्यदापूरणं वायोरुदरे पूरको हि सः ।। १२ ।।
संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् ।
बहिर्विरेचनं वायोरुदराद्रेचकः स्मृतः ।। १३ ।।
पूरकादिलक्षणमाह- बाह्यादिति ।। १२-१३ ।।
प्राणायामसिद्धयः
प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः ।
कम्पनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः ।। १४ ।।
पूर्वपूर्वं प्रकुर्वीत यावदुत्थानसंभवः ।
संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ।। १५ ।।
प्राणायामेन चित्तं तु शुद्धं भवति सुव्रत ।
चित्ते शुद्धे शुचिः साक्षात् प्रत्यग्ज्योतिर्व्यवस्थितः ।। १६ ।।
प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति ।
प्राणायामपरस्यास्य पुरुषस्य महात्मनः ।। १७ ।।
देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता ।
रेचकं पूरकं मुक्त्वा कुम्भकं चित्यमभ्यसेत् ।। १८ ।।
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ।
मनोजवत्वमाप्नोति पलितादि च नश्यति ।। १९ ।।
प्. १७५) प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् ।
तस्मात् सर्वप्रयत्नेन प्राणायामान् समभ्यसेत् ।। २० ।।
स्वेदादिसिद्धिमाह- प्रस्वेदेति ।। १४-१७ ।। उत्तिष्ठते भूतलात् ।।
१८-२० ।।
रोगनिवर्तकप्राणायामभेदाः
विनियोगान् प्रवक्ष्यामि प्राणायामस्य सुव्रत ।
संध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाथवा सदा ।। २१ ।।
बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च ।
नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारणात् ।। २२ ।।
सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः ।
नासाग्रधारणाद्वापि जितो भवति सुव्रत ।। २३ ।।
सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् ।
शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ।। २४ ।।
जिह्वया वायुमाकृष्य यः पिबेत् सततं नरः ।
श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ।। २५ ।।
जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् ।
पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् ।। २६ ।।
इडया वायुमाकृष्य भ्रूवोर्मध्ये निरोधयेत् ।
यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ।। २७ ।।
प्. १७६) योगोपनिषदः
इडया वेदतत्त्वज्ञ तथा पिङ्गलयैव च ।
नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ।। २८ ।।
मासमात्रं त्रिसंध्यायां जिह्वयारोप्य मारुतम् ।
अमृतं च पिबन्नाभौ मन्दं मन्दं निरोधयेत् ।। २९ ।।
वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः ।
नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् ।। ३० ।।
नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् ।
तथा वायुं समारोप्य धारयेच्छिरसि स्थितम् ।। ३१ ।।
शिरोरोगा विनश्यन्ति सत्यमुक्तं हि सांकृते ।
योगसिद्ध्यन्तरायरोगनिरासकान् धारणाभेदानाह-
विनियोगानिति । ब्रह्मकाले ब्राह्मे मुहूर्ते ।। २१-३५ ।।
षण्मुखीमुद्राभ्यासादिना वायुजयः
स्वस्तिकासनमास्थाय समाहितमनास्तथा ।। ३२ ।।
अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः ।
हस्ताभ्यां धारयेत् सम्यक् करणादिकरणानि च ।। ३३ ।।
अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी ।
नासापुटावस्थान्याभ्यां प्रच्छाद्य करणानि वै ।। ३४ ।।
आनन्दाविर्भवो यावत् तावन्मूर्धनि धारयेत् ।
प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने ।। ३५ ।।
प्. १७७) ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ ।
शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा ।। ३६ ।।
शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा ।
पश्चात् प्रीतो महाप्राज्ञ साक्षादात्मोन्मुखो भवेत् ।। ३७ ।।
पुनस्तज्ज्ञाननिष्पत्तिर्योगात् संसारनिह्नुतिः ।
दक्षिणोत्तरगुल्फेन सीविनीं पीडयेत् स्थिराम् ।। ३८ ।।
सव्येतरेण गुल्फेन पीडयेद् ब्द्धिमान् नरः ।
जान्वोरधः स्थितां संधिं स्मृत्वा देवं त्रियम्बकम् ।। ३९ ।।
विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः ।
लिङ्गनालात् समाकृष्य वायुमप्यग्रतो मुने ।। ४० ।।
प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् ।
मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् ।। ४१ ।।
निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् ।
पुनः सुषुम्नया वायुर्वह्निना सह गच्छति ।। ४२ ।।
एवमभ्यसतस्तस्य जितो वायुर्भवेद् भृशम् ।
एवं षण्मुखीमुद्राभ्यासतः ब्रह्मरन्ध्रमिति ।। ३६ ।। यथा तथा
चन्द्रमण्डलगिरितः अमृतप्रवाहो जायते । तेन
भ्रूमध्यस्थज्योतिर्लिङ्गमभिषिच्य तदमृतास्वादनतो योगी विमृत्युः
भवति । ततः पश्चात् ।। ३७-३८ ।। दक्षिणेतरगुल्फाभ्यां सीविनीं
मेढ्रगुदान्तरालस्थनाडीं संपीडयन् जान्वोरधः- स्थितसंधिं
शिवलिङ्गं स्मृत्वा विनायकं वागीश्वरीं च ध्यात्वा ततो
लिङ्गनालादित्यादि ।। ३९-४२ ।।
प्. १७८) वायुजयचिह्नानि
प्रस्वेदः प्रथमः पश्चात् कम्पनं मुनिपुङ्गव ।। ४३ ।।
उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनिले ।
वायुजयसूचकाचिह्नान्याह- प्रस्वेद इति ।। ४३-४८ ।।
वायुजयेन रोगपापविनाशवैराग्यपूर्विका ज्ञानोत्पत्तिः
एवमभ्यसतस्तस्य मूलरोगो विनश्यति ।। ४४ ।।
भगंधरं च नष्टं स्यात् सर्वरोगाश्च सांकृते ।
पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च ।। ४५ ।।
नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् ।
पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जायते हृदि ।। ४६ ।।
विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् ।
तेन पाशापहानिः स्यात् ज्ञात्वा देवं सदाशिवम् ।। ४७ ।।
ज्ञानामृतरसो येन सकृदास्वादितो भवेत् ।
स सर्वकार्यमुत्सृज्य तत्रैव परिधावति ।। ४८ ।।
ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः ।
अर्थस्वरूपमज्ञानात् पश्यन्त्यन्ये कुदृष्टयः ।। ४९ ।।
आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः ।
क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ।। ५० ।।
प्. १७९) रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्शनम् ।
तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते ।। ५१ ।।
विचक्षणाः ज्ञानिनः ।। ४९-५० ।। विमर्शनं विशोधनं
विनाशनमित्यर्थः ।। ५१ ।।
इति षष्ठः खण्डः
सप्तमः खण्डः
प्रत्याहारलक्षणम्, तद्भेदाश्च
अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने ।
इन्द्रियाणां विचरतां विषयेषु स्वभावतः ।। १ ।।
बलादाहरणं तेषां प्रत्याहारः स उच्यते ।
यत् पश्यति तु तत् सर्वं ब्रह्म पश्यन् समाहितः ।। २ ।।
प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः ।
यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् ।। ३ ।।
तत् सर्वं ब्रह्मणे कुर्यात् प्रत्याहारः स उच्यते ।
अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ।। ४ ।।
काम्यानि च तथा कुर्यात् प्रत्याहारः स उच्यते ।
अथवा वायुमाकृष्य स्थानात् स्थानं निरोधयेत् ।। ५ ।।
दन्तमूलात् तथा काष्ठे कण्ठादुरसि मारुतम् ।
उरोदेशात् समाकृष्य नाभिदेशे निरोधयेत् ।। ६ ।।
प्. १८०) नाभिदेशात् समाकृष्य कुण्डल्यां तु निरोधयेत् ।
कुण्डलीदेशतो विद्वान् मूलाधारे निरोधयेत् ।। ७ ।।
अथापानात् कटिद्वन्द्वे तथोरौ च सुमध्यमे ।
तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् ।। ८ ।।
प्रत्याहारोऽयमुक्तस्तु प्रत्याहारपरैः पुरा ।
यमनियमासनप्राणायामेयत्तां प्रतिपाद्य ततः
प्रत्याहारस्वरूपमाह- अथेति ।। १-१२ ।।
प्रत्याहारफलम्
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ।। ९ ।।
सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत ।
वायुधारणात्मकप्रत्याहारः
नासाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ।। १० ।।
पूरयेदनिलं विद्वानापादतलमस्तकम् ।
पश्चात् पादद्वये तद्वत् मूलाधारे तथैव च ।। ११ ।।
नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके ।
भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् ।। १२ ।।
वेदान्तसंमतप्रत्याहारः
देहे त्वात्ममतिं विद्वान् समाकृष्य समाहितः ।
आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ।। १३ ।।
प्. १८१) प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः ।
एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् ।। १४ ।।
किं बहुना- देहे इति ।। १३-१४ ।।
इति सप्तमः खण्डः
अष्टमः खण्डः
पञ्चभूतेषु धारणा
अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत ।
देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् ।। १ ।।
प्राणे बाह्यानिलं तद्वत् ज्वलने चाग्निमौदरे ।
तोयं तोयांशके भूमिं भूमिभागे महामुने ।। २ ।।
हयरावलकाराख्यं मन्त्रमुच्चारयेत् क्रमात् ।
धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ।। ३ ।।
जान्वन्तं पृथिवी ह्यंशो ह्यपां पायवन्तमुच्यते ।
हृदयांशस्तथाग्न्यंशो भ्रूमध्यान्तोऽनिलांशकः ।। ४ ।।
आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः ।
ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा ।। ५ ।।
अग्न्यंशे च महेशानमीश्वरं चानिलांशके ।
आकाशांशे माहाप्रज्ञ धारयेत्तु सदाशिवम् ।। ६ ।।
प्रत्याहारलक्षणमुक्त्वा धारणालक्षणमाह- अथेति ।। १##-
प्. १८२) आत्मनि धारणा
अथ वा तव वक्ष्यामि धारणां मुनिपुंगव ।
पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ।। ७ ।।
धारयेद्बुद्धिमान् नित्यं सर्वपापविशुद्धये ।
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ।। ८ ।।
सर्वकारणमव्यक्तमनिरूप्यमचेतनम् ।
साक्षादात्मनि संपूर्णे धारयेत् प्रणवे मनः ।
इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ।। ९ ।।
पुरुषे प्रतीचि स्वातिरिक्तसर्वग्रासतया शिवं धारयेत् । यद्वा-
पुरुषे परमात्मनि सर्वशास्तारं प्रत्यञ्चं धारयेत् ।। ७-९ ।।
इत्यष्टमः खण्डः
नवमः खण्डः
सवेशेषब्रह्मध्यानम्
अथातः संप्रवाक्ष्यामि ध्यानं संसारनाशनम् ।
ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् ।। १ ।।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं महेश्वरम् ।
सोऽहमित्यादरेणैव ध्यायेद्योगीश्वरेश्वरम् ।। २ ।।
धारणामुक्त्वा सविशेषनिर्विशेषब्रह्मध्यानमाह- अथेति ।
ऋतं कर्मफलमपरं ब्रह्म । सत्यं ज्ञानफलं प्रं ब्रह्म ।।
१-२ ।।
प्. १८३) निर्विशेषब्रह्मध्यानम्
अथ वा सत्यमीशानं ज्ञानमानन्दमद्वयम् ।
अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् ।। ३ ।।
तथास्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् ।
न रसं न च गन्धाख्यमप्रमेयमनूपमम् ।। ४ ।।
आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ।
अहमस्मीत्यभिध्यायेद्देहातीतं विमुक्तये ।। ५ ।।
अर्थजातमतीत्य ज्ञप्तिमात्रतया वर्तते इति अत्यर्थम् ।। ३ ।।
अनाकाशमित्यादिपञ्चविशेषणतः पञ्चभूतवैलक्षण्यमुक्तं
भवति ।। ४-६ ।।
ध्यानफलम्
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ।
क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः ।। ६ ।।
इति नवमः खण्डः
दशमः खण्डः
समाधिस्वरूपम्
अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् ।
समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ।। १ ।।
नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ।
एकः सन् भिद्यते भ्रान्त्या मायया न स्वरूपतः ।। २ ।।
प्. १८४) तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः ।
तथाकाशो घटाकाशो मठाकाश इतीरितः ।। ३ ।।
तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ।
नाहं देहो न च प्राणो नेन्द्रियाणि मनो न हि ।। ४ ।।
सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः ।
इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते ।। ५ ।।
ध्यानप्रकारमुक्त्वा समाधिप्रकारमाह- अथेति ।। १-२ ।।
यस्मादेवं तस्मात् । यथाकाश एव घटाकाशः ।। ३-६ ।।
ब्रह्ममात्रावशेषः
सोऽहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन ।
यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ।। ६ ।।
समुद्रे लीयते तद्वत् जगन्मययनुलीयते ।
तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि ।। ७ ।।
यस्यैव परमात्मायं प्रत्यग्भूतः प्रकाशितः ।
स तु याति च पुंभावं स्वयं साक्षात् परामृतम् ।। ८ ।।
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ।। ९ ।।
यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति ।
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ।। १० ।।
प्. १८५) यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
एकीभूतः परेणासौ तदा भवति केवलः ।। ११ ।।
यदा पश्यति चात्मानं केवलं परमार्थतः ।
मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतिः ।। १२ ।।
यस्मादेवं तस्मात् मनः मत्तः पृथक् नास्ति ।। ७ ।।
प्रत्यक्परचितोरेकत्वात् स्वयम् इत्यादि । स्वातिरिक्तप्रपञ्चे मायामात्रपदं
गते स्वयमेव निष्प्रतियोगिकब्रह्ममात्रमवशिष्यते इति
दर्शनोपनिषत्फलितोऽर्थः ।। ८-१२ ।।
उपसंहारः
एवमुक्त्वा स भगवान् दत्तात्रेयो महामुनिः ।
सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः ।। १३ ।।
इति ।।
आख्यायिकामुपसंहरति- एवमिति । इति शब्दो
दर्शनोपनिषट्परिसमाप्त्यर्थः ।। १३ ।।
इति दशमः खण्डः
श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना ।
दर्शनोपनिषद्व्याख्या लिखिता ब्रह्ममात्रगा ।।
दर्शनोपनिषद्व्याख्याग्रन्थस्तु द्विशतं स्मृतः ।।
इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे
नवतिसंख्यापूरकं दर्शनोपनिषद्विवरणं संपूरणम्
Sanskrit Wikisource, page "दर्शनोपनिषत्", revision 409205.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.