दक्षिणामूर्त्युपनिषत्
उपनिषद् · Sanskrit · ⏱ 3 min
अन्य नाम · Also known as दक्षिणामूर्त्युपनिषत्
Sanskrit text from Sanskrit Wikisource.
ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविन- मुपसमेत्य पप्रच्छुः केन त्वं चिरं जीवसि केन वानन्दमनुभवसीति ॥१॥
परमरहस्यशिव-तत्त्वज्ञानेनेति स होवाच ॥२॥
किं तत्परमरहस्यशिवतत्त्वज्ञानम् ।
तत्र को देवः ।
के मन्त्राः ।
को जपः ।
का मुद्रा ।
का निष्ठा ।
किं तज्ज्ञानसाधनम् ।
कः परिकरः ।
को बलिः ।
कः कालः ।
किं तत्स्थानमिति ॥३॥
स होवाच ।
येन दक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्वज्ञानम् ॥४॥
यः सर्वोपरमे काले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वा स देवः ॥५॥
अत्रैते मन्त्ररहस्यश्लोका भवन्ति ।
मेधा दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः ।
देवता दक्षिणास्यः ।
मन्त्रेणाङ्गन्यासः ॥६॥
ॐ आदौ नम उच्चार्य ततो भगवते पदम् ।
दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ।
अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् ।
समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् ।
अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥ ७ ॥
ध्यानम् ।
स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्यां ज्ञानमुद्रां कराग्रे ।
दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ ८ ॥
मन्त्रेण न्यासः ।
आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।
पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् ।
अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥ ९ ॥
मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः ।
आसीनश्चन्द्रखण्डप्रतिघटि जटाक्षीरगौरस्त्रिनेत्रो दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥ १० ॥
मन्त्रेण न्यासः ब्रह्मर्षिन्यासः -तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च ।
दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥ ११ ॥
ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् ।
मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥ १२ ॥
भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमालावीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ १३ ॥
मन्त्रेण न्यासः ।
[ब्रह्मर्षिन्यासः .]
तारं परं रमाबीजं वदेत्सांबशिवाय च ।
तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥ १४ ॥
वीणां करैः पुस्तकमक्षमालां बिभ्राणमभ्राभगलं वराढ्यम् ।
फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः सेव्यं वटाधः कृतनीडमीडे ॥ १५ ॥
विष्णू ऋषिरनुष्टुप् छन्दः ।
देवता दक्षिणास्यः ।
मन्त्रेण न्यासः ।
तारं नमो भगवते तुभ्यं वटपदं ततः ।
मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥ १६ ॥
वागीशाय तत: पश्र्चान्महाज्ञानपदं तत: ।
दायिने पदमुच्चार्य मायिने नम उद्धरेत् ॥ १७ ॥
आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥ १८ ॥
ध्यानम् । मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥ १९ ॥
मौनमुद्रा ।
सोऽहमिति यावदास्थितिः सा निष्ठा भवति ॥२०॥
तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् ॥२१॥
चित्ते तदेकतानता परिकरः ॥२२॥
अङ्गचेष्टार्पणं बलिः ॥२३॥
त्रीणि धामानि कालः ॥।२४॥
द्वादशान्तपदं स्थानमिति ॥२५॥
ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः ।
कथं वाऽस्योदयः ।
किं स्वरूपम् ।
को वाऽस्योपासक इति ॥२६॥
स होवाच ।
वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते ।
प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥ २७ ॥
मोहान्धकारे निःसारे उदेति स्वयमेव हि ।
वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥ २८ ॥
गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् ।
मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥ २९ ॥
तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् ।
उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥ ३० ॥
शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।
दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥ ३१ ॥
सर्गादिकाले भगवान्विरिञ्चिरुपास्यैनं सर्गसामर्थ्यमाप्य ।
तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा धन्यः सोपास्योपासको भवति धाता ॥ ३२ ॥
य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति ।
य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥३३॥
इति दक्षिणामुर्त्युपनिषत्समाप्त: ॥
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Sanskrit Wikisource, page "दक्षिणामूर्त्युपनिषत्", revision 232150.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.