🪷

चाक्षुष उपनिषद

Cakshusha Upanishada

उपनिषद् · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as चाक्षुष उपनिषद

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

॥ चाक्षुषोपनिषत् ॥

अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः। यच्चक्षूरोगाः सर्वतो नश्यंति। चाक्षुषी दीप्तिर्भविष्यतीति। अस्याश्चाक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः । गायत्री छन्दः । सूर्योदेवता । चक्षूरोगनिवृत्तये विनियोगः । ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितम् चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाहमन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्याय अक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः । हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति । न तस्य कुले अन्धो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति । विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपन्तं सहस्ररश्मिः शतधावर्तमानः पुरःप्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते आदित्याय । अहोवाहिन्यहोवाहिनी स्वाहा। ॐ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। अपध्वान्तमूर्णुहि पूर्द्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान्। पुण्डरीकाक्षाय नमः। पुष्करेक्षणाय नमः। अमलेक्षणाय नमः। कमलेक्षणाय नमः। विश्वरूपाय नमः।महाविष्णवे नमः।
इति चाक्षुषोपनिषत् संपूर्णा।

स्रोत · Source

Sanskrit Wikisource, page "चाक्षुष उपनिषद", revision 369112.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और उपनिषद्पुस्तकालय