🪷

ब्रह्मविद्योपनिषत्

Brahmavidyopanishat

उपनिषद् · Sanskrit · ⏱ 10 min

अन्य नाम · Also known as ब्रह्मविद्योपनिषत्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

ब्रह्मविद्या उपनिषद्

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥

प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः । रहस्यं ब्रह्मविद्याया ध्रुवाग्निं संप्रचक्षते ॥ १ ॥

ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥ २ ॥

तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः । तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य तु ॥ ३ ॥

ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च । आकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ ४ ॥

यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च । विष्णुश्च भगवान्देव उकारः परिकीर्तितः ॥ ५ ॥

सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च । ईश्वरः परमो देवो मकारः परिकीर्तितः ॥ ६ ॥

सूर्यमण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः । उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः ॥ ७ ॥

मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः । तिस्रो मात्रास्तथा ज्ञेया सोमसूर्याग्निरूपिणः ॥ ८॥

शिखा तु दीपसंकाशा तस्मिन्नुपरि वर्तते । अर्धमात्र तथा ज्ञेया प्रणवस्योपरि स्थिता ॥ ९ ॥

पद्मसूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा । सा नाडी सूर्यसंकाशा सूर्यं भित्त्वा तथा परा ॥ १० ॥

द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि । वरदः सर्वभूतानां सर्वं व्याप्येव तिष्ठति ॥ ११ ॥

कांस्यघण्टानिनादस्तु यथा लीयति शान्तये । ओङ्कारस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥ १२ ॥

यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते । धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते ॥ १३ ॥

वायुःप्राणस्तथाकाशस्त्रिविधो जीवसंज्ञकः । स जीवः प्राण इत्युक्तो वालाग्रशतकल्पितः ॥ १४ ॥

नाभिस्थाने स्थितं विश्वं शुद्धतत्त्वं सुनिर्मलम् । आदित्यमिव दीप्यन्तं रश्मिभिश्चाखिलं शिवम् ॥ १५ ॥

सकारं च हकारं च जीवो जपति सर्वदा । नाभिरन्ध्राद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् ॥ १६ ॥

तेनेदं निष्कलं विद्यात्क्षीरात्सर्पिर्यथा तथा । कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः ॥ १७ ॥

चतुष्कला समायुक्तो भ्राम्यते च हृदिस्थितः । गोलकस्तु यदा देहे क्षीरदण्डेन वा हतः ॥ १८ ॥

एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः । यावन्निश्वसितो जीवस्तावन्निष्कलतां गतः ॥ १९ ॥

नभस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात् । अनाहतध्वनियुतं हंसं यो वेद हृद्गतम् ॥ २० ॥

स्वप्रकाशचिदानन्दं स हंस इति गीयते । रेचकं पूरकं मुक्त्वा कुम्भकेन स्थितः सुधीः ॥ २१ ॥

नाभिकन्दे समौ कृत्वा प्राणापानौ समाहितः। मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् ॥ २२ ॥

दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे । अभिषिच्यामृतेनैव हंस हंसेति यो जपेत् ॥ २३ ॥

जरामरणरोगादि न तस्य भुवि विद्यते । एवं दिने दिने कुर्यादणिमादिविभूतये ॥ २४ ॥

ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान् । बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः ॥ २५ ॥

हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम् । यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम् ॥ २६ ॥

तस्य दास्यं सदा कुर्यात्प्रज्ञया परया सह । शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा भुवि ॥ २७ ॥

तत्कुर्यादविचारेण शिष्यः सन्तोषसंयुतः । हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया नरः ॥ २८॥.

आत्मानमात्मना साक्षाद्ब्रह्म बुद्ध्वा सुनिश्चलम् । देहजात्यादिसम्बन्धान्वर्णाश्रमसमन्वितान् ॥ २९ ॥

वेदशास्त्राणि चान्यानि पदपांसुमिव त्यजेत् । गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः ॥ ३० ॥

गुरुरेव हरिः साक्षान्नान्य इत्यब्रवीच्छृतिः ॥ ३१ ॥

श्रुत्या यदुक्तं परमार्थमेव तत्संशयो नात्र ततः समस्तम् । श्रुत्या विरोधे न भवेत्प्रमाणं भवेदनर्थाय विना प्रमाणम् ॥ ३२ ॥

देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः । आप्तोपदेशगम्योऽसौ सर्वतः समवस्थितः ॥ ३३ ॥

हंसहंसेति यो ब्रूयाद्धंसो ब्रह्मा हरिः शिवः । गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् ॥ ३४ ॥

तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः । पुरुषस्य शरीरेऽस्मिन्स बाह्याभ्यन्तरे तथा ॥ ३५ ॥

उल्काहस्तो यथालोके द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ ३६ ॥

पुष्पवत्सकलं विद्याद्गन्धस्तस्य तु निष्कलः । वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला ॥ ३७ ॥

निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः । उपायः सकलस्तद्वदुपेयश्चैव निष्कलः ॥ ३८ ॥

सकले सकलो भावो निष्कले निष्कलस्तथा । एकमात्रो द्विमात्रश्च त्रिमात्रश्चैव भेदतः ॥ ३९ ॥

अर्धमात्र परा ज्ञेया तत ऊर्ध्वं परात्परम् । पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते ॥ ४० ॥

ब्रह्मणो हृदयस्थानं कण्ठे विष्णुः समाश्रितः । तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः ॥ ४१ ॥

नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम् । परत्वात्तु परं नास्तीत्येवं शास्त्रस्य निर्णयः ॥ ४२ ॥

देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम् । तदन्तं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः ॥ ४३ ॥

मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते ॥ ४४ ॥

एतत्तु परमं गुह्यमेतत्तु परमं शुभम् । नातः परतरं किञ्चिन्नातः परतरं शुभम् ॥ ४५ ॥

शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् । गुह्याद्गुह्यतमं गोप्यं ग्रहणीयं प्रयत्नतः ॥ ४६ ॥

नापुत्राय प्रदातव्यं नाशिष्याय कदाचन । गुरुदेवाय भक्ताय नित्यं भक्तिपराय च ॥ ४७ ॥

प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् । दातास्य नरकं याति सिद्ध्यते न कदाचन ॥ ४८ ॥

गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः । यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा ॥ ४९ ॥

विषयी विषयासक्तो याति देहान्तरे शुभम् । ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः ॥ ५० ॥

ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते । चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः ॥ ५१ ॥

इत्येषं त्रिविधो ज्ञेय आचार्यस्तु महीतले । चोदको दर्शयेन्मार्गं बोधकः स्थानमाचरेत् ॥ ५२ ॥

मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते । प्रत्यक्षयजनं देहे संक्षेपाच्छृणु गौतम ॥ ५३ ॥

तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् । स्वयमेव तु संपश्येद्देहे बिन्दुं च निष्कलम् ॥ ५४ ॥

अयने द्वे च विषुवे सदा पश्यति मार्गवित् । कृत्वायामं पुरा वत्स रेचपूरककुम्भकान् ॥ ५५ ॥

पूर्वं चोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् । नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत् ॥ ५६ ॥

सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् । ज्ञानात्सायुज्यमेवोक्तं तोये तोयं यथा तथा ॥ ५७ ॥

एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः । तस्माद्योगं समादाय सर्वदुःखबहिष्कृतः ॥ ५८ ॥

योगध्यानं सदा कृत्वा ज्ञानं तन्मयतां व्रजेत् । ज्ञानात्स्वरूपं परमं हंसमन्त्रं समुच्चरेत् ॥ ५९ ॥

प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः । हंस एव परं सत्यं हंस एव तु शक्तिकम् ॥ ६० ॥

हंस एव परं वाक्यं हंस एव तु वादिकम् । हंस एव परो रुद्रो हंस एव परात्परम् ॥ ६१ ॥

सर्वदेवस्य मध्यस्थो हंस एव महेश्वरः । पृथिव्यादिशिवान्तं तु अकाराद्याश्च वर्णकाः ॥ ६२ ॥

कूटान्ता हंस एव स्यान्मातृकेति व्यवस्थिताः । मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित् ॥ ६३ ॥

हंसज्योतिरनूपम्यं मध्ये देवं व्यवस्थितम् । दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् ॥ ६४ ॥

सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् । निर्मलस्फटिकाकारं दिव्यरूपमनुत्तमम् ॥ ६५ ॥

मध्यदेशे परं हंसं ज्ञानमुद्रात्मरूपकम् । प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ ६६ ॥

पञ्चकर्मेन्द्रियैरुक्ताः क्रियाशक्तिबलोद्यताः । नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ६७ ॥

पञ्चज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलोद्यताः । पावकः शक्तिमध्ये तु नाभिचक्रे रविः स्थितः ॥ ६८ ॥

बन्धमुद्रा कृता येन नासाग्रे तु स्वलोचने । अकारेवह्निरित्याहुरुकारे हृदि संस्थितः ॥ ६९ ॥

मकारे च भ्रुवोर्मध्ये प्राणशक्त्या प्रबोधयेत् । ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः ॥ ७० ॥

रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना । अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः ॥ ७१ ॥

मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः । कण्ठं सङ्कुच्य नाड्यादौ स्तम्भिते येन शक्तितः ॥ ७२ ॥

रसना पीड्यमानेयं षोडशी वोर्ध्वगामिनि । त्रिकूटं त्रिविधा चैव गोलाखं निखरं तथा ॥ ७३ ॥

त्रिशङ्खवज्रमोङ्कारमूर्ध्वनालं भ्रुवोर्मुखम् । कुण्डलीं चालयन्प्राणान्भेदयन्शशिमण्डलम् ॥ ७४ ॥

साधयन्वज्रकुम्भानि नवद्वाराणि बन्धयेत् । सुमनःपवनारूढः सरागो निर्गुणस्तथा ॥ ७५ ॥

ब्रह्मस्थाने तु नादः स्याच्छाकिन्यामृतवर्षिणी । षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् ॥ ७६ ॥

सर्वभूतस्थितं देवं सर्वेशं नित्यमर्चयेत् । आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् ॥ ७७ ॥

दृश्यन्तं दिव्यरूपेण सर्वव्यापी निरञ्जनः । हंस हंस वदेद्वाक्यं प्राणिनां देहमाश्रितः . सप्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते ॥ ७८ ॥

सहस्रमेकं द्वयुतं षट्शतं चैव सर्वदा । उच्चरन्पठितो हंसः सोऽहमित्यभिधीयते ॥ ७९ ॥

पूर्वभागे ह्यधोलिङ्गं शिखिन्यां चैव पश्चिमम् । ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः ॥ ८० ॥

अच्युतोऽहमचिन्त्योऽहमतर्क्योऽहमजोऽस्म्यहम् । अप्राणोऽहमकायोऽहमनङ्गोऽस्म्यभयोऽस्म्यहम् ॥ ८१ ॥

अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयः । अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् ॥ ८२ ॥

अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् । अप्राणोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् ॥ ८३ ॥

अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः । अगोत्रोऽहमगात्रोऽहमचक्षुष्कोऽस्म्यवागहम् ॥ ८४ ॥

अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः । अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् ॥ ८५ ॥

अवायुरप्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् । अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् ॥ ८६ ॥

अरजस्कोऽतमस्कोऽहमसत्त्वोस्म्यगुणोऽस्म्यहम् । अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥ ८७ ॥

अद्वैतोऽहमपूर्णोऽहमबाह्योऽहमनन्तरः । अश्रोतोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः ॥ ८८ ॥

अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः । अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमद्वयः ॥ ८९ ॥

अविद्याकार्यहीनोऽहमवाग्रसनगोचरः । अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यविज्वलन् ॥ ९० ॥

आदिमध्यान्तहीनोऽहमाकाशसदृशोऽस्म्यहम् । आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः ॥ ९१ ॥

आनन्दामृतरूपोऽहमात्मसंस्थोहमन्तरः । आत्मकामोहमाकाशात्परमात्मेश्वरोस्म्यहम् ॥ ९२ ॥

ईशानोस्म्यहमीड्योऽहमहमुत्तमपूरुषः । उत्कृष्टोऽहमुपद्रष्टा अहमुत्तरतोऽस्म्यहम् ॥ ९३ ॥

केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः । गुहाशयोऽहं गोप्ताहं चक्षुषश्चक्षुरस्म्यहम् ॥ ९४ ॥

चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् । ज्योतिर्मयोऽस्म्यहं ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् ॥ ९५ ॥

तमसः साक्ष्यहं तुर्यतुर्योऽहं तमसः परः । दिव्यो देवोऽस्मि दुर्दर्शो दृष्टाध्यायो ध्रुवोऽस्म्यहम् ॥ ९६ ॥

नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः । निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः ॥ ९७ ॥

निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् । निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥ ९८ ॥

पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् । परावरोऽस्म्यहं प्राज्ञः प्रपञ्चोपशमोऽस्म्यहम् ॥ ९९ ॥

परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः । पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ॥ १०० ॥

प्रज्ञातोऽहं प्रशान्तोऽहं प्रकाशः परमेश्वरः । एकदा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः ॥ १०१ ॥

बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् । महाज्ञेयो महानस्मि महाज्ञेयो महेश्वरः ॥ १०२ ॥

विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् । वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ॥ १०३ ॥

विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् । शुद्धोऽस्मि शुक्रः शान्तोऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥ १०४ ॥

सर्वभूतान्तरात्महमहमस्मि सनातनः । अहं सकृद्विभातोऽस्मि स्वे महिम्नि सदा स्थितः ॥ १०५ ॥

सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् । सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् ॥ १०६ ॥

समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः । सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ॥ १०७ ॥

स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् । सच्चिदानन्द पूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् ॥ १०८ ॥

सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्घनः । सत्त्वस्वरूपसन्मात्रसिद्धसर्वात्मकोऽस्म्यहम् ॥ १०९ ॥

सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरोऽस्म्यहम् । सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् ॥ ११० ॥

एवं यो वेद तत्त्वेन स वै पुरुष उच्यत इत्युपनिषत् ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
।।इति ब्रह्मविद्योपनिषत्समाप्ता ।।

अधिकाध्ययनाय

http://sanskritdocuments.org

स्रोत · Source

Sanskrit Wikisource, page "ब्रह्मविद्योपनिषत्", revision 58182.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और उपनिषद्पुस्तकालय