भिक्षुकोपनिषत्
उपनिषद् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as भिक्षुकोपनिषत्
Sanskrit text from Sanskrit Wikisource.
भिक्षूणां पटलं यत्र विश्रान्तिमगमत्सदा ।
तन्त्रैपदं ब्रह्मतत्त्वं ब्रह्ममात्रं करोतु माम् ॥
ॐ पूर्णमदः पूर्णमिदं
पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ अथ भिक्षूणां मोक्षार्थिनां
कुटीचकबहूदकहंसपरमहंसाश्वेति चत्वारः ।
कुटीचका नाम गौतमभरद्wआजयाज्ञवल्क्यवसिष्ट
प्रभृतयोऽष्टौ ग्रासांश्वरन्तो
योगमार्गे मोक्षमेव प्रार्थयन्ते ।
अथ बहूदका नाम त्रिदण्डकमण्डलुशिखा
यज्ञोपवीतकाषायवस्त्रधारिणो
ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाष्टौ
ग्रासान्भैक्षाचरणं कृत्वा
योगमार्गे मोक्षमेव प्रार्थयन्ते ।
अथ हंसा नाम ग्राम एकरात्रं नगरे पञ्चरात्रं
क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः ।
गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा
योगमार्गे मोक्षमेव प्रार्थयन्ते ।
अथ परमहंसा नाम संवर्तकारुणिश्वेतकेतुजडभरत
दत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ
ग्रासांश्वरन्तो
योगमार्गे मोक्षमेव प्रार्थयन्ते ।
वृक्षमूले शून्यगृहे श्मशानवासिनो वा
साम्बरा वा दिगम्बरा वा ।
न तेषां धर्माधर्मौ लाभालाभौ
शुद्धाशुद्धौ द्वैतवर्जिता समलोष्टाश्मकाञ्चनाः
सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेति पश्यन्ति ।
अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः
शुक्लध्यानपरायणा आत्मनिष्टाः प्राणसंधारणार्थे
यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृह
तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिन
गिरिकन्दरकुहरकोटरनिर्झरस्थण्डिले तत्र ब्रह्ममार्गे
सम्यक्संपन्नाः शुद्धमानसाः परमहंसाचरणेन
संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं
पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति भिक्षुकोपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "भिक्षुकोपनिषत्", revision 100471.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.