भावोपनिषत्
उपनिषद् · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as भावोपनिषत्
Sanskrit text from Sanskrit Wikisource.
॥ अथ भावोपनिषत॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा
भद्रम् पष्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्तुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
आत्मानमखण्दमण्दलाकारमवृत्य सकलब्रह्मान्दमन्दलं
स्वप्रकाशं ध्यायेत् । श्रीगुरुः सर्वकारणभूता शक्त्तिः ॥ १॥
तेन नवरन्ध्ररूपो देहः ॥ २॥
नवचक्ररूपं श्रीचक्रम् ॥ ३॥
वाराही पितृरूपा कुरुकुल्ला बलिदेवता माता ॥ ४॥
पुरुषा।र्थाः सागराः ॥ ५॥ देहो नवरत्नद्वीपः ॥ ६॥
त्वगादि सप्त्तधातुरोमसंयुक्त्तः ॥ ७॥
संकल्पाः कल्पतरवस्तेजः कल्पकोद्यानम् ॥ ८॥
रसनया भाव्यमाना मधुराम्लतिक्त्तकटुकषायलवणरसाः षडृतवः ॥ ९॥
ज्ञानमर्ध्यम् ज्ञेयम् हविर्ज्ञाता होता
ज्ञातृज्ञानज्ञेयानामभेदभवनम् श्रीचक्रपूजनम् ॥ १०॥
नियतिः श्रृङ्गारादयो रसा अणिमादयः ॥ ११॥
कामक्रोधलोभमोहमदमात्स।र्यपुण्यपापमया
ब्राह्म्याद्ययषटशक्त्तयः ॥ १२॥
आधरनवकम् मुद्राशक्त्तयः ॥ १३॥
पृथिव्यप्तेजोवाइवाकाशाश्रोत्रत्वक्चक्षुर्जिह्वघ्राण
वाक्पाणिपादपायूपस्थानि मनोविकाराः
कामाकर्षिण्यादि षोदश शक्त्तयः ॥ १४॥
वचनादानागमनविसर्गानन्दहानोपादानोपेक्षाख्य
भुद्धयोऽनङ्गकुसुमाद्यष्टौ ॥ १५॥
अलम्बुसा कुहुर्विश्वोदरा वारणा हस्तिजिह्वा यशोवती पयस्विनी
गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति
चतुर्दश नाड्यः सर्वसंक्ष्होभिण्यदि चतुर्दशशक्त्तयः ॥ १६॥
प्राणापानव्यानोदानसमाननागकू।र्मकृकरदेवदत्तधनंजया
दशवायवः सर्वसिद्धिप्रदादिबहिर्दशारदेवताः ॥ १७॥
एतद्वायुसंसर्गकोपाधिभेधेन रेचकः पाचकः शोषको
दाहकः प्लावक इति प्राणमुख्यवेन पंचधा जठराग्निर्भवति॥ १८॥
क्षारक उद्धारकः क्षोभको जृंभको मोहक इति
नागप्राधान्येन पंचबिधास्ते मनुष्याणां देहगा
भक्ष्ह्यभोज्यशोष्यलेह्यपेयात्मकपञ्चविधमन्नं पाचयन्ति॥ १९॥
एता दशवह्निकलाः सर्वज्ञाद्या अन्तर्दशारदेवताः ॥ २०॥
शीतोष्णासुखदुःखेच्छाः सत्त्वं रजस्तमो
वशिन्यादिशक्त्थयोअष्तौ ॥ २१॥
शब्दादि तन्मात्त्राः पंचपुष्पबाणाः ॥ २२॥ मन इक्ष्हुधनुः ॥ २३॥
रागः पाशः ॥ २४॥ द्वेषोऽङ्कुशः ॥ २५॥
अव्यक्त्त महदहंकाराः कामेक्ष्वरी वज्रेश्वरी
भगमालिन्योऽन्तस्त्त्रिकोणगा देवताः ॥ २६॥
निरुपाधिकसंविदेव कामेश्वर ॥ २७॥
सदानन्दपूर्ण स्वात्मेव परदेवता ललिता ॥ २८॥
लौहित्यमेतस्य सर्वस्य विमर्श ॥ २९॥
अनन्यचित्तत्वेन च सिद्धिः ॥ ३०॥ भावनायाः क्रिया उपचरः ॥ ३१॥
अहं त्वमस्ति नास्ति कर्तव्यमकर्तव्यमुपासितव्यमिति
विकल्पानामात्मनि विलापनम् होमः ॥ ३२॥
भवनाविषयाणामभेदभवना तर्पणम् ॥ ३३॥
पंचदशतिथिरूपेण कालस्य परिणामावलोकनम् ॥ ३४॥
एवमं मुहूर्तत्त्रितयं मुहूर्तद्वितयं मुहूर्तमात्त्रं वा
भावनापरो जीवन्मुक्त्तो भवति स एव शिवयोगीति गद्यते॥ ३५॥
आदिमतेनान्तश्चक्रभावनाः प्रतिपादिताः ॥ ३६॥
य एवं वेद सोऽथर्वशिरोऽधीते ॥ ३७॥
इत्युपनिषत् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं
पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु।
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति भावोपनिषत् ॥
Sanskrit Wikisource, page "भावोपनिषत्", revision 413300.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.