अल्लोपनिषत्
उपनिषद् · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as अल्लोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
दिव्यानि धत्ते धत्ते दिव्यानि दिव्यानि धत्ते । धत्त इलल इलले धत्ते धत्त इलले । धत्त इति धत्ते । इलले वरुणो वरुण इलल इलले वरुणः । इलल इति इलले । वरुणो राजा राजा वरुणो वरुणो राजा । राजा पुनर्दु: पुनर्दू राजा राजा पुनर्दुः । पुनर्दुरिति पुनः दुः । ह्वयामि मित्रो मित्रो ह्वयामि ह्वयामि मित्र: । मित्र इलामिलां मित्रो मित्र इलाम् । इलामिलल इलल इलामिलामिलले । इलल इलामिलामिलल इलल इलाम । इलां वरुणो वरुण इलामलां वरुणः । वरुणो मित्रो मित्रो वरुणो वरुणो मित्रः । मित्रस्तेजस्कामस्तेजस्कामो मित्रो मित्रस्तेजस्कामः । तेजस्काम इति तेजः कामः ॥ १ ॥
अयामिलामिलामयामयामिलाम् । इलां त्वं त्वमिलामलां त्वम् । त्वमर्यममर्यमं त्वं त्वमर्यमम् । अर्यमं वरुणो वरुणोऽर्यममर्यमं वरुणः । वरुणो दध्म दध्म वरुणो वरुणो दध्म । दध्म दीर्घायुर्दीर्घायुर्दध्म दध्म दीर्घायुः । दीर्घायुर्वहते वहते दीर्घायुर्दीर्घायुर्वहने । दीर्घायुरिति दीर्घ आयुः । वहते सुयः सुयो वहते वहते सुयः । सुय इति सुयः । होतारमिन्द्र इन्द्रो होतारं होतारमिन्द्रः । इन्द्रो होतारं होतारमिन्द्र इन्द्रोहोतारम् । इन्द्रो महासुरेन्द्रो महासुरेन्द्र इन्द्र इन्द्रो महासुरेन्द्रः । महासुरेन्द्रः सप्तऋषयः सप्तऋषयो महासुरेन्द्रो महासुरेन्द्रः सप्तऋषयः । सप्तऋषयः सं सं सप्तऋषयः सप्तऋषयः सम् । सप्तऋषय इति सप्त ऋषयः । सं तुष्ट तुष्ट सं सं तुष्ट । तुष्ट देवा देवास्तुष्ट तुष्ट देवाः । देवा इति देवाः ॥ २ ॥
इलामिलामिलामिलामिलाम् । इलेलाकबबर्होऽकबर्ह इलेलाकबर्होऽकबर्ह इलेलाकबर्होऽकबर्ह इलेलाकबर्होऽकबर्ह इलेलाकबर्होऽकबर्हः । अकबर्होऽस्म्यकबर्होऽस्म्यकबर्होऽस्म्यकबर्होऽस्मि ॥ ३ ॥
इति अल्ला-उपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.