विराटपर्व

अध्यायः ५४

Virata Parva (Sanskrit) · Adhyaya 54
अक्षर का आकार

वैशंपायन उवाच।

तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।
उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् ।।

ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ।।

त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः ।
संनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् ।।

राजानं नात्र पश्यामि रथानीके व्यवस्थितम्।
दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः ।।

उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम्।
गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् ।।

गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय ।
यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो ।।

वैशंपायन उवाच।

इत्युक्त्वा समरे पार्थो वैराटिमपराजितः ।
सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ।।

ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम्।
द्वाभ्यांद्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात् ।।

द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत्।
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत्।।

महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ।
न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् ।
अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे ।।

एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते।
मेघःक सविद्युत्स्तनितो रोरवीति च वानरः ।।

आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः ।।

अश्वानां स्तनतां शब्दो वहतां पाकशासनिम्।
रथस्याम्बुधरस्येव श्रूयते भृशदारुणः ।।

दारयन्निव तेजस्वी वसुधां वासवात्मजः ।
एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः।

श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ।।
इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ ।

रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ।।
इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः ।

संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ।।
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः ।

अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ।।
निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम् ।

अभिवादयते पार्थः पूजयन्मामरिंदमः ।।
अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः।

अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ।।
द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च ।

ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ।।
रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी।

खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि चतुःपञ्चाशोऽध्यायः ।। 54 ।।