विराटपर्व
अध्यायः ५३
वैशंपायन उवाच।
ततः सुदर्शनं नाम प्रासादं हरिवाहनः ।
सर्वान्देवान्समारोष्य प्रययो यत्र पाण्डवः ।।
स्थूणाराजिसहस्रं तु यत्र मध्ये प्रतिष्ठितम् ।
तत्र सूर्यपथेऽतिष्ठद्विमला महती सभा ।।
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ।
तत्र श्वेतानि चक्राणि काञ्चनस्फाटिकानि च ।।
तथा चित्राणि छत्राणि दिव्यरूपाणि भारत ।
मणिरत्नविचित्राणि नानारूपाणि भागशः ।
आकाशे सह दृश्यन्ते भानुमन्ति शुभानि च ।।
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च।
तथा धातुर्विधातुश्च मित्रस्य धनदस्य च।
रुद्रस्य विष्णो सवितुस्त्रिदशानां तथैव च।।
काञ्चनानि च दामानि विविधाश्चोत्तमस्रजः।
दिव्यपुष्पाभिसवीतास्तत्र चित्राणि भेजिरे ।।
तस्मिंस्तु राजन्प्रासादे दिव्यरत्नविभूषिते ।
दिव्यगन्धसमायुक्ताः स्रजो दिव्याश्चकाशिरे ।।
दिव्यश्च वायुः प्रववौ गन्धमादाय सर्वशः ।
ऋतवः पुष्पमादाय समतिष्ठन्त भारत ।।
प्रजानां पतयः सप्त सप्त चैव महर्षभः।
तत्र देवर्षयश्चैव देवराजं दिवौकसः ।
इन्द्रेण सहिताः सर्वे त्रिदशाश्च व्यवस्थिताः ।।
न पङ्को न रजस्तत्र प्रविवेश कथंचन ।
आदित्यश्च विरूक्षोत्र नातिवेलमिवातपत् ।।
दिव्यगन्धं समादाय वायुस्तत्राभिगच्छति।
आकाशं च दिशः सर्वा दर्शनीयमदृश्यत ।।
तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् ।
अम्बरे विमलेऽतिष्ठन्प्रासादं कामगामिनम् ।।
तत्र राजर्षयश्चैव समारुह्य दिवौकसः ।
श्वेतो राजा वसुमनास्तथा भद्रः प्रदर्शनः ।।
नृगो ययातिर्नहुपो मान्धात भरतः कुरुः ।
अष्टकश्च शिबिश्चोभौ स च राजा पुरूरवाः ।।
डम्भोद्भवः कार्तवीर्यो ह्यर्जुनः सगरस्तथा।
दिलीपः केरलः पूरुः शर्यातिः सोमकस्तदा ।।
हरिश्चन्द्रश्च तेजस्वी रघुर्दशरथस्तथा।
भगीरथश्च राजर्षिः सर्वे च जनमेजय।।
पाण्डुश्चैव महाराजश्चामरव्यजनोज्ज्वलः।
छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः ।।
एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः ।
कीर्तिमन्तो महावीर्यास्तत्रैवासन्दिवि स्थिताः ।।
गणाश्चाप्सरसां सर्वे गन्धर्वाश्चापि सर्वशः ।
दैत्यराक्षसयक्षाश्च सुपर्णाः पन्नगास्तथा ।।
वासवप्रमुखाः सर्वे देवाश्च सगणेश्वराः ।
आसंस्तत्र समारूढाः संग्रामं तं दिदृक्षवः ।।
इत्यम्बरे व्यवस्थाय प्रासादस्था दिवौकसः ।
एकस्य च बहूनां च युद्धं द्रुष्टुं व्यवस्थिताः ।।
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ।।