विराटपर्व
अध्यायः ५५
वैशंपायन उवाच।
तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् ।
नारयः प्रेक्षितुं शेकुस्तपन्तं हि यथा रविम् ।।
स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत् ।
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम।
यावत्समीक्षे व्यूहेऽस्मिन्मम शत्रुं सुयोधनम् ।।
रक्तवैडूर्यविकृतं मणिप्रवरभूषितम् ।
परं जानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम् ।।
यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् ।
यमाय प्रेषयिष्यामि सहायः स्याद्यदीश्वरः ।।
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् ।
सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि ।।
हनिष्यामि तमेवाद्य शरैर्गाण्डीवनिःसृतैः ।
तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः ।।
शरैश्च शमयिष्येऽहं धार्तराष्ट्रं ससौबलम् ।
असभ्यानां च वक्तारं कुरूणां किल किल्विषम् ।।
राजानं नेह पश्यामि निरापिषमिदं बलम्।
अभिद्रेव ह राजानं व्यक्तमित्यत्र निर्भयः ।।
आस्थितो मध्यमाचार्योप्यश्वत्थामाऽप्यनन्तरम्।
कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ ।।
भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः ।
दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः ।।
साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः।
दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रितः।।
पृष्ठतः कुरुमुख्यश्च भीष्मस्तिष्ठति दंशितः।
सोऽर्धसैन्येन बलवान्सर्वेषां नः पितामहः ।।
दुर्योधनं न पश्यामि क्व नु राजा स तिष्ठति।
उत्सृंज्यैतद्रथानीकं याहि यत्र सुयोधनः ।।
तं हत्वा संनिवर्तिष्ये गाः स आदाय गच्छति।
गवाग्रमभितो याहि यत्र राजा भविष्यति ।।
वैशंपायन उवाच।
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः।
संस्पृशानो धनुर्दिव्यं त्वरमाणोऽगमत्तदा ।।
ततो भीष्मोऽब्रवीद्वाक्यं कुरुमध्ये परंतपः।
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः ।
अतीव ज्वलते लक्ष्म्या पाकशासनिरागतः।
एष दुर्योधनं पार्थो मार्गते निकृतिं स्मरन् ।।
सेनामत्यर्थमालोक्य त्वरते ग्रहणेऽस्य च।
मृगं सिंह इवादातुमीक्षते पाकशासनिः ।।
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमर्हति।
तस्य पार्ष्णि ग्रहीष्यामो जवेनाभिप्रधावतः ।।
न ह्येनमभिसंक्रुद्धमेको युद्ध्येत संयुगे।
अन्यो देवान्महादेवात्कृष्णाद्वा देवकीसुतात्।
आचार्याच्च सपुत्राद्वा भारद्वाजान्महारथात् ।।
किं नो गावः करिष्यन्ति द्रव्यं वा विपुलं तथा।
दुर्योधनः पार्थगतः पुरा प्राणान्विमुञ्चति ।।
वैशंपायन उवाच।
इत्युक्त्वा समरे भीष्मः सेनया सह कौरवः।
अन्वधावत्तदा पार्थं धार्तराष्ट्रस्य रक्षणे ।।
विक्रोशमात्रं यात्वा तु पार्थो वैराटिमब्रवीत्।
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम ।।
एतदग्रं गवां दृष्टं मन्दं वाहय सारथे।
याह्युत्तरेण सेनाया गाश्चैव प्रविभज्य च ।।
परिक्षिप्य गवां यूथमत्र योत्स्ये सुयोधनम् ।
गच्छन्ति सत्वरा गावः सगोपाः परिमोचय ।।
तत्र गत्वा पशून्वीर सगोपान्परिमोचय।
अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर ।।
इमे त्वतिरथाः सर्वे मम वीर्यपराक्रमम्।
पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः ।।
वैशंपायन उवाच।
ततः स रथिनां श्रेष्ठो नाम विश्राव्य चात्मनः।
निशिताग्राञ्शरांस्तीक्ष्णान्मुमोचांतकसन्निभान् ।।
शलभैरिव चाकाशं धाराभिरिव पर्वतम्।
निरावकाशमभवच्छरैः क्षिप्तैः किरीटिना ।।
विकीर्यमाणास्तु शरैस्ते योधा धार्तराष्ट्रिकाः।
गाश्चैव न च पश्यन्ति पार्थमुक्तैरजिह्मगैः ।।
सा चापि बहुला सेना पार्थबाणाभिपीडिता।
नापश्यद्विवृतां भूमिं नान्तरिक्षं दिशोपि वा ।।
अर्जुनस्तु तदा हृष्टो दर्शयन्वीर्यमात्मनः।
पीडयामास सैन्यानि गाण्डीवप्रसृतैः शरैः ।।
तेषां नैवापयाने च नाभियाने भवन्मतिः ।
शीघ्रतामेव पार्थस्य पूजयन्तस्तु विस्मिताः ।।
चन्द्रावदातं सामुद्रं कुरुसैन्यभयंकरम्।
ततः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम्।
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् ।।
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च।
शब्देनामानुषाणां च भूतानां ध्वजवासिनाम् ।
वियद्गतानां देवानां मानुषाणां रवेण च।।
ऊर्ध्वं पुच्छं विधून्वाना हेममाणाः समन्ततः ।
गावः सवत्साः संत्रस्ता निवृत्ता दक्षिणां दिशं ।।
ततः स समरे शूरो बीभत्सुः शत्रुपूगहा।
गोपालांश्चोदयामास गावश्चोदयतेति च ।।
उत्तरं चाह बीभत्सुर्हर्षयन्पाण्डुनन्दनः ।
गवामग्रं समीक्षस्व गश्चैवाशु निवर्तय ।।
यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
याह्युत्तरेण गाश्चैताः सैन्यानां च नृपात्मज ।।
पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम् ।।
वैशंपायन उवाच।
ते लाभमिव मन्वानाः कुरवोऽर्जुनमाहव।
दृष्टवा यान्तमदूरस्थं क्षिप्रमभ्यपतन्रथैः ।।
हस्त्यश्वपरिवारेण महताऽभिविराजता।
योधैः प्रासासिहस्तैश्च चापबाणोद्यतायुधैः ।।
तान्यनीकान्यशोभन्त कुरूणामाततायिनाम्।
संसर्पन्त इवाकाशे विद्युत्वन्तो वलाहकाः ।।
तानि दृष्ट्वाऽप्यनीकानि निवर्तितरथानि च।
पार्थोऽपि वायुवद्धोरं सैन्याग्रं व्यधुनोच्छरैः ।।
तां शत्रुसेनां तरसा प्रणुद्य गाश्चापि जित्वा धनुषा परेण।
दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाऽभ्यगच्छन् ।।
गोषु प्रयातासु जवेन मात्स्यान्किरीटिनं प्रीतियुतं च दृष्ट्वा।
पशून्समादाय ततो निवृत्ता गोपाः समस्ताः प्रययुश्च राष्ट्रम् ।।
।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि पञ्चपञ्चासोऽध्यायः ।। 55 ।।