विराटपर्व

अध्यायः ४७

Virata Parva (Sanskrit) · Adhyaya 47
अक्षर का आकार

वैशंपायन उवाच।

ततो दुर्योधनो राजा समरे भीष्ममब्रवीत्।
द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम् ।।

उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत्।
पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन् ।।

पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् ।
वने जनपदेऽज्ञातैरेष एव पणो हि नः ।।

तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः ।
अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः।।

अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः ।
पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः ।।

लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत्।
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति।।

अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः ।
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ।।

उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् ।
यदि बीभत्सुरायातः किंतु कृत्यमतः परम् ।।

त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् ।
विप्रकारैर्हि मात्स्येन सुशर्मा बाधित पुरा ।।

तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम् ।
अभयं याचमानानां तदाऽस्माभिः परिश्रुतम् ।।

प्रथमं वैर्ग्रहीतव्यं मात्स्यानां गोधनं महत्।
अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम् ।।

नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति।
इमा गावो ग्रहीतव्या याते मत्स्ये गवांपदम् ।।

इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये ।
पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् ।।

ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः।
अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन संगतिम् ।।

अथवा तानुपादाय मात्स्यो जानपदैः सह ।
सर्वथा सेनया सार्धमस्मानेष युयुत्सति ।।

तेषामेको महावीर्यः कश्चिदेव पुनःसरः।
अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत् ।।

यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः ।
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ।।

अथ कस्मात्थिता ह्येते रथेषु रथिसत्तमाः ।
भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च।
संभ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये ।।

नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽऽत्मा प्रणिधीयताम् ।
सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः ।।

अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा।
यमेन वाऽपि संग्रामे को हास्तिनपुरं व्रजेत् ।।

शरैरभिप्रणुन्नानां भग्नानां गहने वने ।
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ।।

आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ।
जानामि च मतं तेषामतस्त्रासयतीव नः।।

अर्जुने चापि संप्रीतिमधिकामुपलक्षये ।
तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति ।
यथा सेना न भज्येत तथा नीतिर्विधीयताम् ।।

अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता।
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ।।

अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे ।
स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः ।।

सदा च वायवो वान्ति नित्यं वर्षति वासवः ।
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ।।

भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान्।
प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते ।।

यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः ।
हेषितानीव शृण्वन्ति तदिदं भवतस्तथा ।।

किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते।
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम् ।।

आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः ।
नैते महाहवे घोरे संप्रष्टव्याः कथंचन ।।

प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च।
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र सोभनः ।।

बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि ।
इष्वस्त्रे चापसंधाने पण्डितास्तत्र शोभनाः ।।

परेषां विवरज्ञाने मनुष्याचरितेषु च।
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ।।

पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः ।
विधीयतां तथा नीतिर्यथा वध्येत वै परः ।।

गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम्।
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि सप्तचत्वारिंशोऽध्यायः ।। 47 ।।