विराटपर्व
अध्यायः ४८
कर्ण उवाच।
सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये।
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ।।
यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः ।
वासुदेवेन सहितो यदि बीभत्सुरागतः।
अहमेनं निरोत्स्यामि वेलेव वरुणालयम् ।।
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया।
छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः ।।
मम चापप्रमुक्तानां शराणां नतपर्वणाम् ।
निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव ।।
शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् ।
श्रूयते तलयोः शब्दो भेर्योराहतयोरिव ।।
एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम्।
हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान् ।।
मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः ।
खद्योतैरिव संपृक्तमन्तरिक्षं विराजताम् ।।
ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ।।
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् ।
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ।।
क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् ।
स्थितं संग्रामशिरसि पार्थमेकाकिनं किमु ।।
समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च ।
जातस्नेहश्च युद्धस्य मयि संदर्शयिष्यति ।।
पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव ।
शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव ।।
एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः ।
अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित् ।।
मम हस्तप्रमुक्तानां शराणां नतपर्वणाम्।
निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम् ।।
इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् ।
तुगुलः श्रूयतां नादः षट्पदां गायतामिव ।।
अन्तरा संपतद्भिस्तु गृध्रपत्रैः शिलाशितैः ।
शलभानामिवाकाशे छाया संप्रति दृश्यताम् ।।
अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः।
शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः ।।
बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव ।
पततां पततां घोषः पततां पततामिव ।।
अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् ।
धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम् ।।
इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम्।
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ।।
शरजालमहाज्वालमसिशक्तिगदेन्धनम् ।
निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम् ।।
रथादतिरथं लोके सर्वशस्त्रभृतांवरम् ।
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् ।।
क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः ।
संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम् ।।
अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् ।
समूलमपनेष्यामि हरन्पार्थशिरः शरैः ।।
अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः।
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् ।
निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ।।
जामदग्न्यान्मया लब्धं दिव्यास्रमृषिसत्तमात्।
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ।।
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ।।
कामं गच्छन्तु कुरवो गाः प्रगृह्य परंतपाः ।
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ।।
।। इति श्रीमन्माहाभारते विराटपर्वणि
गोग्रहणपर्वणि अष्टचत्वारिंशोऽध्यायः ।। 48 ।।