विराटपर्व

अध्यायः ४६

Virata Parva (Sanskrit) · Adhyaya 46
अक्षर का आकार

वैशंपायन उवाच।

भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः।
राजानं चाह संप्रेक्ष्य दुर्योधनमरिंदमः ।।

यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते।
कम्पते च यथा भूमिर्नैषोन्यः सव्यसाचिनः ।।

औत्पातिकमिदं राजन्निमित्तं भवतीह नः।
न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप ।।

शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः ।
अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः ।।

प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च।
शकुनाश्चापसव्याश्च वेदयन्ति महाभयम् ।।

गोमायुरेष सैन्यानां रुदन्मध्येन धावति।
चाषा नदन्ति चाकाशे वेदयन्तो महद्भयम् ।।

भवतां चैव रोमाणि प्रहृष्टानीव लक्षये ।।

अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः ।
विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः ।।

लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः ।
न च सूर्यः प्रतपति महद्वेदयते भयम् ।।

हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः ।
पराभूता च वः सेना न कश्चिद्योद्भुमिच्छति ।।

विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ।
दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः ।।

मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः।
वादित्रोद्धृष्टघोषाश्च न च गाढं स्वनन्ति च।
ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम् ।।

यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः।
श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात् ।।

अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् ।
वानरस्य रथे दिव्यो निस्वनः श्रूयते महान् ।।

शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ ।
सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात् ।।

राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम्।
गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः ।
प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि ।।

शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः।
मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति ।।

न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि ।
दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुन ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि षट्चत्वारिंशोऽध्यायः ।। 46 ।।