विराटपर्व
अध्यायः ४५
वैशंपायन उवाच।
उत्तरं सांरथिं कृत्वा शमीं कृत्वा प्रदक्षिणम्।
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ।।
ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च।
प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे ।।
ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम् ।
दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा ।
मनसा चिन्तयामास प्रसादं पावकस्य च ।।
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत्।
रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः ।।
सपताकं विचित्राङ्गं सोपासङ्गं महाबलम्।
खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम् ।।
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः।
बद्धासिः सतलत्राणः प्रगृहीतशरासनः ।
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ।।
सैन्याभ्याशं स संप्राप्य गृहीत्वा शङ्खमुत्तमम् ।
स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः ।
शशाङ्करूपं बीभत्सुः प्राध्मापयदरिंदमः ।।
[ शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः ।
उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम् ।।
आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम्।
अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम् ।।
यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव ।
मरुद्भिर्दशभिश्चैव प्राध्मापयदरिंदमः ]।।
शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत् ।।
तस्य शङ्खस्य शब्देन धनुपो निस्वनेन च।
वानरस्य निनादेन रथनेमिस्वनेन च।
जङ्गमस्य भयं घोरमकरोत्पाकशासनिः ।।
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ ।
उत्तरश्चापि संत्रस्थो रथोपस्थ उपाविशत् ।।
अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परंतपः ।
अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे ।।
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् ।
उत्तरं संपरिष्वज्य समाश्वासयदर्जुनः ।।
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप ।
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ।।
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः ।
कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः ।।
स त्वं कथमिवानेन शङ्खशब्देन भीषितः ।
विपण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ।।
उत्तर उवाच।
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः।
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः ।।
नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः।
ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम् ।
धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित् ।।
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च।
अमानुषाणां शब्देन भूतानां निस्वसेन च।
रथनेमिप्रणादेन मनो कमे मुह्यते भृशम् ।।
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च।
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे।
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ।।
वैशंपायन उवाच।
पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः ।
स मूढचेता वैराटिरर्जुनं समुदैक्षत ।।
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत् ।।
स्थिरो भव महाबाहो संज्ञां चात्मानमानय।
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च।
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ।।
एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः।
ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान्।
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च ।।
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत्।
उत्तरश्चापि संलीनो रथोपस्थ उपाविशत्।
तं समाश्वासयामास पुनरेव धनञ्जयः ।
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च।
गाण्डीवस्य च शब्देन पृथिवी समकम्पत ।।
।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि पञ्चचत्वारिंशोऽध्यायः ।। 45 ।।