विराटपर्व

अध्यायः ४४

Virata Parva (Sanskrit) · Adhyaya 44
अक्षर का आकार

वैशंपायन उवाच।

ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत्।
अहं भूमिंजयो नाम प्रणतोस्मि धनंजय ।।

दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय ।
लोहिताक्ष महाबाहो नागराजवरोपम ।।

यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम।
अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम ।।

यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम्।
अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि ।।

दासोऽहं ते भविष्यामि पश्य मामनुकम्पया ।।

या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात्।
सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते ।।

देवेन्द्रतनयस्येह सारथिः स्यां महामृधे ।
इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद ।।

प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् ।
मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत् ।।

आस्थाय विपुलं वीर रथं सारथिना मया।
दुर्योधनं च जित्वाऽऽजौ निवर्तय पशून्मम ।।

अर्जुन उवाच।

प्रीतोस्मि राजपुत्राद्य न भयं विद्यते तव।
सर्वान्नुदामि ते शत्रून्रणे रणविशारद ।।

स्वस्थो भव महान्युद्धे पश्य मां शत्रुभिः सह ।
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं रवम् ।।

गाण्डीवं देवदत्तं च शरान्कनकभूषणान्।
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे ।
एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ।।

अहं वै कुरुभिर्योत्स्ये मोक्षयिष्यामि ते पशून् ।
तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः ।।

संकल्पागाधपरिधं बाहुप्राकारतोरणम्।
त्रिदण्डतूणसंबाधं नैकध्वजसमाकुलम् ।।

ज्याक्षेपनिनदारावं नेमीनिनददुन्दुभिः ।
शरजालवितानाढ्यमाक्ष्वेडितमहास्वनम् ।
नगरं ते मया गुप्तं रथोपस्थं भविष्यति ।।

अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्विना ।
अजय्यः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ।।

उत्तर उवाच।

बहुना किं प्रलापेन शृणु मे परमं वचः।
नाहं बिभेमि कौन्तेय साक्षादपि शतक्रतोः ।।

यमवायुकुबेरेभ्यो द्रोणभीष्मशतादपि ।
बिभेमि नाहमेतेभ्यो जानामि त्वां स्थिरं युधि ।
केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् ।।

इदं तु चिन्तयन्नेव परिमुह्यामि केवलम्।
निश्चयं नाधिगच्छामि नावगच्छामि किंचन ।।

एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च।
केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम् ।।

मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम्।
गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम् ।।

अर्जुन उवाच।

भ्रातुर्नियोगाञ्ज्येष्ठस्य संवत्सरमिदं व्रतम्।
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ।।

नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः ।
उर्वशीशापसंभूतं क्लैब्यं समुपसंस्थितम् ।।

पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम्।
प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा ।।

नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ ।
अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे।।

रात्रौ समागता मह्यं शयनं रन्तुमिच्छया।
अहं तामभिवाद्यैव मातृसत्कारमाचरम् ।।

सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै।
श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता ।।

उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा।
इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा ।।

तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ ।
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ।।

उत्तर उवाच।

परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा।
न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः ।।

सहायवानस्मि रणे युद्ध्येयममरैरपि ।
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ।।

अहं ते संग्रहीष्यामि हयाञ्शत्रुनिर्बहण।
शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ ।।

दारुको वासुदेवस्य यथा शक्रस्य मातलिः।
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ।।

अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः।
योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः ।।

यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदंपदम्।
दक्षिणां यो धुरं वोढा सुग्रीवोण समो हयः ।।

योऽयं हयो धुर्यवरो वामां वहति शोभनः।
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ।।

योऽयं वहति वै पार्ष्णिं दक्षिणामञ्चितोद्यतः ।
वलाहकादभिमतस्तेजसा वीर्यवत्तरः ।।

योऽयं काञ्चनसन्नाहो वामं वहति शोभनः ।
धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम् ।।

त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् ।
त्वं चे.. रथमास्थाय योद्धुमर्हो मतो मम।
शर्वशत्रुभिरायातो देवराज इवासुरैः ।।

वैशंपायन उवाच।

ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः।
प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया ।।

ततो विमुच्य बाहुभ्यां सङ्खचूडानि पाण्डवः ।
तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ ।।

इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले ।
श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा ।।

अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः।
अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे ।।

ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम्।
इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन ।।

प्रणिपत्य ततः पार्थः समालभ्य च पाणिना।
सर्वाणि मानसानीह भवतेत्यभ्यभाषत।।

प्रतिगृह्य ततोऽस्त्राणि प्रह्लष्टवदनोऽभवत् ।
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ।।

तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः ।
यथा शैलस्य महतः शैलानाक्षिप्य जघ्रुषः ।।

सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम्।
भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः ।।

तं शब्दं कुरवो राजन्विस्फोटमशनेरिव।
तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः ।।

यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि ।
तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली ।।

महाशनिमहाशब्दसदृशो ज्यास्वनो महान् ।
शत्रून्वीरांश्च संतर्ज्य निग्रहस्थो रथे स्थितः ।।

उत्तर उवाच।

एकस्त्वं पाण्डवश्रेष्ठ बहूनोतान्महारथान्।
कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान् ।।

असहायो।सि कोन्तेय ससहायाश्च कौरवाः ।
अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः ।।

वैशंपायन उवाच।

उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा ।।

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ।।

तथा प्रतिभये तस्मिन्देवदानवसंकुले।
खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम ।।

निवातकवचैः सार्धं पौलोमैश्च महाबलैः ।
युध्यतो देवराजार्थे कः सहायस्तदाऽभवत् ।।

स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे।
युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत् ।।

उपजीव्य गुरुं द्रोणं शुक्रं वैश्रवणं यमम्।
वरुणं पावकं चैव कृपं कृष्णं च माधवम् ।
पिनाकपाणिनं चैव कथमेतान्न योधये ।।

रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि चतुश्चत्वारिंशोऽध्ययः ।। 44 ।।